________________
5 | हेतुस्त्र भविष्यति
एच्. वि. नागराजराव्
विद्यार्थीदशायां मम बहवः सती. आसन् । तन्मध्ये केचन सुहृदः, केचनाऽसूयवः, अपरे तटस्थाः । एकस्तु नारायणाख्यः अत्रोल्लेखनीयः । मया साहित्यपरीक्षायां सर्वप्राथम्यमलभ्यत । राज्ये प्रथमं स्थानं लब्धवान् इति मम गुरवः सन्तोषं प्राकटयन् । सुहृदः प्रशंसावचनान्युक्त्वाऽभ्यनन्दन् । नारायणः सभ्रूभङ्ग मां विलोक्य "एतन्न महत् । यदि अहं किञ्चिदधिकमपठिष्यं, तर्हि मयैव प्रथम स्थानमलप्स्यथ । इयं परीक्षा न मुख्येति मया उदासितम्" इत्युक्त्वा निरगच्छत् । स आढ्यस्य पितुः सुतः । सदोत्तमानि वस्त्राणि धारयति स्म । मम तादृशं किमपि नासीत् । मादृशेषु सर्वदा सोऽवज्ञामेव प्रकटयति स्म । राष्ट्रस्पर्धासु भागं वोढुं मयाऽवकाशे लब्धे तस्येा जातेति भाति । शालाध्यक्षस्य वरिवस्यां कृत्वा नागराजः सकलान् अवकाशान् प्राप्नोति इति स वक्तुम् आरभत । स्पर्धायां विजित्याऽहं सुवर्णपदकमपि प्राप्तवान् । माम् अभिनन्दयितुं शालायां सभारम्भ आयोजितः । एतत्तस्य शिरोवेदनाम अजनयत् । मयाऽपकारेऽकृतेऽपि अपकारिणमिव मां निन्दति स्म । कालो यातः । मया सामान्योद्योगो लब्धः । तेन उत्तम उद्योगो लब्धः। अहङ्कारेण द्विचक्रिकया गच्छन् नारायणो मां पथि पद्भ्यां चरन्तं वीक्ष्य
१३०