________________
सोत्प्रासं हसित्वा गच्छति स्म । कदाचन मित्राणां समारम्भेषु विवाहादिषु आवयोः परस्परं दर्शनं अभवत् । नमस्कर्तुं वदितुं च मया प्रयत्ने कृतेऽपि स “पश्यन्नपि न पश्यति" इति नीतिमवालम्बत । नगरे ममोपन्यासाः भवन्ति स्म । किन्तु कदापि न तत्र स श्रोतुमागतः । एवं गच्छति स्म कालः । ततस्तस्य बङ्गलूरुनगरे उद्योगो जात इति मया श्रुतम् । बहूनि वर्षाणि गतानि । मम विवाहो जातः । पुत्र उत्पन्नः । तस्य विद्याभ्यासः कारितः । विद्याभ्यासं पूरयित्वा पुत्रोऽमेरिकदेशे उद्योग प्राप्तवान् ।
कदाचनाऽहं बङ्गलूरनगरे उपन्यासं कर्तुं प्रसिद्धया कयाचन संस्थया आहूतः । तत्र वेदिकायाम् उपविष्टोऽहं सभ्यानां मध्ये प्रथमपङ्क्तौ नारायणम् अपश्यम् । किञ्चिद् विस्मितोऽपि अहं स्वभावानुगुणतया उपन्यासम् अकरवम् । ततस्तु समाप्तौ जातायां नारायण आगत्य नमस्कृत्य “अमोघं भाषणम् । महान् प्रमोदः । मम बाल्यसुहृत् एवं भाषत इति अभिमानस्य स्थानम् । अद्य प्रातः पत्रिकायां भवत उपन्यासोऽस्तीति वार्ताम् अद्राक्षम् । अत एव पल्या साकम् आगमम्" इत्युक्तवान् । मम विस्मयोऽधिको जातः । स पत्नी पर्यचाययत् । तत उक्तवान् “इदानीमपि भवान् मैसूरनगर्यां वर्तते खलु ?" इति । आम् इति मयोक्ते, स पुनरवोचत् “कदा तत्र गमनम्" इति । इदानीमेव रेलयानेन गमिष्यामि इत्यहमवोचम् ।
"अद्य मम गृहे उषित्वा श्वो गम्यताम्" इति नारायणो वक्तुमारभत । तस्य पत्नी च 'आगम्यताम्' इत्यब्रवीत् । “क्षम्यताम् । मयाऽद्य मैसूरुनगरं प्राप्तव्यमेव ।" इत्यहम् अब्रवम् । "तहि रेलस्थानं प्रति अहमेव भवन्तं प्रापयिष्यामि" - इत्युक्त्वा नारायणो महता विनयेन स्वीयं काऱ्यानम् आनीय रेलस्थानं मां नीतवान् ।
रेलयाने उपविष्टोऽहं बहुधा अचिन्तयम् । पूर्वं कदापि अदर्शितः स्नेहः कथमस्य मनसि उत्पन्नः? किं कारणं स्यात् ? इति । मया किमपि न ज्ञातम् ।
गतं दिनद्वयम् । ततोऽन्यस्मिन्नहनि मया दूरवाणीध्वनिरश्रूयत । भाषितुमुपक्रान्तवति मयि नारायणोऽवदत् “अपि कुशलं भवतः ? भवत्पत्न्याश्च ?" इति । एवं कुशलप्रश्नानन्तरं सोऽब्रवीत् "नागराज, आवयोर्दीर्घकालिकः स्नेहो बान्धव्ये परिणतो भवतु इति ममाऽऽशा । मम पुत्री वर्तते । तव पुत्रोऽस्ति । तयोविवाह: सम्पद्यताम् इति ममाशा । भवान् अनुमन्यताम्" इति ।
सहसोत्पन्नस्य नारायणस्नेहस्य निदानं मया तदा ज्ञातम् । तादृशस्य सम्बन्धमनिच्छन्नपि सौजन्येनाऽहमवदम् "भवत आज्ञा युक्तैव । मम पुत्रेण सम्भाष्य, यदि स विवाहोत्सुकः तहि कथयिष्यामि" इति । कतिपयदिनानन्तरं तेन पुनः सम्पर्कः कृतः । तदा मयोक्तम् "क्षम्यताम् । मम पुत्र इदानीं वोढुं नेच्छति" इति ।
पुनर्नारायणं कदाऽप्यहं न दृष्टवान् ।