SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ - सुभाषितानि ॥ विजयशीलचन्द्रसूरिः ‘सुभाषितं' गीर्वाणवाण्या आभूषणम् । नैकैः प्रवचनैः प्रबन्धैः काव्यैर्वा यत् प्रयोजनं न सिध्येत्, तद् बहुश एकेन लघुना सुभाषितेन सिध्यतीति सर्वेषामनुभवः । प्रभूतभाषणेनाऽपि प्रत्याययितुमशक्यो जन एकेन सुभाषितेन लोकोक्त्या वा प्रत्याय्यते इति तु विदितमेव विदुषाम् । प्रतिपाद्यस्य विषयस्य दाढर्क्ष्यार्थं वैशद्यार्थमपि च सुभाषित - प्रयोगो लोकोक्तिप्रयोगो वा क्रियत एव कविभिर्ग्रन्थकारैश्च स्वकीयग्रन्थेषु । अर्थान्तरन्यासः, काव्यलिङ्गं - एतौ द्वावलङ्कारौ तु बहुधा सुभाषितस्यैव कार्यं निर्वहत इत्यपि सर्वप्रतीतम्। पश्यन्तु एकमुदाहरणमत्र बहुप्रसिद्धम् ‘“सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ " अर्थान्तरन्यासोऽत्राऽतीव मर्मस्पृक्तया प्रयुक्तः कविना, एतदेव कारणं यदिदं श्लोकार्थं विद्वद्गोष्ठिषु स्वतन्त्र-सुभाषितत्वेन सर्वदाऽऽद्रियमाणं सञ्जातम् । कालिदास - भवभूतिप्रभृतिभ्य आरभ्याऽसङ्ख्येयानां कवीनां ग्रन्थाः ईदृशसूक्तिभिर्भरिताः सन्तीति तथ्यं तत्तद्ग्रन्थपाठिनां सुज्ञातमेव । अस्यामेव विद्वत्परम्परायां सञ्जातः श्रीहेमचन्द्राचार्य: । तत्त्वतः स जैनमुनिरेव तथाऽपि स्वीयसमयभावि-विद्वद्वृन्दे स विद्वन्मूर्धन्यत्वेन कलिकालसर्वज्ञत्वेन च ख्यातिमाप्तवानिति तु निःसन्दिग्धमैतिहासिकतथ्यम् । तेन नैके ग्रन्था विरचिताः । शब्दानुशासन - छन्दोनुशासन - काव्यानुशासन-लिङ्गानुशासनवादानुशासनेति नामकानि पञ्चाऽनुशासनान्यपि साङ्गोपाङ्गानि तेनोपज्ञानि । त्रिषष्टिशलाकापुरुषचरिताभिधानः पुराणग्रन्थोऽपि महाकायो महाकाव्यात्मको व्यरचि तेन । एतद्ग्रन्थविषये मान्यानां विदुषामेवंविधा श्रूयत उक्ति: ‘“यदिहाऽस्ति तदन्यत्र, यन्नेहाऽस्ति न कुत्रचित् " । उक्तेरेतस्याः सत्यत्वप्रतीतिस्तु ग्रन्थस्यैतस्याऽवगाहनं विनाऽशक्यैव । अस्मिन् महाकाव्ये सूरिणा तेन महात्मनां चरितानि निरूपयता प्रसङ्गं प्राप्याऽनेकाः सूक्तयः सुभाषितरूपा लोकोक्तिरूपाश्च ग्रथिताः सन्ति । तासां सूक्तीनां रसपानमत्र कारयितुमुपक्रमः । ये भद्रंभद्रतुल्या व्यवहारजडा जना देशं कालं चोपेक्ष्य स्वकीयपारम्पर्येणैव वर्तन्ते तानुद्दिश्य १९
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy