________________
आचार्यः कथयति -
"नहि सीदन्ति कुर्वन्तो देशकालोचितां क्रियाम्' || अयोग्यानां विरुद्धानां वा साहचर्य कीदृग् हास्यास्पदं भवेतेददाचार्य इत्थं सूचयति -
"कदली नन्दति कियद् बदरीतरुसन्निधौ ? ॥"
"वीणायां वाद्यमानायां वेदोदगारो न राजते ॥" मूढा अनागतभयोपायमकृत्वा भये उपस्थिते मौढ्येन इतस्ततो विह्वलीभूय धावन्ति, तदर्थं सूक्तिरियम् -
"कीदृशं कूपखननं सद्यो लग्ने प्रदीपने ?॥" 'यत्र दारिद्यं तत्र त्रीणि प्रभूतानि स्युः - सन्ततिः, क्षुत्, रोगाश्च' इति लोकप्रसिद्धम् । एतन्मनसि निधायेव आचार्येणोक्तम् -
"प्रायेण हि दरिद्राणां, शीघ्रगर्भभृत: स्त्रियः ॥" मत्सरिणो द्वेषवतश्च जनाल्लोका दूरमेव स्युरित्याशयेनाऽऽचार्येणोक्तम् -
"कुटुतुम्ब्याः पक्वमपि फलमश्नाति कोऽथवा ? ॥" सम्पत्तौ सर्वेऽपि स्वजनाः स्युः, विपद्वेलायां तु स्वीया भार्याऽपि त्यजतीति लोकस्थितिं वर्णयत्याचार्य एवम् -
"आसन्ने व्यसने लक्ष्म्या लक्ष्मीनाथोऽपि मुच्यते ॥" प्राणाः प्रकृतिश्च सदा सहैव यान्तीति लोकोक्तिः । आचार्यो विरुध्यत्यत्र -
"प्रकृतिव्यत्ययः प्रायो, भवत्यन्ते शरीरिणाम् ॥" अयमत्राशयः - स्वस्थः शान्तश्चाऽपि दृश्यमानो जनो मरणासन्नदशायां प्रायो विक्लवो रोदनशीलः परमुखप्रेक्षी च स्यादेव । उक्तिरेषा स्मारयत्येतां नीलकण्ठदीक्षितोक्तिम् -
"प्रायो मुह्यति चेतः प्राणिनां प्राणनिर्गमावसरे ।
पुण्येन यदि न मुह्यति पुत्रानेव स्मरन् म्रियते ॥" सहसा मुखादुद्गच्छन्ती वाक् प्रायशः भाविनि काले भविष्यतः कार्यस्य पूर्वसंकेतं ददातीवेति निरूप्यते आचार्येणेत्थं -
__ "भाविकार्यानुमानेन वागुच्छलति जल्पताम् ॥" उचिते-श्रेष्ठे स्थाने पदे वाऽयोग्यस्य जनस्य स्थापनं नितान्तमनुचितमिति सूचयतीयमाचार्योक्तिः
२०