________________
कुमारपालस्य सत्कार्यैः प्रसन्नीभूताः सततं तं यथोचितं प्रेरणं ददति स्म ।
वैक्रमे १२२३ तमे संवति भृगुकच्छनगरे आम्रभट्टमन्त्रिणा निर्मापितस्य शकुनिकाविहाराख्यजिनालयस्य प्रतिष्ठा हेमचन्द्राचार्यैः कृता । तदवसरे च राजा सर्वेऽपि च मन्त्रि-सामन्तादय उपस्थिता आसन् । प्रतिष्ठामहोत्सवोऽपि चाऽऽम्रभट्टेनाऽत्यन्तमुल्लसितहृदयेन भूरिद्रव्यव्ययं कृत्वा कृतः । तदा तस्याऽतीवोत्साहमुल्लासं च दृष्ट्वा नगरवास्तव्या सिन्धुदेवी तस्योपरि कुपिता सती तं विविधोपद्रवैः पीडयितुमारब्धा । तेन स मृतप्रायो जातः । तस्य परिवारजना बहु चिन्तिता जाताः । तदा केनचित् हेमचन्द्राचार्येभ्यो वृत्तमेतत् कथयितुं सूचितम् । परिवारजनैराचार्येभ्यस्तन्निवेदितम् । शीघ्रमेव चाऽऽचार्यैस्तत्र समागत्य स्वयोगबलेन सा सिन्धुदेवी निगृहीता, नियन्त्रिताऽऽम्रभट्टं च मोक्तुमादिष्टा । साऽपि तेषां तेजोऽसहमाना सद्य एवाऽऽम्रभट्ट मुक्त्वा स्वस्थान गतवती । ततो यथोचितमुपचारेराम्रभट्टः स्वस्थो जातः।
___ तदनन्तरं, कुमारपालेन स्वनगरे केचन जिनालया निर्मापिता आसन् । तेषां प्रतिष्ठा वैक्रमे १२२८तमे संवति कृता । तत्र च शुभमुहूर्त-लग्नादिवेलां साधयितुं हेमचन्द्राचार्यैः स्वशिष्यो बालचन्द्राख्यो घटीयन्त्रं दत्त्वोपवेशित आसीत् । किन्तु गुरुद्रोहिणा तेन स्वीयमर्थं साधयितुं लग्नवेलातः पूर्वमेव कथितं यद् - 'लग्नवेला समागते'ति । ततश्चाऽऽचार्यैर्मन्त्रोच्चारणपूर्वं तत्क्षणमेव प्रतिष्ठा कारिता । तदैव च वटपद्रात् कानजीनामा श्रेष्ठी धावन्नेव समागतः प्रतिष्ठां च समर्थितां दृष्ट्वाऽऽचार्यपादयोविलग्य विलपितुं प्रवृत्तो यथा - 'प्रभो ! मे प्रतिमायाः प्रतिष्ठा नैव जाते'ति । तदा शीघ्रमेवाऽऽचायैर्बहिरागत्य नभसि दृष्टिपातः कृतो ज्ञातं च - 'लग्नवेला त्विदानीमेव समायाते'ति । 'बालचन्द्रेण च स्वार्थसाधनाय मृषैव कथितमासी'दिति । तैर्झटिति तं श्रेष्ठिनं सान्त्वयित्वा तत्प्रतिमायाः प्राणप्रतिष्ठा कृता कथितं च - 'अस्य श्रेष्ठिनः प्रतिमायाः प्रतिष्ठाऽत्यन्तं शुभलग्ने सञ्जाताऽस्त्यत एषा चिरकालस्थायिनी । पूर्वं कृता तु प्रतिष्ठा न तथा चिरकालस्थायिनी । मन्ये दैवेच्छेयमेवाऽस्ती'ति ।
एतादृशाः प्रसङ्गास्त्वेतेषां जीवने बहवः समायाताः किन्तु तैः सर्वदाऽपि समतया समाधिना स्वस्थतया चैव व्यवहृतम् । एष हि तेषामस्तित्वेन सहाऽऽत्मसाद्भूतानां योगाध्यात्मादीनां प्रभाव आसीत् ।
अथ च सिंहावलोकनेन तेषां जीवनं विलोक्येत तदा ज्ञायते यद् - निजं समग्रमपि जीवनं तैर्नित्यनूतनसाहित्यसृष्टौ श्रुतोपासनायां च व्ययितम् । सहैवाऽन्तर्मुखताया योगाध्यात्मादीनां च साधनाऽपि निरन्तरं प्रवर्तमानाऽऽसीत् । तेषां ध्येयमासीत् भवबीजाङ्करजनकानां रागादीनां नाशः । तदर्थमेव च जीवनस्य प्रतिक्षणं प्रयतितं तैः । तेन च तेषां जीवनस्य प्रत्येकं क्षणः शुद्धानन्देन सात्त्विकप्रसन्नतया चैव व्यतीतः । तेषां संयमे साधुजीवने नित्यक्रियासु च तादृशं शौर्यं पराक्रमश्चाऽऽसीत् यादृशं ह्यपूर्वरणरसेन शत्रुणा सह युध्यमानस्य शूरयोधस्य कस्यचित् स्यात् । तैर्हि स्वीयामोघवाचा प्रायः सार्धलक्षं जनाः जैनधर्ममङ्गीकारिताः । एतादृशलोकसङ्ख्याबलेन ते हि कञ्चन नूतनसम्प्रदायं स्वकीयं गच्छं वा संस्थापयितुं समर्था आसन् । किन्तु तदर्थमावश्यकी महत्त्वाकाङ्क्षा तेषां नाऽऽसीत् नाऽपि च क्षुद्रता तुच्छता च ।