________________
लेखकस्य । श्रीमद्भिः कथितमासीत् "अनुमानतस्त्रिंशत् सहस्राणि कुटुम्बानि हेमाचार्याणामनुरागीण्यासन् । प्रत्येकं कुटुम्बे पञ्चषान् मनुष्यान् गणयेम चेदपि सार्धलक्षमाहत्य भवेत् । एतावन्तोऽनुयायिनो भवेयुश्चेत् कोऽपि पुमानात्मनः स्वतन्त्रं सम्प्रदायं स्थापयेदेव । आश्चर्यं नाम हेमाचार्या अस्मिन् कर्मणि सर्वथा निःस्पृहा एवाऽवातिष्ठन् । ते नैवाऽऽत्मीयं पृथग्गणं निर्मितवन्तः" इति ।
परिस्थितावस्यां राज्ञां चाटुकारिता करणीया भवेत् तादृशी स्थितिस्तेषां जीवने आगता स्यादित्यसम्भवमेव ।
___ वस्तुतो हेमचन्द्राचार्या राजप्रीति सम्पादयितुं शक्तास्तत्रैको हेतुस्तान् सर्वज्ञसिंहासनमारूढीकर्तुं शक्ता तेषां सर्वतोमुखी प्रतिभा; द्वितीयस्तु साम्प्रदायिकान् जातीयान् वा विवादान् मतभेदांश्चाऽतिक्रान्ता समुदारा सहिष्णुस्तत्त्वग्राहिका समन्वयसाधिका च दृष्टिः । अस्याः प्रज्ञाया अस्याश्च दृष्टेः परिणामेनैव सिद्धराजस्य 'कतमो धर्मो मोक्षप्रापकः' इत्यस्य प्रश्नस्योत्तररूपेणाऽऽचार्याश्चारिसञ्जीविनीचारस्योदाहरणं प्रदर्श्य राज्ञः प्रजायाश्च सन्तर्पकं समन्वयसाधकं प्रत्युत्तरं दातुं समर्था अभवन् । अथ चाऽनया प्रज्ञया दृष्ट्या च प्रेरिता एव ते सोमनाथशिवालये कुमारपालेन साकं स्थित्वा महादेवस्तोत्रं प्रणीतवन्तः ।
घटितं चैतद यत कमारपालस्याऽऽचार्यान प्रत्यतिभक्त्याऽऽकलीभतास्तेजोदेषिणो राजानं प्रचोदितवन्तः - "भवत्प्रीत्यर्थमाचार्या एवं समन्वयं समन्वयं प्रलपन्ति कथञ्चित् तादृशं कुर्वन्ति च । परं भवद्भिः सार्धं सोमनाथतीर्थयात्रायै आगन्तुं कथ्यताम् । नैवाऽऽगमिष्यन्ति । मिषं प्रदर्श्य च्युता भविष्यन्ती"ति । राजा कदाचिदेतत् तथ्यं भावितवान् सोमनाथयात्रार्थमाचार्यान् विज्ञपितवांश्च । आचार्यास्तत्क्षणमेव वार्ताया मर्माऽवगतवन्तो राजविज्ञप्तिमवधारितवन्तश्च । तेजोद्वेषिणोऽपत्रपिता जाताः । परं वातैतावता न समाप्ता । राजाचार्यादयो यदा सोमनाथमासादितवन्तस्तदा शिवालये आचार्याणां पुरतः पुनर्विज्ञप्तिः समुपस्थिता"भवतामरुचिर्न भवति चेदस्य ज्योतिलिङ्गस्य पूजनं क्रियतां, गृह्यतामेष पूजोपचारः" । आचार्याणामसामान्यपरीक्षायाः क्षण आसीत् । किन्तु सदास्वस्था योगिन आचार्या विना विलम्बं 'पूजोपचारेण पूजनं मुनीनामसम्मत'मिति नियममनुसृत्य यौगिकप्रक्रियया तादृशीं शिवपूजां व्यरचयन्, यत् तां दृष्ट्वा शिवालयस्य महामान्या अधीशा अपि विस्मयमापन्नाः । तदनन्तरं चाऽचार्यास्तत्रैव महादेवस्तोत्रं प्रणीतवन्तः, समग्रं परिसरं दिव्यया भव्यया च वीतरागतयाऽऽच्छादितवन्तश्च ।
तेषां तत् स्तोत्रं तेजोद्वेषिणां धर्मान्तरासहिष्णूनां कृते निशितमुत्तरमासीत् । तेनैव साकं, ईशस्तु वीतराग एव स्यात्, शिवस्तु कल्याणकृदेव भवेत्, शिवस्य स्वरूपं कल्याणमयमेव वर्तेत, सतोश्च रागद्वेषयोर्देवत्वस्य शिवत्वस्य वाऽसम्भव एवेत्यादीनां सनातनानां सिद्धान्तानां निनादोऽपि तत्र प्रतिफलति स्म । समन्वयस्तु तत्स्तोत्रे प्रतिवाक्यं स्यन्दते स्म ।
सोमनाथस्य विश्वविश्रुते आलये तदाऽवश्यं त्रिमूर्तेः - ब्रह्मविष्णुमहेशानां शिल्पं विद्यमानं स्यात् । तत् त्रिमूर्तिशिल्पं भावप्रवणानामीशमयानां स्तुतिपाठे समाधिस्थानामाचार्याणां दृष्टिपथमवतीर्ण
३१