________________
काव्यकालसर्वज्ञस्य समुदार दृष्टि:
मुनिविश्रुतयशविजयो गणि:
आचार्यवर्य कलिकालसर्वज्ञस्य समुदारतायाः किं वर्णनं स्यात् ? स तु अत्यन्तं नम्रोऽहङ्काररहितश्चाऽऽसीत् । द्वौ द्वौ राजानो सदा तस्य चरणयोः पततस्तथापि कदापि तैर्बलात् 'तव राज्यस्य सर्वे जनाः जैना एव भवन्तु' इति न कथितम् । अपि तु स्वयं सिद्धराजायाऽपि कदापि 'जैनधर्मपालनं करोतु' इति न कथितम् । 'भवान् मया प्ररूपितं धर्मं स्वीकरोतु' इति न कथितम् । किन्तु समन्वयदृष्ट्या धर्मं निगद्य जनानां विवेकचक्षुरुद्घाटितम् । तथैव सिद्धराजभूपालस्याऽपि विवेकचक्षुः स्वयमेव विकसितं भवेत् इति कृत्वा तत्पार्श्वे बलाद् किमपि न कारितम् ।
तत: कुमारपालभूपालोः गुर्जरनरेशोऽभूत् । स तु अत्यन्तं समर्पित आसीत् । तथापि स्वस्य मानसन्मानं गौणीकृत्य केवलमहिंसायाः परिपालनं एव कारितम् । किन्तु कदापि परस्परं विविधधर्माणां संघट्टनं - संघर्षश्च न कारितः । अपि तु परस्परं प्रेम्णो वृद्धिरेव कारिता ।
न केवलमेतद् यद् स्वयं न कलहप्रियः, अपि तु कुमारपालायाऽपि एवंरीत्या शिक्षा दत्ता । येन कस्यापि राज्यसस्य लोभेन स्वयं न युद्धं कृतवान् । केवलं स्वराज्यरक्षा कृते एव युद्धं कुमारपालेन कृतम् ।
एता सर्वा वार्ता तु प्रतिबोधादिरूपा जाता । किन्तु साहित्यक्षेत्रेऽपि स्व-परदर्शनानां विविधविषयान् अधिकृत्य स्वतन्त्रग्रन्था रचिताः । मध्यस्थबुद्ध्या विचारान् कृत्वा सम्यग् लेखनं कृतम् । परदर्शनकाराऽपि तेषां समुदारदृष्टिं विलोक्य विस्मिता जाता: । तेषां समुदारदृष्ट्या एव कुमारपालमूपाल अतीव आकृष्टः सन् तेभ्यो दूरं न गतवान् प्रतिदिनं तेषामभ्यर्णे स्वाध्यायादि यथाशक्यं कृतवांश्च ।
अत: कलिकालसर्वज्ञस्य समुदारदृष्ट्या तेषां नाम सम्पूर्ण भारतवर्षे विश्रुतम् । अद्याऽपि परदेशीया विद्वांसोऽपि स्वग्रन्थे तेषां नाम लिखति ।
ईदृशी समुदारदृष्टिरस्माकमपि भवतु ॥
0
१०२