________________
पत्रम्
मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये । आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । अत्र वयं सर्वेऽपि कुशलाः स्मः । तत्राऽप्येवमेव स्यादित्याशासे । देव-गुरु-धर्मस्य प्रसादेन पूज्यपादगुरुभगवता सहाऽस्माभिः कर्णावतीनगरतः प्रारब्धा विहारयात्राऽद्य सुखं समाप्ता ।
विहारं कुर्वता यदा सावरकुण्डलानगरं प्राप्तं तदा मयैकं दृश्यं दृष्टम् । मार्गशीर्षमास आसीत्, शीतकालो वर्तते स्म, प्रत्यूषकाल आसीत् । मार्गस्यैकस्मिन् कोणे चतुभि: पोतैः सह कुक्कुरी स्वपिति स्म । तैः सह सूकर्यास्त्रयः पोता अपि निद्रान्ति स्म । यं कुक्कुरं निरीक्ष्येतस्ततो नश्यन्तः सूकरपोता अपि कुक्कुरपोतैः सह सानन्दं ससुखं च प्रेम्णा सालिङ्गनं सुप्ताः, इति दृष्ट्वा मनसि विचारधारा जागृता ।
चेतन ! प्रत्येकं प्राणी प्रेम वात्सल्यं चेच्छति । तदेव प्राणिनां नूतनं चैतन्यं जीवनं चाऽर्पयति । मनसा हताशाः, सामाजिक-व्यवहारैस्त्रस्ताः, कौटुम्बिकक्लेशैः पीडिताः, सर्वतः सततमुपेक्षिताश्च प्राणिनोऽपि प्रेम्णा वात्सल्येन चाऽऽहूताः शान्तिमनुभवन्ति जीवने हि नूत्नां दिशं चाऽवाप्नुवन्ति ।
उपेक्षया घृणया क्रोधेन च यन्न भवति तत् प्रेम्णा वात्सल्येन च भवति । उपेक्षादिकेन कदाचिदन्यान् त्वं वशीकुर्याः किन्तु तेषां हृदयं न जेतुं शक्नुयाः । प्रेम्णा वात्सल्येन च त्वमन्यान् वशीकुर्या एव,
११२