SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आस्वादः | तीर्थङ्करमहावीरस्य उपदेशाः राजेशकुमार मिश्रः एकदा श्रद्धालुः महावीरं पृष्टवान् - भगवन् ! अहं सर्वव्रतान् पालयामि । अजितधनस्य एकांशदानं करोमि ! उपवासमपि करोमि, तथापि मनः शान्तं न भवति । कृपया कथ्यताम्, मनसः शान्त्यर्थं किं करणीयमस्ति ? भगवान् महावीरः प्रश्नोत्तरं दत्तवान् - भद्र ! धनदानेन सन्तोषं न धारय । स्वहस्तेन परसेवां कुरु। अन्धकारं नाशयितुं दीपकं प्रज्वालय । अज्ञानान्धकारग्रस्तं ज्ञानदीपप्रकाशेन भक्तिमार्ग दर्शय, येन संसार-सागरात् उद्धारः स्यात् । ईश्वरभक्तिसंलग्नाय दिव्यानन्दानुभूतिः भवति । जिज्ञासुना प्रश्नः कृतः - भगवन् ! जैनधर्मस्य कः सारः ? स्वामिमहावीर उत्तरे कथितवान् – भद्र ! त्वं स्वस्मै यद् इच्छसि, तत्परस्मै अपि वाञ्छ । यत्त्वं स्वस्मै नेच्छसि, तत्त्वं परस्मै नेच्छ । यत्त्वं स्वस्मै करोषि, तत्त्वं परस्मै कुरु । एतदेव जैनशासनमस्ति । अयमेव जैनधर्मस्य सारः । जिज्ञासुः प्रश्नं कृतवान् - भगवन् ! अस्माकं किं कर्तव्यमस्ति ? भगवान् महावीर उपदिष्टवान् - भद्र ! यदि त्वं स्वपीडां न वाञ्छसि, तत्परपीडनमपि न कुरू । सदाचारं पालय । सद्विचारान् धारय । ज्ञानप्रकाशं प्रसारय । इत्थं स्वामिना महावीरेण स्वास्याऽन्तिम उपदेशः कार्तिककृष्णत्रयोदश्यां कृतः । स्वामिमहावीरस्य उपदेशाः प्रसिद्धाः सन्ति । अध्यापकः, राजकीय उच्चतरमाध्यमिकविद्यालयः, देवताधारः, पत्रालय:-कोटः चम्बा - २४९१४५ (उत्तराखण्ड-) १११
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy