SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् पाण्डवानां प्रवज्या अन्यदा पत्तने - चतुर्मुखाख्यजैनेन्द्रालये व्याख्यानमद्भुतम् । श्रीनेमिचरितस्याऽमी श्रीसङ्घाग्रे प्रतुष्टुवुः ॥१॥ * श्रीहेमचन्द्राचार्याः सुधासारवचःस्तोमाकृष्टमानसवासनाः । शुश्रूषवः समायान्ति तत्र दर्शनिनोऽखिलाः ॥२।। पाण्डवानां परिव्रज्या-व्याख्याने विहितेऽन्यदा । इतरे मत्सराध्माता: व्याचख्युपतेरिदम् ॥३॥ * सिद्धराजजयसिंहस्य स्वामिन् ! पुरा महाव्यासः कृष्णद्वैपायनोऽवदत् । वृत्तं युधिष्ठिरादीनां भविष्यज्ज्ञानतोऽद्भुतम् ॥४॥ तत्रेदमुच्यते स्वायुःप्रान्ते पाण्डोः सुता अमी । हिमानीमहिते जग्मुहिमवद्भूधराध्वनि ॥५॥ श्रीकेदारस्थितं शम्भुं स्नानपजनपूर्वकम् ।। आराध्य परमाभक्तिस्वान्ताः स्वान्तमसाधयन् ॥६॥ युग्मम् ॥ अमी श्वेताम्बराः शूद्रा विद्रुतस्मृतिसूक्तयः । तदुक्तवैपरीत्यानि जल्पन्ति निजपर्षदि ॥७॥ अनौचित्यकृताचारात् पुरे तेऽरिष्टमित्यदः । भूभृता रक्षणीयाश्च दुराचाराः प्रजाकृताः ।।८।। विचार्य हृदि कार्याणि विचारक ! विधेहि तत् । इत्युक्त्वा विररामाऽसौ परव्यूहोऽतिधीरगीः ।।९।। राजाऽप्याह न भूपाला अविमृश्यविधायिनः । दर्शनानां तिरस्कारमविचार्य न कुर्वते ॥१०॥ अनुयोज्या अमी चाऽत्र दधुश्चेत् सत्यमुत्तरम् । तन्मे गौरविता एव न्याय एवाऽत्र नः सुहृत् ॥११।। १०८
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy