________________
तथा हि
-
हेमाचार्योऽपि निर्ग्रन्थः सङ्गत्यागी महामुनिः । असूनृतं कथं ब्रूयाद् विचार्यं तदिदं बहु ||१२|| एवं भवत्विति प्रोचुः प्रवीणा इतरे अपि । आजुहाव ततो राजा हेमचन्द्रं मुनीश्वरम् ॥१३॥ अपृच्छदथ माध्यस्थ्यात् सर्वसाधारणो नृपः । शास्त्रे चाऽऽर्हती दीक्षा किं गृहीता पाण्डवैः किमु ? ||१४|| सूरिरप्याह शास्त्रे नः इत्यूचे पूर्वसूरिभिः । हेमाद्रिगमनं तेषां महाभारतमध्यतः ॥ १५ ॥ परमेतन्न जानीमो ये नः शास्त्रेषु वर्णिताः । त एव व्यासशास्त्रेऽपि कीर्त्यन्तेऽथ परेऽपरे ||१६|| राजाऽऽह तेऽपि बहवः पूर्वं जाताः कथं मुने ! अथाऽवोचद् गुरुस्तत्र श्रूयतामुत्तरं नृप ! ॥१७॥ व्याससन्दर्भिताख्याने श्रीगाङ्गेयः पितामहः । युद्धप्रवेशकालेऽसावुवाच स्वं परिच्छदम् ॥१८॥ मम प्राणपरित्यागे तत्र संस्क्रियतां तनुः । न यत्र कोऽपि दग्धः प्राग् भूमिखण्डे सदा शुचौ ॥१९॥ विधाय न्याय्यसङ्ग्रामं मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाट्याऽस्य ययुर्गिरौ ॥२०॥ अमानुषप्रचारे च शृङ्गे कुत्राऽपि चोन्नते । अमुञ्चन्; देवतावाणी क्वाऽपि तत्रोद्ययौ तदा ॥ २१ ॥ अत्र भीष्मशतं दग्धं पाण्डवानां शतत्रयम् । द्रोणाचार्यसहस्त्रं तु कर्णसङ्ख्या न विद्यते ॥२२॥ एतद् वयमिहाऽऽकर्ण्य व्यमृशाम स्वचेतसि । बहूनां मध्यतः केऽपि चेद् भवेयुर्जिनाश्रिताः ||२३|| गिरौ शत्रुञ्जये तेषां प्रत्यक्षाः सन्ति मूर्तयः । श्रीनासिक्यपुरे सन्ति श्रीमच्चन्द्रप्रभालये ||२४|| केदारे च महातीर्थे कोऽपि कुत्राऽपि तद्रतः । बहूनां मध्यतो धर्मं तत्र ज्ञानं न नः स्फुटम् ॥२५॥ स्मार्त्ता अप्यनुयुज्यन्तां वेदविद्याविशारदाः ।
ज्ञानं कुत्राऽपि चेद् गङ्गा न हि कस्याऽपि पैतृकी ॥२६॥
१०९