________________
अन्यत्रापि रहस्यमिदं समुपलभ्यते । सिद्धहेमशब्दानुशासनस्य स्वोपज्ञविवरणे हेमाचार्यैः 'अहम्' अक्षरं सकलागमोपनिषद्भूतरूपेण परिचायितमस्ति । एवंरीत्या परिचयस्य कारणमित्थं विवृण्वन्ति लघुन्यासे कनकप्रभसूरयः - "सकलेति । सकलाः समस्ता ये आगमा लौकिका लोकोत्तराश्च तेषामुपनिषद्भूतं रहस्यभूतम् । ननु 'अर्ह'मित्यस्याऽर्हद्वाचकत्वे सति कथं लौकिकागमानामुपनिषद्भूतमिदम् ? इति । सत्यम्। सर्वपार्षदत्वाच्छब्दानुशासनस्य समग्रदर्शनानुयायी नमस्कारो वाच्यः । अयं चाऽहमपि तथा । तथाहि
"अकारेणोच्यते विष्णू, रेफे ब्रह्मा व्यवस्थितः ।
हकारेण हरः प्रोक्त-स्तदन्ते परमं पदम् ॥ (-महादेवद्वात्रिंशिका-३२) इति श्लोकेनाऽर्हम्-शब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि अर्हमिति पदमुपनिषद्भूतमित्यावेदितं भवति" इति । ब्राह्मणानां नगरपुराणेऽपि 'अर्हम्'पदमाहात्म्यं वर्णितम् -
"अकारादि-हकारान्तम्, ऊर्ध्वाधोरेफसंयुतम् । नादबिन्दुकलाक्रान्तं, चन्द्रमण्डलसन्निभम् ॥ एतदेव परं तत्त्वं, यो विजानाति भावतः ।
संसारबन्धनं छित्त्वा, स गच्छेत् परमां गतिम् ॥" हरिभद्राचार्यकृत-अष्टकप्रकरणस्य वृत्तौ श्रीजिनेश्वरसूरिभिरप्युपरितनश्लोकसदृशा एव श्लोका उद्धृता
वर्तन्ते
"अष्टवर्गान्तकं बीजं, कवर्गस्य च पूर्वकम् । वह्निनोपरिसंयुक्तं, गगनेन विभूषितम् ।। एतदेव परं तत्त्वं, यो विजानाति भावतः ।
संसारबन्धनं छित्त्वा, स गच्छेत् परमां गतिम् ॥" एवं समग्रतया विमर्श महादेवद्वात्रिंशिकायामुपनिषदां पुराणानां च रहस्यानि निक्षिप्तानि सन्तीत्यनुभूयते एव ।
हेमचन्द्राचार्याणां शिष्या अपि विद्वमूर्धन्याः प्रतिभासम्पन्नाश्चाऽऽसन् । तेषां सर्वेषां शिष्याणां वार्ता न क्रियते चेदपि रामचन्द्राचार्याणां वार्ताऽवश्यमुल्लेख्या ।
कुमारपालदेवप्रबन्धतो (सिंघीग्रन्थमालाप्रकाशिते कुमारपालचरित्रसङ्ग्रहेऽन्तर्गततः) यथा ज्ञायते
३३