________________
चङ्गोऽपि सोमचन्द्राख्यां बिभ्राणोऽखण्डसंयमः । ऊर्जस्वी समभूत सौम्यः सिद्धसारस्वतो गुणी ॥७॥ बालत्तणे वि नूणं अन्नूणगुणोहपूरियं हिययं । गुरुजणकरुणावसओ विणिम्मियं सोमचंदेण ॥८॥ तस्याऽनन्यगुणग्रामा-भिरामां वीक्ष्य पात्रताम् । दत्तं सूरिपदं तस्मै गुरुणा गुणचारुणा ॥॥ रसरसससहरतरणि-प्पमिए(११६६) वरिसेत्थ थंभतित्थपुरे । वइसाहसुद्धतइआ-दिणे दिणेसो ब्व तेयंसी ॥१०॥ सोमचन्द्रमुनिस्त्वेक-विंशत्यब्दवयास्तदा। संजातो हेमचन्द्रेति-नामतः सूरिशेखरः ॥११॥ गुज्जरभूमिनरेसो जगप्पसिद्धोऽत्थि सिद्धरायनियो । पियसज्जणसंसग्गो विज्जासंवड्ढणे रत्तो ॥१२॥
आकर्ण्य श्रीहेमसूरे-र्बाल्येऽप्यद्भुतवैदुषम् । विद्या-संस्कारसंसिद्ध्यै नृपेणाऽऽकारितो गुरुः ॥१३॥ तिहुअणगंडनिवेण हि विण्णतेहिं गुरुहिं तो रइआ । अणुसासणगंथा अहिणवा अउब्वा जगक्खाया ॥१४॥ अनेकलक्षसङ्ख्याक-पद्यप्रमितनूतनम् । साहित्यं सर्वविषयं निर्मितं हेमसूरिणा ॥१५॥ गुज्जरधरणीअहिवो कुमारपालो वि जेण पडिबुद्धो । जाओ सावयसीसो गुरुस्स गुरुगुणगरिढुस्स ॥१६॥ कुमारनृपतिद्वारा सप्तव्यसनवारणम् । दुर्गतेरिणं येना-ऽखिलदेशे प्रवर्तितम् ॥१७॥ अट्ठारसदेसेसु वि अमारिपरिपालणं खु संजायं । जस्सोवएसवसओ सो नंदउ हेमसूरिगुरू ॥१८॥ अनाग्रहो मुक्तिहेतुः, साम्यं काम्यं सदा बुधैः । इत्येवं सूचितं येन निजाचरितजीवितैः ॥१९॥