________________
पुद्गल-कोश
४२१
आगे के सूत्र की व्याख्या करेंगे । उसको प्रसंगवश यहाँ कहा है । इसी प्रकार जघन्य गुण स्निग्ध और जघन्य गुण रूक्ष- इन दोनों को छोड़कर अन्य मध्यम और उत्कृष्ट गुण स्निग्धों का रूक्षों के साथ तथा मध्यम और उत्कृष्ट गुण रूक्षों का स्निग्धों के साथ परस्पर बंधन होता है - यह अर्थ - अर्थापत्ति प्रमाण से लभ्य होता है । सामर्थ्य से जाना जाता है । वह जैसा - जिस प्रकार होता है उसका उसी प्रकार कहेंगे । यहीं यहाँ उपयुक्त होता है ।
-
भाष्य - अत्राह - उक्तं भवता – जघन्यगुणवर्जानां ( स्निग्धानां ) रूक्षेण रूक्षाणां च स्निग्धेन सह बंधो भवतीति । अथ तुल्यगुणयोः किमत्यन्त प्रतिषेध इति ? अनोच्यते-न जघन्यगुणानामित्यधिकृत्येदमुच्यते
सिद्ध० टीका - अवाहेत्यादिना ग्रन्थेन संबंधं विधत्ते । प्रतिपादित भवताऽनन्तरं जघन्यगुणस्निग्धरूक्षयोर्मास्ति बंधः, तन्निषेधादन्येषां जघन्य गुणवर्जानां बंधप्रसङ्ग सदृशानां प्रतिषेधे यतो विधेय इत्यर्थापत्तिप्रापितं चेदं द्विगुणस्निग्धस्यैकगुणरूक्षेण सह एकगुण स्निग्धस्य द्विगुणरूक्षेण सह बंधो भवतीति ।
-
अथ
एतदुक्तं भवति - निकृष्ट स्निग्धरूक्षयोर्बन्ध प्रतिषेधान्मध्यमोत्कृष्ट स्निग्धरूक्षगुणानां परस्परेण बंधः प्रतिज्ञातोऽर्थतः पृथगधिकारणानाम् । तुल्यगुणयोः किमत्यन्तप्रतिषेध इति प्रश्नयति, प्रस्तुतानन्तरवचनोऽयमथ शब्दः, तुल्यगुणयोः स्निग्धाधिकरणयोरेकैकगुणयोः किमेकान्तेनव प्रतिषेध इति प्रश्ने कृते अत्रोच्यत इत्याह । अत्यन्तप्रतिषेध एव, क्वाधिकृत इति चेदित्याह, न जघन्य गुणानामित्यधिकृत्येदमुच्यते यथैव स्निग्धरुक्षाणां जघन्यविषयाणां बंधाभावस्तथैव गुणसाम्ये सदृशानां बंधाभाव इति संबंधनीयम् । अथवा स्निग्धरूक्षयोभिन्नाधिकरणयोर्बन्धप्रतिषेधः कृतोऽथ तुल्य गुणयोः किं प्रतिपत्तव्यमिति सामर्थ्यादिध्याहारं कृत्वा व्याख्येयम्, तुल्य गुणयोः स्निग्धाधिकरणयोः रूक्षाधिकरणयोर्वा किं बंधनिषेधः प्रतिपत्तव्यः, आहोस्विद् बंधविधिरिति ? आचार्य आह - अत्यन्तप्रतिषेध इति, एकान्तेनेव प्रतिषेधः स पुनर्न जघन्यगुणानामित्यत्र सूत्रेऽधिकृतस्तमाश्रित्योच्यते ।
Jain Education International
For Private & Personal Use Only
- तत्त्व० अ ५ । सू ३३
www.jainelibrary.org