________________
शब्द के नित्यत्व का खंडन ]
प्रथम परिच्छेद
[ मीमांसकावर्ण नित्यत्वसाधने प्रत्यभिज्ञानहेतुं दर्शयति तद्धेतोव्यभिचारं दर्शयति जैना: ]
ननु च नित्या वर्णाः प्रत्यभिज्ञानादात्मादिवदिति चेत् क्षणिकेष्वेव करणाङ्गहारादिषु ' ' प्रत्यभिज्ञानाद्विरुद्धो ' हेतुः । एतेन बुद्धिभिर्व्यभिचारी च हेतुरुक्तः, बुद्धिकर्मभ्यां व्यभिचार इत्यभिधानात् । ननु बुद्धिकर्मणोरपि नित्यत्वोपगमान्नायं दोष:, ते अपि नित्ये इति वचनात् तथोपगमे विरोधाभावादिति चेत् तत्क्रियैकत्वेपि किमिदानीमनेकं स्यात् " ?
[ मीमांसक वर्णों को नित्य सिद्ध करने में प्रत्यभिज्ञान हेतु देते हैं, जैनाचार्य उस हेतु को व्यभिचारी सिद्ध करते हैं ]
[ १६१
मीमांसक - " वर्ण नित्य हैं क्योंकि उनका प्रत्यभिज्ञान होता है आत्मादि के समान ।"
जैन -- करण अंगहार — अंग विक्षेप आदि क्षणिक में भी प्रत्यभिज्ञान होता है अतः आपका हेतु विरुद्ध है । तथा च इस प्रकार हेतु में विरुद्धपना के आने से यह हेतु बुद्धि के साथ व्यभिचारी भी है, क्योंकि बुद्धि का भी प्रत्यभिज्ञान होता है । अतः "बुद्धि और कर्म के द्वारा इस प्रत्यभिज्ञान हेतु व्यभिचार होता है" ऐसा हमारे यहाँ कथन है ।
शंका- बुद्धि और कर्म - क्रिया को भी नित्यरूप स्वीकार करने से यह दोष नहीं आता है "ते अपि नित्ये" ऐसा वचन पाया जाता है । अतएव उस प्रकार से स्वीकार करने में विरोध का अभाव ही है ।
1 प्रत्यभिज्ञायमानत्वात् । ( दि० प्र०) 2 आदिशब्देन कालदिगाकाशादय: । ( दि० प्र०) 3 हस्तपादसमायोगं करणं मुनयोऽवदन् । करणद्वितयेनात्र मात्रिका परिभाष्यते ॥ १ ॥ षड्भिः सप्तभिरष्टाभिर्नवभिर्वा यथा रुचिः करणैरंगहारस्यात्तदुद्देशोऽधुनोच्यते । ननु च अंगहारादयोऽक्षणिका एव ततश्च व्यभिचारः कथमित्याशंक्य योजनीय मंगहारोऽगविक्षेपपताकादिहस्ताभिः नय इत्यर्थ: । ( दि० प्र० ) 4 अत्राह स्याद्वादी । हे मीमांसक ! तव वर्णानां नित्यत्वाभ्युपगमे एकत्त्वाभ्युपगमे च प्रत्यभिज्ञानादिति हेतुः क्षणिकेषु करणांगहारादिषु प्रवर्तमानत्वाद् व्यभिचारी अस्माभिरुच्यते । त्वया बुद्धिकर्मणोरपि एकत्वसंगीक्रियते यदि तदास्माभिरुच्यते बुद्धिविक्रिययोरेकत्वेपि सर्वमेकं प्रतिपत्तव्यं त्वया मीमांसकेन । ( दि० प्र०) 5 आदिशब्देन हंसपक्षविकुट्टितादि परिग्रहः । तथा च तद्ग्रन्थः । ऊर्द्ध कनीयसी यस्मिन्नंगुष्ठः कुञ्चितो मनाक् । शेषाः प्रसारिताः श्लिष्टाः सहस्तोहं सपक्षकः । स्थित्वा चाङ्घितलाग्रेण भूमिपाय विकुद्यते । विकुट्टिताभिधः प्रोक्तपादो नृत्यविशारदैः । मीमांसक आह । सर्वस्यैकत्वाऽभ्युपगमेऽस्माकं को दोषः । स्या० आह । यद्येवं तहि सर्वेषामकारादिवर्णानामेकत्वप्रसंग: । इति दूषणं स्यात् । मीमां० वर्णानां नानात्वमेवेति चेन्न । स्याद्वादी । वर्णानां नानास्वभावत्वमेव । तालवाद्यऽभिव्यञ्जकभेदात् । यथा चन्द्रस्येति वक्तुं शक्यं । तथा च क्वfear प्रत्यक्षविरोधे सति अन्यत्र बुद्धिविक्रययोरेकत्वाभ्युपगमे तवाविरोधः कुतस्तत्रापि विरोध एव । ( दि० प्र०) 6 स एवायमंगहार इत्त्यत्र क्षणिकत्त्वेपि प्रत्यभिज्ञानं वर्त्तते ततो हेतोविरुद्धत्वम् । (दि० प्र० ) 7 बुद्धिकर्मणी । ( दि० प्र०) 8 यदि विक्रियैकत्वं तर्ह्यनेकं किम् । (दि० प्र०) 9 वस्तु । तर्हि । नित्ये । ( दि० प्र०) 10 नैव ( दि० प्र०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org