Book Title: Ashtsahastri Part 2
Author(s): Vidyanandacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan
________________
परिशिष्ट
(श्रीआचार्य विद्यानंद महोदय ने इस ग्रंथ में अन्य ग्रंथों के जिन श्लोकों को)
उद्धृत किया है, उन्हीं का यह संकलन है)
उद्धृत श्लोक
पृष्ठ ने.
ur
किं स्यात्सा चित्रकस्यां न स्यात्तस्यां मतावपि । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥१०५॥ ६ किं नु स्यादेकता न स्यात्तस्यां चित्रमतावपि । यदीदं रोचते बुध्ये चित्रार्य तत्र के वयम् ॥१०६॥ ७ तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ।।१०७॥ १३ सुखमाह्रलादनाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्याधूनः कान्तासमागमे ॥१०॥ तदतद्रूपिणो . भावास्तदतद्रूपहेतुजा । तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥१०॥ स्वपक्षसिद्धिरेकस्य निग्रहोन्यस्य वादिनः । नासाधनांगवचनं नादोषोद्भावनं द्वयोः ॥११०॥ ५५ स्वपक्षसिद्धिपर्यन्ता शास्त्रीयार्थविचारणा । वस्त्वाश्रयत्वतो यद्वल्लौकिकार्थविचारणा ॥१११॥ ५६ मूलप्रकतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥११२।। हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिंगम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥११३॥ ७८ त्रिगृणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥११४॥ प्रकृतेमहांस्ततोहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पंचभ्यः पंच भूतानि ॥११५।। ८० सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमुष्टं नाभिधावति ॥११६॥ ८१ अविभागोपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥११७॥ ८५ यथाविशुद्धमाकाशं तिमिरोपप्लुतो नरः । संकीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ॥११॥ ८६ तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रपश्यति ॥११६॥ ८६ नान्योनुभाव्यो बुद्ध्यास्ति तस्या नानुभयोऽपरः । ग्राह यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥१२०॥ १८३ पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता । तस्मात्सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः ॥१२१॥ १६१ सत्ता सकलपदार्था सविश्वरूपा त्वनंतपर्याया। स्थितिभंगोत्पादार्था सप्रतिपक्षा भवत्येका ॥१२२॥ २१० अनादिवासनोद्भूतविकल्पपरिनिष्ठितः । शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रितः ॥१२३॥ २२३ अर्थस्यासंभवे भावात् प्रत्यक्षेपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ।।१२४॥ २२६ भावा येन निरूप्यते तद्रूपं नास्ति तत्त्वतः। यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥१२॥ २३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 490 491 492 493 494