Book Title: Ashtsahastri Part 2
Author(s): Vidyanandacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 491
________________ प्रशस्ति सिद्धं सन्मतिदेवस्य धर्मचक्रकशासनम् । सर्वार्थसिद्धिकर्तारं शासनं जिनशासनम् ॥१॥ बर्षे चतुःशते सप्तत्युत्तरे वीरनिर्वृते । कुंदकुंदगणी जातो गौतमानुप्रसिद्धिभाक् ॥२॥ तस्य पूतान्वये ख्याते तपोज्ञानपरायणाः । बहवः ख्यातनामानः समभूवन्महर्षयः॥३॥ क्रमशस्तत्र सञ्जातः प्रशान्तः सागरोपमः । शांतिसागर आचार्यो मुनीन्द्रो गणनायकः ॥४॥ येन दैगम्बरी दीक्षा विधिलॊके प्रवर्तितः । चिरादासीन्निरुद्धोऽसौ कलिकाल प्रभावतः ॥५॥ तत्प्रतिष्ठापदं लेभे सूरि: श्री वीरसागरः । निग्रहानुग्रहे दक्षो व्यवहारविदांवरः ॥६॥ तपसा तेजसा कीर्त्या प्रभावेण महौजसा । तत्प्रतिष्ठासमः सूरिर्नास्ति सूर इवाम्बरे ॥७॥ महाभागस्य तस्यैव गुरोः पादयुगान्तिके । आर्यिकायाः प्रव्रज्या मे सजाता भवहारिणी ॥८॥ नाम्ना ज्ञानवती चाहं कृतानेनैव सूरिणा । तत्प्रसादान्मया लब्धमात्मज्ञानं भवान्तकम् ।।६।। लब्धमासीदतः पूर्वं ब्रह्मचर्य व्रतं मया । देशभूषणसूरीणामन्तिके क्षुल्लिकाव्रतम् ॥१०॥ सर्वत्र विहरन् भूमौ वीरवत् वीरसागरः। आयुरन्ते समाधिस्थः दिवं यातो महामुनिः ।।११।। शिवसागर आचार्यस्ततस्तत्पट्टमाश्रितः । संसारदुखतप्तानां शिवं साक्षात् प्रदर्शयन् ॥१२॥ वर्षाणां द्वादशं यावत् विहारं कृतवानसौ । पुनः समाधि संप्राप्य स्वर्गलोकं समाश्रितः ॥१३॥ ततः संधानुसम्मत्या धर्मवाद्धिरिवापरः । धर्मसागर आचार्यस्तस्य पट्टे प्रतिष्ठितः ॥१४॥ यस्यानुशासनं पूतं श्रावकैर्मुनिभिस्तथा । मूनि संधार्यते नित्यं जिनाज्ञेव सुदृष्टिभिः ॥१५॥ अध्यात्मन्यायसिद्धांत-ज्ञानं सम्यक् जिनोदितम् । श्रुतदेव्याः प्रसादाद्धि, लब्धं तस्यै नमोऽस्तु मे ॥१६॥ श्रुतभवत्या-वगाहते, सज्ज्ञानामृतवारिधिं । तस्मात्तद्भक्तिभावेन, तामेव हृदि धारये ।।१७।। मरुप्रदेशके ग्रामोऽस्ति टोडारायसिंहकः । तत्र श्रीपार्श्वनाथस्य मंदिरे जिनसन्निधौ ॥१८॥ रसविष्णुदिशा युग्मे वीराब्दे विश्रुते शुभे। पौषमासि सिते पक्षे द्वादश्यां शुक्रवासरे ॥१६॥ विख्याताष्टसहस्त्र्या वै गीर्वाण्या राष्ट्रभाषया । गुरुभक्त्यानुवादोयं मया सम्यगपूर्यत ॥२०॥ स्थेयादष्टसहस्रीयं राष्ट्रभाषा विभूषिता। विदुषां रञ्जनं कुर्याद्यावच्चंद्रदिवाकरौ ॥२१॥ इंद्रवज्रा छन्द स्याद्वाचितामणिनामधेया, टीका कृतेयं स्वयमल्पबुद्ध्या । सम्यक्त्वशुद्ध्यै भवतात् सदा मे, चिंतामणिः स्याज्जगते च मह्यम् ॥२२॥ इति शुभं भूयात् 卐 -5 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494