Book Title: Nandanvan Kalpataru 2005 00 SrNo 14
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521014/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवन कल्पतरू-१५ शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ : सङ्कलनम् : कीर्तित्रयी उत्तरायणम् वि.सं. २०६१ For Private Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ नन्दनवन कल्पतरु-१४ शासनसमाजामिह समुदाये मेरुपर्वतीपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ : सङ्कलनम् : कीर्तित्रयी उत्तरायणम् वि.सं. २०६१ Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ॥ चतुर्दशी शाखा ।। (संस्कृतभाषामयं अयन-पत्रम् ।।) ON सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात || NON वि.सं. २०६१, इ.स. २००५ मूल्यम् : रू. १००/ प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर 5 १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465 OYA सम्पर्कसूत्रम् : “विजयशीलचन्द्रसूरिः" C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 2668887909 मुद्रण : "क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद 380013 दूरभाष : 079 - 27494393 Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् “भगवन् ! समेषां सन्मतिं दद्या:" यदा तदा हि कालः स्वस्वरूपदर्शनं कारयत्येव । 'करालोऽयं कालः' - इति 'सुनामी'ताण्डवकाले जातः सद्यस्क एवाऽयमनुभवः समेषाम् । सर्वमपि हतविहतं जातम् । न तद् वर्णनीयं पुनः पुनः । यद् घटितं तत् कल्पनातिगमासीत् । प्रकृतेः पुरो निःसहायोऽयं मनुष्य इत्येतत् पुनः सिद्धं जातम् । प्रकृतिकूतः प्रहारोऽयं मनुष्यस्य मिथ्याऽहङ्कारोपरि । प्रकूतेः कुपितं क्रौर्यं वैतदिति चर्च्यते परस्परम् । किन्तु नाकारणमेष कोप: प्रकृतेः । चिन्तनमावश्यकमत्र । तूणमात्रमपि कार्यं नाकारणं जायते । किमत्राऽस्माकं मन्तव्यमित्यस्य नास्ति | किमपि महत्त्वम् । सर्वेषां हृदयान्यातद्धितानि जातानि, तच्च स्वाभाविकमपि । किन्त्वत्र कारणं तु स्वस्योपर्येतद् घटितं तदस्ति । स्वार्थ एव रोदयत्यस्मान्, न कणा । अनेनैतादृशेन वा हताशा वयं भवामः, न किन्तु जागृताः । स्वार्थसिद्ध्यर्थं यत्किमप्याचरितुं वयं सदैवोद्यताः स्मः । किन्तु यदा स एव स्वार्थः कथमपि प्रहृतो भवति तदा वयं दीना भवामः । प्रकृतिस्तु मनुष्यस्य प्रत्येकं कृत्यं स्वदैनन्दिन्यामयत्येव । यानि कानिचनाऽपि-अस्माकं वचनानां वर्तनानां विचाराणां वा-आन्दोलनानि सन्ति तेषां समेषामपि गणना तत्र भवत्येव । स्वस्वार्थसिद्ध्यर्थमेषणापूर्त्यर्थं वा मनुष्यो नाऽन्यस्य कस्यचिदप्याक्रन्दनं सन्तापं वा परिलक्षयति । तदात्वे तु तस्य कर्णौ हृदयं च पिहितानीव जायन्ते । स्वकीयावसर एव सोऽन्येभ्यः सकाशात शोभनव्यवहारमपेक्षते । नाऽत्र के नाऽप्येवं मन्तव्यं यन्मनुष्योपरि सहानुभूति स्ति, तदस्त्येव, किन्तु | सहानुभूतिपात्रं केवलं मनुष्य एवेति भ्रम इदानीं निरसनीयः । समग्रमपि प्राणिजातं सहानुभूतेरधिकारि। सामान्यतस्तु महान्तमातङ्कं विना मनुष्यं प्रत्यपि दुर्लक्ष्यमेवाऽन्येषां मनुष्याणाम्, तत्र मूकानां पशु-पक्षिणां तु का वार्ता ? कोटिसङ्ख्याकानां निर्दोषाणां पशु-पक्षिणां निणं हत्या क्रियते नित्यशः । तदपि सर्वकारप्रदत्तानुमत्यैव । किमर्थम् ? धन-प्रतिष्ठादिकं सम्पादयितुम् । तदा तेषां पशु-पक्षिणामाक्रन्दनं चीत्कारो वा किं कर्णयोः प्रविशति ? तेषामथुप्रवाहो दृश्यतेऽपि खलु ? किं तेषां सा यातना हृदयं Page #5 -------------------------------------------------------------------------- ________________ स्पृशत्यपि ? न ह्येव । सर्वेऽप्यन्ये प्राणिनोऽस्माकं लोलुपतापुष्ट्यर्थमेव निर्मिता इव मत्वा मनुष्यस्तैः सह व्यवहरति । यत्किमपि वस्तुजातं स्यात् - शृङ्गारप्रसाधनानि वा, औषधानि वा, उपभोगसाधनानि वा, नैतावदेव किन्तु खाद्यपदार्था पेयपदार्था वाऽपि - सर्वत्र प्राण्यङ्गानि प्रयुक्तानि भवन्ति । पाश्चात्याननुकृत्यैवं कुर्वन्तो वयं स्वस्वत्वाद् भ्रष्टा भवाम इत्यपि न जानीम इति करुणतैव खलु ? तेषां प्रदेशीयानां स्वादलिप्सां तोषयितुमस्माकं देशे एतावती हिंसा क्रियते । तेषां जीवानामार्तनादस्यैव प्रत्याघातरूपेण भूकम्पादय आतङ्काः समुद्भवन्ति । “अत्रैव किमर्थमेवं भवति नाऽन्यत्र ?” एवंभूतेभ्यस्तर्केभ्यः प्रकृतिनिर्लेपा वर्तते । वयं मनुष्याः कियतोऽपि तर्कान् कुर्याम न कस्याऽपि प्रत्युत्तरं प्रकृतिर्ददाति कदाचिदपि । यतः साऽप्यस्मत्कार्यमधिकृत्य न कमपि प्रत्युत्तरमपेक्षते । मर्यादाया अतिक्रमणे सा तु प्रहरत्येव । एतावतः प्रहारान् विषह्याऽपि 'किमत्र कारण’मिति गवेषणं चिन्तनं वा मुक्त्वा तर्कोपस्थापनस्य मूर्खता तु मनुष्य एव कर्तुं शक्नुयात् खलु ? “आजीवनं स्वकार्ये नियोज्य पश्चात् किमर्थमरमान जन्ति भवन्तः ? किमपराद्धमस्माभिः ?"-पशुपाक्षिणामेतादृशा मूकतर्का यथाऽस्माकं हृदये न प्रविशति तथैवाऽस्माकं मिथ्यातळ अपि प्रकृतेः कर्णविषया नैव भवन्ति । ___नाव केवलं हिंसैव कारणम् । अन्यान्यपि दुष्कृत्यसहस्राण्यत्र निराबाधं प्रवर्तन्ते । अत्र भ्रष्टाचार: प्रवर्तते, न केवलं प्रवर्तते किन्तु तत्राग्रगण्यदेशेषु भारतस्य गणना भवति । गौरवस्य विषयः खल्वयम् ! “मम भारतवर्षो महान्” - इत्युद्घोषणमात्रेणैव न कथमपि महत्ता प्राप्यते । उन्नतस्थानस्थितैः क्रियमाणेन भ्रष्टाचारेण सामान्यस्थितिकानां मनुष्याणां का गतिर्भवति-इति केन लक्ष्यते ? अपरं च देशोऽयमस्माकमत्यन्तं न्यायप्रिय (?) इति प्रतिभाति । अत्र तु धर्मगुरुणामपि कारावासः सहज एव । शङ्कराचार्यसदृशानां धर्मगुरुणां कारावासस्तु महद् दुर्भाग्यमेतस्य देशस्य । विडम्बना त्वेषा यद् - 'न्यायः सर्वेषां कृते समान एवेति समुद्घोषणमपि सततं क्रियते । अपरपार्श्वे तु ये हत्या-चौर्य-पारदारिकत्वस्पाश्यो-त्कोचादिदुष्कृत्यानि निःसङ्कोचं समाचरन्ति, एतादृशा अपराधाश्च येषां न्यायालये प्रमाणिता अपि जाताः, ते देशमनुशासति । तेषां रक्षणार्थमारक्षकगणः परितश्चलति । एतत्त्वस्माकं देशस्यौदार्यमेव परिगणनीयं किल ? यैर्नियमान् पुरस्कृत्य धर्माचार्यस्याऽपि बन्धनमनुमतं तेषां चारित्रं कियदुज्ज्वलमिति तु सर्वविदितमेव । सज्जनानां हृदयमेतद् व्यथयत्येव किन्तु निःसहायास्ते किं कर्तुं शक्नुयुः ? अधिनियमानां भीकरं मुखं तान् भापयति सततम् । अत एव निःसहायाः सन्त एवं क्रियमाणं स्वधर्मस्याऽवमाननमपि ते सहन्ते । . भवतु.... दुष्कृत्यानां सूचिर्दीर्घतराऽस्ति, सर्वविदिताऽपि । विचारशीलान् पीडयत्येतत् सर्वमपि । Page #6 -------------------------------------------------------------------------- ________________ अद्यतनकाले त्वेतत् कथनमरण्यरुदनमेव, गोरग्रे गीतापाठो वा, महिषस्याऽग्रे महाभारतं वा, उन्मत्तस्याऽग्रे उपनिषद्वर्णनं वेव समजायते । अतोऽलमनेन । किन्तु न विस्मर्तव्यमस्माभिरेतद् यन्न किञ्चिदपि दुराचरितं निष्फलं भवति, तत्फलं यदा कदाऽपि भोक्तव्यमेव भवति । वयमस्माकं मिथ्याभिमानं दुराग्रहं तर्कजातं वा मुक्त्वा यदि चिन्तने प्रवत्स्यामहे तदा त्ववश्यमेवैतत्सत्यं प्रतिभास्यति । अत्राऽस्माकं कृते तु प्रार्थनमेव शरणम्- “भगवन् ! समेषां सन्मतिं दद्या:' इति । कीर्तित्रयी वसन्तपञ्चमी २०६१ भद्रेश्वरतीर्थम् (कच्छ) *2 5399-235R $30 SER R R R R ? बहुभिर्वर्षैः प्रश्न एको मम चित्तं सततमुद्वेजयति यद् - 'यो देशो भव्यायाः संस्कृतेः परम्परामुद्वहति, यत्र च भूमावुन्नताऽऽध्यात्मिकता विकासं प्राप्ता - तत्रत्या मनुष्याः किमर्थमेतावद्दीर्घकालं यावत् परतन्त्रा एवाऽवातिष्ठन् ?' इति । किञ्च, सहैवाऽन्योऽपि प्रश्नः समुपस्थितो यद्- 'पुराणेष्वपि किमर्थमेवमेव परिदृश्यते यत् शक्तिस्तु सदा राक्षसाधीना एवाऽऽसीत्, न देवाधीना ? किमर्थं देवाः शक्तिहीना: ? किमर्थं वा राक्षसाः शक्तिसम्पन्नाः ?' - इति । प्रश्नस्याऽस्य पुनः पुनश्चिन्तनेन प्रत्युत्तर एकश्चित्ते प्रस्फुरितो यद् ये राक्षसा आसन् ते सर्वेऽपि पूर्वं तपस्विन आसन् । उग्रं तप आचरितं तैः । किन्तु तपःप्रभावाद् या शक्तिः समुत्पन्ना सा भोगकार्य एव विनियुक्ता तैः, अतस्ते राक्षसा जाता: । - अतः, देशस्याऽस्य स्थितिः कथमेवंरूपा जाता ? इति विचारिते प्रतिभाति यद् ये तपस्विन आसन् ते भोगिनो जाताः । तपस्विनश्च यदा पतनं भवति तदा स दानव एव सम्पद्यते, नाऽन्यः कश्चित् । दानवानां न भिन्ना काऽपि जातिर्भवति । ये दानवा आसन् प्रह्लादस्य पिता, कृष्णस्य मातुलः, रावण इत्यादयः ते सर्वेऽप्यस्माकं स्वजन सम्बन्धिनश्चैवाऽऽसन् । - अथ मम प्रथमः प्रश्नः - यत्र तु सर्वोच्चमाध्यात्मिकं दर्शनं विकसितं स देशः स्वकीये इतिहासे किमर्थमधिकतया परतन्त्रः, अल्पतयैव च स्वाधीनोऽवातिष्ठत् ? इति यदा विचार्यते तदा त्वेकमेव कारणं तत्र स्फुरति यदस्य देशस्य जनानां भाषा (वचन- विचारादिकं ) तु सदाऽध्यात्मेन सम्बद्धा एव प्रवर्तते किन्तु तेषां प्रेरणा लिप्सा वा सदा भौतिकी एव वर्तते । पाश्चात्या जनास्तु यद्यपि केवलं भौतिकाः किन्तु प्रामाणिका: । अस्माकं देशे तु भौतिकी प्रामाणिकतैव नास्ति, भौतिक्याकाङ्क्षा एव केवलं प्रवर्तते इति । ( गूर्जरभाषायां मू.ले. दादाधर्माधिकारी) - $30-$30R-5302-FOR-SEER SOER-SX SEX SCR SOR OR SOX OR SOX XXXX వారికీ దారికి తెపలకి పనికి బాలN KS WE GES రికి వారికి 5 Page #7 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः जयतु संस्कृतम् जयतु भारतम् आत्मीयबन्धो ! नमस्ते । भवद्भिः प्रेषितो नन्दनवनकल्पतरुः प्राप्तः (२००४-१२, वि.सं. २०६०) । यद्यपि दृष्ट्वा (पुस्तकं) आनन्दं प्राप्तवती तथापि पठित्वा महानन्दम् अनुभवामि । अग्रिम- पुस्तकानि कदा आगमिष्यन्ति इत्यपि वाञ्छा भवति । पठितं विषयं पुनः पुनः पठितुम् इच्छा अपि उत्पन्ना भवति ।। अतः नन्दनवनकल्पतरुः पुरातनपुस्तकं (वि.सं. २००१) अपि नूतनम् एव । मम मातृभाषा तामिलभाषा । तस्यां भाषायां बहुविधनीतिवाक्यानि (Proverbs) क्रीडारूपेण वदामः । तादृशं संस्कृते कथं वदामि इति चिन्तामग्ना आसम् । तदा "आभाणकजगन्नाथः" दृष्ट्वा बहु सन्तोषः अभवत् । नन्दनवनकल्पतरुः संस्कृतपठनाय बहु उपयोगी अस्ति । B-54/5, D.R.O.Colony, भवदीया K.Pudur, Madurai-625007 (Tamilnadu). टि.कला मान्याः , सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' त्रयोदशोऽङ्कोऽधिगतः । 'प्रास्ताविके' जागरणाय या प्रेरणा प्रदत्ता, सा मर्म संस्पृशति । डा. रामकिशोर मिश्रस्य 'आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम्' इति लेखः शोधात्मकं विवरणं प्रस्तौति । 'मङ्गलकलशः' एका रम्या कथाऽस्ति, या प्राणिनः सत्कर्मणि प्रवर्तयति । कृतानां कर्मणां फलं भोक्तव्यमेव भवति, किन्तु स्वार्थलिप्सया जनाः सत्कर्माणि परित्यजन्ति, परपीडने प्रवञ्चने वा रमन्ते । अन्या अपि रचना मानवीयान् गुणान् || संवर्धयन्ति । जयतु संस्कृतं संस्कृतिश्च । विनीतः रूपनारायणपाण्डेयः एस्-II /३३०, राज्यशिक्षासंस्थानकालोनी, एलन गञ्जः, प्रयागः (उ.प्र.) २११००२ Page #8 -------------------------------------------------------------------------- ________________ वाचकाठमां प्रतिभावः अयि नन्दनवनकल्पतरुसम्पादिके कीर्तित्रयि ! जयतु भारती ! भवत्या प्रेषिता नन्दनवनकल्पतरोस्त्रयोदशी शाखा मयाऽधिगता । अत्र मम शोधपत्रम् 'आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम्' प्रकाशितम्, तदर्थमाभारं मन्ये । अत्र प्रकाशिताः सर्वा रचना रम्या मनोहराश्चित्ताकर्षणयुक्ताश्च सन्ति । आचार्यविजयहेमचन्द्रसूरिकृतमष्टकद्वयमस्ति मनोहरम् । आचार्यविजयपद्मसूरिकृता तत्त्वामृतभावना भव्या । पाण्डेयश्रीताराशङ्करशर्मकृतं दिव्यभारतीगानं चित्ताकर्षकम् । अभिराजराजेन्द्रमिश्ररचितं गलज्जलिकाद्वयं रम्यम् । आभाणकजगन्नाथो मनुष्यजीवनं दर्शयति । श्रीहरिभद्रसूरिणा सन्दृब्धः प्राकृतगाथानिबद्धो योगशतकग्रन्थो मुनिरत्नकीर्तिविजयेन संस्कृतेऽनूदितो भव्यो रम्यश्च । अस्यैव मुनिरत्नकीर्तिविजयस्य चिन्तनधारा जनकल्याणकारिणी वर्तते । पण्डितव्रजलालोपाध्यायस्य दान-प्रदान-सम्प्रदानानि शुभङ्कराणि सन्ति । द्विवेदिमहेश्वररमानाथस्य तस्मै श्रीगुरवे नमो नाम लेखः सुन्दरः । मुनिधर्मकीर्तिविजयस्य पत्रं कथात्रयञ्च मनोहरम् । मुनिकल्याणकीर्तिविजयेन श्रीदेवचन्द्रसूरिकृतस्य प्राकृतस्य 'सिरिसन्तिनाहचरिय'स्याऽऽधारेण सङ्कलिता मङ्गलकलशनामिका कथा जनजीवनं प्रकाशयति । मर्मनर्मविभागे सम्पादिकया कृता जनसंवादा अपि हृदयाकर्षकाः सन्ति । प्राकृतविभागेऽन्ते मुनिकल्याणकीर्तिविजयेनैकाऽपरा प्राकृतकथा सङ्कलिता । सम्पादिकाया प्रास्ताविके 'किं किं न घटतेऽद्य ?' हैदराबादनगरे सूनागृहस्य स्थापनायै सततं क्रियमाणं प्रयासं प्रति पशूनां निघृणहत्यायै चिन्ता प्रकटिता, यया जीवेषु प्रेम रक्षितं भवति । एषा नन्दनवनकल्पतरुपत्रिका संस्कृतेन सह प्राकृतमपि पुष्णाति रक्षति च । अस्याः प्रकाशनं सततं स्यादिति कामये । भवदीयः दिनाङ्का : २१-११-२००४ डॉ. रामकिशोर मिश्रः कार्तिकशुक्लैकादशी, २९५/१४, पट्टीरामपुरम् विक्रमसंवत् - २०६१ खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेशः Page #9 -------------------------------------------------------------------------- ________________ स्वाध्यायः 'भगवते ऋषभाय नमो नमः' * गलज्ञ्जलिकाः .. १. भविष्यति वादः २. यथैव व्यतीतानि ३. तावके मरुवणे !!! ४. गतभीरहं जातः (आस्वादः पत्रमू ANTONIO CANNON कृति: अनुक्रमः बाल जैनाचार्य श्रीविजयने मिसूरिविरचिता रघुवंशद्वितीयसर्गटीका चिन्तनधारा 8 कर्ता आचार्यविजयहेमचन्द्रसूरिः डॉ. अभिराजराजेन्द्रमिश्रः पृष्ठम् मुनिधर्मकीर्तिविजयः १ m 20 5 मुनिरत्नकीर्तिविजयः १०४ मुनिधर्मकीर्तिविजयः १०७ Page #10 -------------------------------------------------------------------------- ________________ छालामालालाबालालाबाला अनुक्रमःला लालाबालालाबालाज कृतिः कर्ता पृष्ठम् अनुवादः । (१) कर्तव्यग्रहणम् - मुनिकल्याणकीर्तिविजयः ११३ (२) हृदयवेधः मुनिकल्याणकीर्तिविजयः ११४ जैनाचार्यश्रीसिद्धसेनदिवाकरसूरिः ___ (संक्षिप्तपरिचयः प्रवानं च) र प्रा. मधुसूदन व्यासः ११५ डॉ. रूपनारायण पाण्डेयः ११७ ग्रन्थसमीक्षा गीताञ्जलिः ख्यालयचनिया न्द्रिका मनुष्यान डॉ. रूपनारायण पाण्डेयः १२१ कविराजमार्गः । श्रीयल्लापुरकृष्णशर्मा हास्यमेव जयते : सरल-निदोष-हास्यस्रोतः प्रा. अनिल र. द्विवेदी १२६ Page #11 -------------------------------------------------------------------------- ________________ Irace रङ्गमञ्चः कृति: मार्ग-नर्मा प्राकृतम् एए अनुक्रमः । । । । ঘর कर्ता उपायनम दुःखव्यसनम् 'बाधति' बाधते पाववडो लोहे लादो नदिय 10 मुनिरत्नकीर्तिविजयः १२९ मुनि कल्याणकीर्तिविजयः अरविन्दभाई कापडिया सहसा विदधीत न क्रियाम् । | आचार्य डॉ. रामकिशोरमिश्रः १३४ पृष्ठम् कीर्तित्रयी १३१ १३२ १३९ मुनि कल्याणकीर्तिविजयः १४० मुनि कल्याणकीर्तिविजयः १४२ Page #12 -------------------------------------------------------------------------- ________________ भावाले ऋणाभाय नमो नमः आचार्यविजयहेमचन्द्रसूरिः (द्रुतविलम्बितवृत्तम्) कूतजगज्जनमङ्गलशर्मणे, त्रिभुवनार्चितपादसरोरुहे । प्रथमराड्-मुनि-तीर्थक राय ते, भगवते ऋषभाय नमो नमः ॥१॥ भवति नैव यदङ्घिपयोजयोविरचिता प्रणतिर्विफला कदा । नृपतिनाभिकुलाभरणाय ते भगवते ऋषभाय नमो नमः ॥२॥ कचभरो हि निजांसलुठन् हरेविनतितः खलु येन न लुञ्चितः ।। विनतवत्सलतादिगुणाय ते भगवते ऋषभाय नमो नमः ॥३॥ विनमिना नमिना च निरन्तरं यदनघाङ्ग्रियुगं समुपासितं । सकलकामितकामघटाय ते, भगवते ऋषभाय नमो नमः ॥४॥ Page #13 -------------------------------------------------------------------------- ________________ वसुनिधि(९९)प्रमितस्वनन्दनान्, 'कुरुत सङ्गर' मित्थमुपादिशत् । सकलसत्त्वहिताय जिनाय ते, भगवते ऋषभाय नमो नमः ॥५॥ स्वसुतबाहुबलिं तनयामुखाद्, 'गजत उत्तर वीर' वचस्त्विदम् । प्रहितवान् भगवान् य इनाय ते, भगवते ऋषभाय नमो नमः ॥६॥ समसहस्रतपश्चरणार्जितं, विमलके वलरतमुपाहरत् । स्वजननीकरयोर्य उपांशु ते भगवते ऋषभाय नमो नमः ॥७॥ های کومها که به کوه کوهی که د भविकलोकचकोरहिमांशये, दुरितसन्तमसौघखरांशवे ! शमवते भवतेऽनुपमाय ते, भगवते ऋषभाय नमो नमः ॥८॥ इति मया गुरुदेवपदाम्बुजभ्रमरहेमसुधाकरसूरिणा । प्रथमतीर्थपतिः स्तुतिगोचरो, विहित ईप्सितदानसुरद्रुमः ॥९॥ Page #14 -------------------------------------------------------------------------- ________________ ॐ गलज्जलिकाः HER डॉ. श्रीअभिराजराजेन्द्रमिश्रः । कुलपतिः श्रीसम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी २२१००२ भविष्यति वादः पटहं प्रहर जनिष्यति नादः वचनं रचय भविष्यति वादः ॥१॥ _दूरे विचरसि, को ननु लाभः ? पार्श्वमुपैहि भवति संवादः ॥२॥ निग्धं पश्य मधुरतामाप्तुम् शमय मनो भवितैवाऽऽह्नादः ॥३॥ देवोऽथवा मनुष्यो घुष्टः चरितैरेव जनः क्रव्यादः ॥४॥ क्व नु साम्यं, चेदसतां शंसा सदसि, सतामपि यदि परिवादः ॥५॥ हन्त, पलाण्डुलशुनसंघर्षे प्रभवेत्कस्य तु गुणानुवादः ?? ॥६॥ संशयितो रामस्तत एव यतोऽस्त्ययोध्या फैज़ाबादः ॥७॥ सुरक्षिता संसद्राष्ट्रेऽस्मिन् स्वाध्याये चेत्कृतः प्रमादः ॥८॥ अभिराजो यद्यपि कटुभाषी तस्य स एवोचितप्रसादः ॥९॥ Page #15 -------------------------------------------------------------------------- ________________ यथैव व्यतीतानि यथैव व्यतीतानि बाल्ये दिनानि । तथैवोपयास्यन्त्यहोडनागतानि ॥१॥ 09 पृथिव्यां स्वपान्तरं नो प्रभाते सरिच्छैलनीद्वनानि स्थिराणि ॥२॥ भवेत्कल्पनायां चिरं स्वर्गसौख्यम् सरन्त्येव चिन्तादिभिर्जीवनानि ॥३॥ भ्रमिष्यन्ति नो ग्रामवीथीसु सिंहाः अरण्येषु वा मानवानां कुलानि ॥४॥ फलिष्यन्ति काले द्रुमा एव बन्धो ! न दारयन्त्यहोऽम्भोधरास्ते फलानि ॥५॥ श्रयत्यम्बरं सर्वदैवाऽग्निधूमः धराभ्यन्तरादेव निर्यज्जलानि ॥६॥ न कश्चिन्तयत्यागते मृत्युकाले विधेयानि मुक्तान्यहो कानि कानि ॥७॥ विहायेश्वरं सृष्टियात्राकथानां रहस्यानि को वेत्त्यहो तानि तानि ॥८॥ Vaavat: Page #16 -------------------------------------------------------------------------- ________________ तावके मरुवणे !!! ३५१ कामनानां वनी यत्त्वयोत्सादिता तत्फलं दृश्यते तावके मरुवणे ॥१॥ खण्डितं यत्तपो हन्त सारस्वतम् तत्समालक्ष्यते तावके विनशने ॥२॥ लाञ्छितं यद्यशः कस्यचिद्गास्वम् प्रत्यभिज्ञायते तत्तवाऽऽस्कन्दने ॥३॥ सुस्थिरा प्राणयात्रा यदुच्चाटिता दृश्यते सैव ते नित्यमाहिण्डने ॥४॥ लुण्ठितं कस्यचिज्जातु यद् हर्षणम् तत्समालोक्यते तावके क्रन्दने ॥५॥ यत्त्वयोपेक्षितं शाम्भवं वैभवम् तत्स्थिरं निस्त्रपे तेऽद्य भिक्षाटने ॥६॥ मन्दिरं हा स्मशानीकृतं यत्त्वया तेन जीवस्यसम्भावनेऽपावने ॥७॥ रक्षितं यन्न शीलं त्वयेन्द्रोत्कया कान्तशप्ताऽभिलुप्ता ततोऽश्मायने ॥८॥ हन्त, सीता दशग्रीवरागोन्मदा वीक्षिता त्वत्प्रणीते हि रामायणे ॥९॥ Page #17 -------------------------------------------------------------------------- ________________ TER गतभीरहं जातः गृहं दृष्ट्वा भृशाऽऽक्रान्तं मलिम्लुचसञ्चरत्संघैः निधाय द्वारि भीषणकुक्कुरं गतभीरहं जातः ॥१॥ 438 समुत्थो यस्सदा सर्वैः समं, फलिते ममाऽऽम्रवणे समारोप्याऽत्र ब—रान् विवादोऽसौ स्वयं यातः ॥२॥ मया सम्पोषितो यस्सोदरो रक्तं पिबन्नासीत् पृथग्भूतस्स जानीतेऽद्य नो सन्ध्यां न वा प्रातः ॥३॥ स्वसिद्धान्तं दृढीकर्तुं वरोपायस्त्वयाऽन्विष्टः स्वयं यन्नोच्यते मयका बुधैः पूर्वं समाम्नातः ॥४॥ कुशाग्राश्चाऽप्यभूवन् वैरिणस्सति नग्नपादे मयि क्व शूलं कण्टकञ्च सपादुके व नु दुस्सहोद्घातः ॥५॥ कियच्चित्रं यदाऽऽसं जातु भीतरसङ्कटेभ्योऽहम् इदानीं प्रेक्ष्य मामेव द्रवति दूरं विपद्वातः ॥६॥ सहायित्वं न भेजे कोऽपि मे ऋजुपथसमायिणः इदानीं याचते साह्यं न कः सम्बोध्य मां भ्रातः ॥७॥ प्रकृतिमिथ्याभिनयमुक्ते स्वतंत्रे सांख्यपुरुषे मयि गुणानां कुत्र वैषम्यं व वा सहजस्त्रितयतापः ॥८॥ दुकूलं वानचित्रितमिव मदीयं जीवनं नूनम् क्वचिद्यस्मिन् सरसवापी वचित्खलु शैलसंघातः ॥९॥ Page #18 -------------------------------------------------------------------------- ________________ OMG.. ATARN DDA MALI जैनाचार्यश्रीबिजायनेम्मित्सरिविरच्चिना स्वाध्यायः रघुवाशद्धितीयामागंटीबका पोरच्चाद्या विजयशीलचन्द्रसूरिः विंशतितमे शतके जैनसङ्के सर्वतोमुखप्रतिभाभाजो धर्मप्रभावकाश्चाऽऽचार्यॐ श्रीविजयनेमिसूरीश्वरमहाराजाः समजायन्त । सम्यग्ज्ञानोपासनपरमश्रद्धालुभिस्तैर्जेनतर्कविषया हैमव्याकरणसम्बद्धाश्च नैके ग्रन्थाष्टीकाग्रन्थाश्च विरचिताः सन्ति । तेषु च बहुशो ग्रन्थाः प्राकाश्यमपि सम्प्राप्ता वरीवृत्यन्ते । अथैतेषामेकोऽप्रकाशितोऽपूर्णश्च टीकाग्रन्थोऽस्ति महाकविकालिदासविरचित-रघुवंशमहाकाव्यस्य द्वितीयसर्गस्य वृत्त्यात्मकः । केवलं त्रिंशतः श्लोकानेवाऽधिकृत्य विरचिता टीकैषाऽत्यन्तं विशदा, विस्तृता, मर्मग्राहिणी, तात्पर्यबोधनी Kा चाऽस्ति तथा सहृदयपठितुश्चित्ते चमत्कारं हृदये आनन्दमाह्लादं च जनयन्ती विविधान् हो र विषयान् समकालमेव बोधयित्री विद्यते । व्याकरणाध्ययनानन्तरं तर्कपठनोपक्रमाच्च पूर्वं रघुवंश-कुमारसम्भव9 किरातार्जुनीय-शिशुपालवध-नैषधीयचरिताभिधानां पञ्चानां महाकाव्यानां विशदाध्ययनं र तद्गतकाव्यतत्त्व-रसालङ्कारादीनां बोधश्च व्युत्पत्त्यर्थं संस्कृतसाहित्यमहार्णवावगाहनार्थं A चाऽऽवश्यकमनिवार्यं च - इति किल संस्कृतभाषासाहित्याध्येतॄणां प्राचीना विद्वज्जनसम्मता A च परम्परा । जैनमुनिष्वपि परम्परैषाऽद्यावधि प्रचलिता सन्मान्या चाऽऽसीत् । किन्तु दुरदृष्टवशात् सङ्कचितचित्तवृत्तय ऐदंयुगीना धार्मिका एतेषां महाकाव्यानामध्ययनाध्यापनाभ्यां KI विमुखीभूताः सन्ति । अतः संस्कृतज्ञत्वेऽपि तेषां व्युत्पन्नता नितरामर्धदग्धत्वेनाऽनुबोभूयते । ) किञ्च रघुवंशमहाकाव्योपरि नैकैचॅनमुनिभिष्टीकाग्रन्था विरचिताः सन्ति ये (HTS त्वद्याऽप्यप्रकाशिता एव । रसिकाभ्यासकानां कर्तव्यमिदं यत् प्रतनज्ञानमन्दिरेषु सुरक्षिता Page #19 -------------------------------------------------------------------------- ________________ A. एते ग्रन्थाः संशोध्य सम्पाद्य च विद्वत्समाजसमक्षं प्रकाशनीया येन संस्कृतसाहित्यक्षेत्रे भार जैनग्रन्थकाराणामपि स्फारं प्रदानमस्तीति विद्वांसो जानीयुः सहैव चैतत्काव्यविषयका र जैनमुनिभिः सुरक्षिताः स्वीकृताश्च शुद्धतरा: पाठा अपि सम्पद्येरन् । अथ प्रकृतं प्रस्तुमः । पूज्याचार्यश्रीविजयनेमिसूरिमहाराजैः स्वयमपि सर्वेषामप्येतेषां महाकाव्यानां मर्मग्राहि तलस्पर्शि चाऽध्ययनं कृतमासीत् सहैव च स्वीयशिष्येभ्योऽपि AIM तानि सुतरामध्यापितानि । एवं श्रूयते यत् काव्यानामेषामध्यापनकाले एकैकस्याऽपि VE श्लोकस्य बोधनार्थं तैनॆके घण्टाः कदाचित् तु बहवो दिवसा अपि व्यतीयन्ते स्म । श्लोकस्थस्य प्रत्येक शब्दस्य व्युत्पत्तिः, व्याकरणं, कोशः, सन्दर्भाः, नानाऽर्थाः, . मर्मोद्घाटनमित्यादि सर्वं कथं शोधनीयमिति बोधयित्वा पठित्रैव तत् सर्वमपि शोधयन्ति स्म । ततोऽध्येतृभिर्यदा समग्रोऽपि श्लोको दण्डशः खण्डशश्चाऽवगम्यते स्म तदा तस्यैव च्छन्दसः, अलङ्काराणां रसानां तद्भावानां च विस्तृतां विशदां च चर्चा कृत्वा तत्सर्वमपि सम्बोधयन्ति स्म । यद्यपीत्थमेकैकस्याऽपि श्लोकस्याऽवबोधने प्रभूतः कालो व्यतीयते स्म तथाऽपि तत्फलरूपेणैवंरीत्याऽधीयानास्तच्छिष्याः केवलं पञ्चषश्लोकाध्ययनमात्रैणेव सकलमपि महाकाव्यं स्वयमेव तलस्पर्शितयाऽध्येतुं प्रभवन्ति स्म । प्रस्तुतायाष्टीकाया 6 अध्ययनेन श्रुतिरियं सर्वथाऽवितथेति प्रतीयते । ननु रघुवंशमहाकाव्यस्य प्रथम सर्गं न विवृत्य द्वितीयः सर्ग एव किमिति । 9 विवरणार्थमादृतः ? इत्यस्य प्रश्नस्य पर्यनुयोगे कारणद्वयं कल्पितुं शक्यम् : १. महाकाव्यानामध्ययनकाले रघुवंशमहाकाव्यस्य पठनं द्वितीयसर्गादेवाऽऽरभ्यते न 45 तु प्रथमसर्गाद्-इति हि परम्परा संस्कृतसाहित्यविदां परिचितचरैव । तां परम्परां निर्वोढुमेव । तैर्द्वितीयसर्गस्य विवरणं कृतं स्यात् । २. काव्यविवरणादपि तेषां मुख्य आशयः काव्यमवलम्ब्य अहिंसायाः परमतत्त्वस्य निरूपणेऽस्तीति प्रतिभाति । यद्यपि काव्यस्य विशदे स्पष्टे च विवरणे ते पूर्णतया * परम्परामनुसरन्ति कुत्रचिच्च व्याख्याने मल्लिनाथादीनप्यतिशेरते, तथापि अहिंसातत्त्वस्य मर्मोद्घाटनमेव तेषां लक्ष्यमत्रेति विकल्पितुं सर्वथा सुशकमेव । यदि त्रिंशत्तमपद्यस्य टीका । तैः पूर्णाऽकरिष्यत तदनु च सिंह-दिलीपयोः संवादं, गोर्वधकरणार्थं सिंहस्य तत्परतां, 1 गोदिव्यरक्षणं तदनन्तरं च दिलीपस्य परिस्थितिं वर्णयतां पद्यानां विवरणमपि तैरकरिष्यत Page #20 -------------------------------------------------------------------------- ________________ AC तदा तेषां लक्ष्यमाशयश्चाऽहिंसाया निरूपणेऽस्तीति प्रतीतिरितोऽपि स्पष्टाऽभविष्यत् I AM are आशयमिमं साधयितुं च द्वितीयसर्ग एवोपयुक्ततरो न तु प्रथम सर्गः । अत एव च तैद्वितीयसर्ग एव विवरणार्थमादृत इति सम्भावना सुशकैव । ईदृशं महाकाव्यं व्याचिख्यासोः कीदृशी कियती च सज्जता योग्यता चाऽऽवश्यकी । ak तथा बहुश्रुतत्वं नाम किमित्यादि सर्वमेतस्याष्टीकाया अवलोकनेन विज्ञायते । प्रत्येक शब्दानां व्युत्पत्तिः, प्रयोगसाधनिका, लिङ्गनिर्णयः, शब्दकोषसमर्थनं तद्द्वारा चाऽर्थनिश्चयः, विविधमत-दर्शनानां तद्ग्रन्थसन्दर्भ-ग्रन्थकाराणां च परिज्ञानम् - इत्यादीनामनेकेषां विषयाणामवबोधष्टीकारचनायाऽऽवश्यकोऽस्ति । एतच्चैतस्या अपूर्णाया अपि विवृतेः पठनेन विज्ञायत एव । आचार्यभगवद्भिरत्र प्रत्येकं शब्दानां व्युत्पत्तिः सिद्धहेम-पाणिनीयेति-व्याकरणद्वयानुसारेण सूत्र-भाष्य-वात्तिक-धातुपाठ-उणादिसूत्रप्रमुखाणां स्पष्टनिर्देशैः प्रदर्शिताऽस्ति । - मल्लिनाथादिभिरन्यैष्टीकाकारैर्हि केषाञ्चिदेव चितशब्दानां व्युत्पत्तिर्व्याकरणादीनां स्पष्टनिर्देशै रहितैव प्रदर्शिताऽस्ति । अत्र तु प्रत्येकं शब्दानां साङ्गोपाङ्गा व्युत्पत्तिः ससन्दर्भ निर्दिष्टाऽस्त्याचार्यैः । एषैवाऽस्याष्टीकाया विलक्षणा मौलिकताऽस्ति । समासस्थलेष्वपि व्याकरणद्वयसम्मतान् सर्वानपि समासान् विग्रहांश्च प्रदर्श्य यथानुरूपमर्थस्तैः सन्दर्शितोऽस्ति । कोषसन्दर्भा अपि प्रतिपदं प्रदत्ताः सन्त्याचार्यपादैः । अभिधानचिन्तामणि(हैमकोष)-हैमशेषानेकार्थसंग्रहामरकोष-वैजयन्ती-मङ्ख-शाश्वतकोष-विश्वलोचनकोषयादवकोषे-त्यादीनां बहूनां कोषाणां निर्देशैः सह प्रत्येकं शब्दानां सर्वानर्थान् प्रदर्श्य प्रस्तुतस्थले कतमोऽर्थोऽत्रोपयुक्तस्तन्निर्धारणमपि ते समुल्लिखन्ति । प्रतिशब्दमियन्तः कोषसन्दर्भा अर्थनिर्देशाश्चाऽन्यत्र नैव दृश्यन्ते प्रायशः । ___अपि च, कोषसन्दर्भः सह गीता-सांख्यकारिका-स्मृति-सङ्गीतशास्त्रादि-विविध-NE शास्त्राणामपि सन्दर्भानुद्धृत्य तदाधारेणाऽप्यर्थवर्णनमर्थनिश्चयाश्च कृतास्तैः ।। तार्किका उन्मेषा अपि टीकायामस्यामवलोक्यन्ते । सप्तदशे श्लोके 'सः इति - १. द्वितीयश्लोकटीकायां 'धर्मपत्नी' शब्द-समासचर्चा द्रष्टव्या । २. दृश्यतां प्रथमश्लोके अथशब्दस्याऽर्थचर्चा ॥ ३. अष्टमे श्लोके सत्त्वशब्दस्य चर्चा तस्मिंश्च तकारद्वयं कदा प्रयुज्यते इति चर्चा चाऽपि द्रष्टव्या । । Page #21 -------------------------------------------------------------------------- ________________ , प्रथमपदेन कः परामृश्यन्ते-इति निर्णेतुमाचार्यैस्तत्राऽऽरम्भ एव मार्मिकी तर्कचर्चा विधाय AR सः इतिपदेन दिलीपस्य परामर्शः कर्तव्य इति साधितम् । एवं द्वादशे श्लोके कीचकपदं विवृण्वद्भिरेकोनत्रिंशत्तमे च पद्ये गोशब्दस्य प्रवृत्तिनिमित्तं चर्चयद्भिस्तैः संक्षिप्ताऽपि १. रसप्रदा तार्किकी चर्चा विहिताऽस्ति । . तथैवैकोनत्रिंशत्तमे श्लोके धातुमधिकृत्य ससन्दर्भ चर्चा कुर्वद्भिस्तैर्धातुविशेषगोचरा EVM आधुनिकविज्ञानप्रसिद्धा नियमा अपि प्रदर्शिताः सन्ति । एतत्तु तेषां समकालीन। ज्ञानप्रवाहविषयिणीं व्यापकावगाहनशक्तिं सर्वतोग्राहिणी मतिमत्तां च सूचयति । विवक्षितग्रन्थं विवरीषवोऽवश्यं तद्ग्रन्थस्य पूर्वतनविवरणकृतां व्याख्या आलम्बन्ते प्रायशः । इहाऽपि सूरीश्वरैः मल्लिनाथसदृशां विद्वत्सम्मतानां विश्रुतानां च पूर्वसूरीणां विवरणानि सुतरामवलम्ब्य स्वीयव्याख्या विरचिता स्यादेव । तथाऽपि कुत्रचित् ते मल्लिनाथस्याऽपि शब्दानां रुचिरं रहस्योद्घाटनमपि कृत्वा स्वप्रतिभाचमत्कारान् दर्शयन्ति । यथैकोनविंशे श्लोके उपोषिताभ्यामिति पदं 'दृष्टरुपवासं' सूचयति, तत्राऽऽचार्यैरुपमया (NT मल्लिनाथस्य वाक्यमेकमुद्धृतमस्ति- "यथा उपोषितोऽतितृष्णया जलमधिकं पिबति ।" तस्य मर्मोद्घाटनमाचायैरेवं कृतमस्ति - "अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथ: C चतुर्विधाहारत्यागरूप एव वास्तव उपवासो न तु फलाहाररूप - इति ज्ञापयति ।" तथैवोपवासविषयिकी समग्रा चर्चाऽपि तार्किकी मर्मग्राहिणी चाऽस्ति । एवं त्रयोविंशे श्लोके निपीड्यपदस्याऽर्थः संवाह्य इति अकृत्वा 'अभिवन्द्य' इति मल्लिनाथेन कृतोऽस्ति - इति सूक्ष्ममर्म गृहीत्वाऽऽचार्या उल्लिखन्ति यत् - "अत्र स्त्रीपादसंवाहनमयुक्तं ANTA पुरुषस्येत्यभिसन्धाय अभिवन्द्येति (विवृतवान्) मल्लिनाथ इत्यनुमीयते ।" अस्याष्टीकाया समवलोकनेन एतद्विवृत्तिकृतां जैनत्वं सुतरां ज्ञायते, तथा तेषां ली मुख्य आशयोऽत्र रघुवंशसदृशमहाकाव्यस्याऽऽलम्बनेन अहिंसादिपदार्थानां जैनतत्त्वदृष्ट्या प्रतिपादनेऽस्तीत्यपि स्पष्टतयाऽवगम्यते । निजाशये तैः कियत् साफल्यं प्राप्तं तत् पश्यामः । षोडशे श्लोके अतिथिः क्रिया चेति पदद्वयस्याऽर्थं व्युत्पत्तिं च कोष-व्याकरणादीननुसृत्य 6 कुर्वाणास्ते जैनपरिभाषयाऽपि अतिथिपदं कस्मिन्नर्थे प्रयुज्यते ? तथा देवतातिथि पित्रादीनधिकृत्य कतमा क्रिया क्रियते ? इत्यादि प्रतिपादनं कृत्वा 'संसारत्यागी मुनिरेव 1 अतिथिः स्तवन-भक्ति-सत्कारादयश्च क्रिया' इति निरूपयन्ति । तस्यैव श्लोकस्य । Page #22 -------------------------------------------------------------------------- ________________ श्रद्धेव साक्षाद् विधिनोपपन्ना इति चतुर्थं चरणं ते ज्ञानक्रियाभ्यां मोक्षः इति AM का जैनसम्मतसूत्रेण सह सुयोग्यतया संवादयन्ति । ततः प्रासङ्गिकी तर्कपूर्णां चर्चा कृत्वा र SM जैनशास्त्रेषु यत्र ज्ञान-क्रिययोः खण्डनं दृश्यते तत् परस्परं निरपेक्षे ज्ञान-क्रिये आश्रित्य । । कृतमतस्तत् 'अर्थवाद'मात्रमिति रुचिरं तर्कसङ्गतं च समाधानमपि ते कुर्वन्ति । द्वाविंशे श्लोके भक्तिपदस्य व्याख्यां कुर्वन्तस्ते नैकसंस्कृत-प्राकृतजैनग्रन्थानांसन्दर्भपूर्वकं जैनसम्मतं भक्तिपदार्थं निरूपयन्ति । ततो भक्तेः प्रकारान् प्रदर्श्य दिगम्बरैः । सह भिन्नमतत्वादेश्चर्चार्थं सम्मतितर्कस्याऽतिदेशं कुर्वन्ति । तत्रैव प्रसङ्गेन सम्यग्दृष्टिभिः । 7 परिगृहीतानि मिथ्यादृष्टीनां शास्त्राणि सम्यग्ज्ञानत्वेन परिणमन्ति इति प्रतिपाद्य तत्समर्थनार्थं ) भगवद्गीतावचनं निर्दिश्य योगवासिष्ठगतां श्रीरामस्योक्तिमपि ते निर्दिशन्ति । ततश्च गीतायाः सन्दर्भान् मल्लिनाथकृतां व्याख्यां चाऽपि निर्दिशन्ति आचार्याः । यद्यपि भक्तिविषयकोऽयं . प्रपञ्चः सुरम्यस्तथाऽपि वाचकानामप्रासङ्गिकः स्यादिति सम्भाव्येत खलु । त्रयोविंशे श्लोके गुरुशब्दस्य विवृतौ ते स्मृति-पुराणादीनां सन्दर्भपूर्वकं तं व्याख्याय HD जैनमतेऽपि हरिभद्रसूरि-हेमचन्द्राचार्यादिनैकजैनग्रन्थकाराणां ग्रन्थसन्दर्भान् निर्दिश्य गुरुa) पदं व्याख्यानयन्ति । तत्रैव प्रसङ्गे मध्यकालीनगूर्जरकवेः अखा इत्यस्य काव्यमपि निर्दिष्टम् । । एवं व्रतस्वरूपं, "गङ्गाप्रपातकुण्डवर्णनं, षोडशविद्यादेवीनामानि", "मनःस्वरूपं, । सेतरमतमीमांसं “शब्दस्वरूपं, 'साधुवर्णनं, १०अष्टधायोगदृष्टीनां वर्णनमित्यादयो बहवः क्षा पदार्थास्तैजैनदर्शनानुसारमालिखिताश्चर्चिताश्च । एतत् सर्वं पठितृणां जैनदृष्ट्या तत्त्वावबोधार्थं Cre SNA भृशमुपयोगि । M अथैकोनत्रिंशे श्लोके गवां विविधप्रकारा नामानि तद्व्याख्याश्चाऽपूर्वतया वर्णितास्तथैव । NK गोशब्दस्याऽपि नैकेऽर्थाः सोदाहरणा निर्दिष्टा आचार्यैः । एवं धातूनामपि बढ्यो जातयः EVM सव्याख्यास्तत्र निर्दिष्टाः सन्ति । . त्रिंशत्तमे श्लोके हिंसाहिंसयोः स्वरूपं वर्णितम् । तत्राऽऽचार्या-जैनमते तयोर्यादृशं AIN ४. दृश्यतां २५तमश्लोकटीका । ५. २६तमश्लोकटीकायाम् । ६. तत्रैव । ७. २७तमश्लोकटीकायाम्। ८. २८तमश्लोकटीकायाम् । ९. तत्रैव । (अत्रैव सन्दर्भे पण्डितराजजगन्नाथस्याऽपि श्लोकद्वयं निर्दिष्टम् ।) १०. तत्रैव । Page #23 -------------------------------------------------------------------------- ________________ Aसूक्ष्म स्वरूपं वणितं तादृशमन्यत्र नैव प्राप्यते-इति प्रतिपाद्य बौद्धदर्शन-मनुस्मृत्यादीनां AR सन्दर्भान् पदार्थप्ररूपणानि च निर्दिशन्ति, तथा हिंसायां धर्मत्वं प्रतिपादयतोः श्रुतिस्मृत्योरप्रमाणत्वं साधयन्ति । ततो महाभारत-भागवत-शिवपुराणादीनामुक्तीनिर्दिश्य अहिंसैव । धर्मः सैव चाऽऽचरणीयेति दृढतया प्रतिष्ठाप्य हिंसाया निरासं कुर्वन्ति । ततश्चाऽस्मिन् विषये स्वीयव्यापकबोधस्य प्रमाणं प्रदर्शयन्त इव ते जरथोस्तपारसीधर्मग्रन्थानामहिंसाप्रतिपादकानि वचनानि तदर्थघटनां च निर्दिशन्ति, तथैव लोटीयावोरा-महम्मदीय(इस्ला)प्रभृतिधर्माणां ग्रन्थेभ्यः (कुरानादिभ्यः) वचनानि निर्दिश्य तद्भावार्थं बोधयन्ति । प्रान्ते च ख्रिस्तधर्मग्रन्थ(बाइबल)प्रमुखाणां सन्दर्भानुल्लिख्य तदर्थवर्णनपूर्वकं - हिंसा सर्वथा त्याज्यैव, मूलधर्मस्तु अहिंसैव, स एव च सर्वथाऽऽदरणीय आचरणीयश्चेति प्रमाणीकुर्वन्ति । ___ अत्रैव टीकैषा पर्यवस्यति । यद्याचार्यैरेषा पूर्णाऽकरिष्यत तदा बहवः पदार्था - SN प्राप्स्यन्त । तथाऽपि यावत्यपि विरचिता तावत्यपि अपर्याप्ता तु नास्त्येव । प्रान्ते, विद्वज्जनानां विद्यारसिकानां जिज्ञासाया रसस्य च पोषकं तत्त्वं प्रचुरतयाऽत्र A र विवृतौ लभ्यते । अतस्ते एतद्विषयमधिकृत्याऽभ्यासलेखान् लिखन्त्विति विज्ञप्तिः । Readhes १२ Page #24 -------------------------------------------------------------------------- ________________ आचार्यश्रीविजयनेमिसूरिविरचिता रघुवंशद्वितीयसर्गटीका ॥ ___ सं. मुनिधर्मकीर्तिविजयः ना अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥१॥ अथेति । अथ - कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरम् । कुलपतिस्वरूपं चेदं पुराणे ___ "मुनीनां दशसाहस्यमन्नदानादिपोषतः(षणात्) । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥१॥" प्रकर्षेण भातीति प्रभातं, यदि वा भातुं प्रवृत्तं प्रभातम् । 'भांक्-दीप्तौ' इति धातोः - 'आरम्भे' (सि. ५।१।१०।।) इति 'क्त' प्रत्यये सिद्धम् । 'पाणिनि'मते तु 'भा-दीप्तौ' धातोः 'आदिकर्मणि (१) कर्तरि च' (३।४।७१।।) इति सूत्रेण 'क्त' प्रत्यये प्रभातम् । * "प्रभातं स्यादहर्मुखम्, व्युष्टं विभातं प्रत्यूषं कल्यप्रत्यू(त्यु)षसी उषः, काल्यम् ॥ इति र र हैम: । तस्मिन् प्रभाते-प्रात:काले । यश एव धनं यस्य स यशोधनः । प्रकर्षेण जायन्त र * इति, प्रजाता इति वा प्रजाः । प्रपूर्वात् 'जनैचि-प्रादुर्भावे' इति धातोः 'क्वचित्' (५।१।१७१।।) ' इति 'हैम'सूत्रेण 'ड' प्रत्यये 'डित्यन्त्यस्वरादेः' (२।१।११४।।) इति 'हैम'सूत्रेणा ऽन्त्यस्वरादिलोपे 'आत्' सि० (२।४|१८||) इति सूत्रेण । 'ड' प्रत्यये 'टेः' (पा० ME ६४।१४३) इति सूत्रेण टिलोपे। 'अजाद्यतष्टाप्' (पा० ४।१।४॥) इति सूत्रेण टापि प्रजाः ।। ( "लोको जनः प्रजा" इति हैम: । "प्रजा स्यात्सन्ततौ जने" (इत्यमरः) । तासां । प्रजानाम् । अधि पाति, अधि समन्तात् पातीत्यधिपः प्रजेश्वरः । अधिपूर्वात् 'पा(पां)क्१. अभिधानचिन्तामणिकोशे द्वितीयकाण्डे-१३८-१३९ । २. अभिधानचिन्तामणिकोशे तृतीयकाण्डे-५०१ । | ३. अमरकोशे तृतीयकाण्डे नानार्थवर्ग-३८ । MASYA १३ Page #25 -------------------------------------------------------------------------- ________________ - रक्षणे' इति धातोः 'उपसर्गादातो डोऽश्यः' [सि०] (५।१।५६।।) इति सूत्रेण 'ड' प्रत्यये । - "डित्यन्त्यस्वरादेः' [सि०] (२।१।११४॥) इत्यन्त्यस्वरादिलोपे अधिपः । पाणिनिमते तु 'पा-रक्षणे' धातोः 'आतश्चोपसर्गे' (३।१।१३६॥) इति सूत्रेण 'क' प्रत्यये 'आतो लोप इटिका च' (६।४।६[४]।) इति सूत्रेणाऽऽकारलोपेऽधिपः । अधिप ईश्वरः । “अधिपस्त्वीशो, न HP नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः, प्रभुभर्तेश्वरो विभुः, ईशितेनो नायकश्च" इति र हैम: । जायतेऽस्यां वेति जाया । प्रतिग्राह्येते स्मेति प्रतिग्राहिते । माला एव माल्यम्, सो अथवा मालायै हितं माल्यम् । गन्धश्च माल्यं च गन्धमाल्ये । जायया-सुदक्षिणया । प्रतिग्राहिते-स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या, तां जायाप्रतिग्राहितगन्धमाल्याम् । तथोक्ताम् ।। 'सिद्ध द्ध)हेम'मते 'गत्यर्थाऽकर्मक-पिबभुजेः (५।१।११॥) इति सूत्रेण सूत्रोक्तधात्वतिरिक्तधातुभ्यः कर्तरि क्तप्रत्ययस्य विधानाभावात् न तु कर्तरि क्तः । अत एवम भाष्यकारः "पीता गावो भुक्ता ब्राह्मणा इत्यादावकारो मत्वर्थीयः" इत्युक्तवान् । भावे - र 'क्त' प्रत्यये पीतं पानं तदस्याऽस्तीति पीतः पीतवानित्यर्थः । 'अभ्रादिभ्यः' (७२।४६) इति श्री सिव्हेश०' सूत्रेण 'अ' प्रत्ययः । 'अर्शादि (आदि)भ्योऽच्' (५।३।१२७॥) म इति 'पा०' सूत्रेण 'अच्' प्रत्ययः । अथवा विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य व इति 'वार्तिककार मते उत्तरपदस्य पयसो लोपोऽत्र द्रष्टव्यः । अत्र संज्ञायामेव पूर्वोत्तरपदयोर्लोपक इति वार्तिककाराशयः । तत्संवादिसंज्ञायामेव पूर्वोत्तरपदलोपविधायि सिद्धहेमशब्दानुशासनस्थं 'ते लुग्वा' (३।२।१०८||) इति सूत्रम् । इममेवाऽऽशयं बुद्ध्वा कैयटो लोपशब्दार्थमाह 'गम्यार्थप्रयोग एव लोपोऽभिमतः ।' पयसो यत्पीतत्वं तद् गोष्वारोप्यते । एतन्मते पीतं भी पयो येन स पीतः । प्रतिबद्धयते स्मेति प्रतिबद्धः । पीतश्चासौ प्रतिबद्धश्च पीतप्रतिबद्धः, को र अर्थात् पूर्वं पीतः पश्चात् प्रतिबद्धः पीतप्रतिबद्धः । पीतप्रतिबद्धो वत्सो यस्याः सा न पीतप्रतिबद्धवत्सा, तां पीतप्रतिबद्धवत्साम् । 'सिद्धहेश 'मते 'ऋषैत्-गतो, 'पाणिनीय'मते च 'ऋषी गता'विति धातोः । ऋषतीति ऋषिः । ऋषिः ‘मन्त्रद्रष्टरि मुनौ वेदे अनुष्ठेयज्ञापकसूत्रकृदाचार्ये गोत्रप्रवरप्रवर्तके १. अभि० चि० तृ० ३५८-३५९ । M १४ Page #26 -------------------------------------------------------------------------- ________________ र मुनौ च' वर्तते । तस्य ऋषेः । श्रीसि०हे० ' मते 'ट्धे-पाने' 'पाणि०' मते च 'धेट पाने' इति धातोः धयति तामिति धेनुः । यद्वाऽन्तर्भावितण्यर्थत्वे धयति सुतानिति धेनुरित्यपि व संभवति । धेनुः नवप्रसूतायां गवि । तां धेनुम् । वनाय गन्तुं 'गम्यस्याऽऽप्ये' (२।२।६२॥) और मी इति 'श्रीसि०हे० ' सूत्रेण 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' [२।३।१४।।] इति च । * 'पाणि 'सूत्रेण चतुर्थी । मुमोच-मुक्तवान् । अत्र जायापदसामर्थ्यात्सुदक्षिणायाः P पुत्रजननयोग्यत्वमनुसन्धेयम् । तथा हि "पतिर्जायां प्रविशति, गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा, दशमे मासि जायते ।। तज्जाया जाया भवति, यदस्यां जायते पुनः ॥" इति । यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद् राजानहें गोरक्षणे प्रवृत्त इति गम्यते । अस्मिन् सर्गे वृत्तमुपजातिः । “अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" , इति तल्लक्षणम् । वाच्यपरिवर्तनं त्वेवम्___ अथ प्रभाते यशोधनेन प्रजानामधिपेन जायाप्रतिग्राहितगन्धमाल्या पीतप्रतिबद्धवत्सा ऋषेर्धेनुर्वनाय मुमुचे । प्रभातसमये नृपमहिषी सुदक्षिणा मालाचन्दनादिभिर्नन्दिनीं सम्यक्तयाऽर्चयामास । वत्सं च प्रथमं स्तन्यं पाययित्वा पश्चाद् बबन्ध । ततो यशःपरायणः स दिलीपो वने र * स्वच्छन्दगमनाय तां नन्दिनीं मुक्तवान्, इति सरलार्थः । अथ सर्गारम्भेऽथशब्दप्रयोगपूर्वकसर्गप्रारम्भयित्रा ग्रन्थकारेण 'ओंकाराथकारौ' इत्यादिशुक्लयजुर्वेदप्रातिशाख्यीयकाः(क)१७सूत्रस्य 'भाष्यकारोवट्टाचार्येणाऽर्थोऽकारि यत्, मङ्गलार्थावेतावित्यर्थकरणादपि सर्गप्रारम्भे अथशब्देन मङ्गलपूर्विका गौरव , द्वितीयसर्गस्य प्रवृत्तिरिति दर्शितम् । “मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथोऽथ" इति (अमरः) कोशवाक्यादनन्तरार्थोऽप्यथशब्दः तेन निशानयनानन्तरमित्यप्यावेदितम् । एवमेवा"ऽथाऽतो ब्रह्मजिज्ञासा" इत्युत्तरमीमांसाग्रन्थेऽनन्तरार्थोऽथशब्दः । आरम्भार्थस्तु "अथ योगानुशासनम्" । इत्यत्र पातञ्जलयोगदर्शनशास्त्रे । प्रश्नार्थ-कात्ार्थयोस्तु प्रसिद्ध एव । अत्र तु । १. अम० तृ० नानार्थवर्ग-२५५ । Page #27 -------------------------------------------------------------------------- ________________ | | मङ्गलार्थोऽनन्तरार्थो वा, यदा तु मङ्गलार्थस्तदा मङ्गलपूविका द्वितीयसर्गप्रवृत्तिरित्यावेद्यते यदा त्वनन्तरार्थस्तदा कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरमित्यावेदितम् ।। केचिदारम्भार्थं न मन्यन्ते । कुत्रचिदधिकारार्थोऽपि । योगशास्त्रभाष्यकारेण और , 'अथेत्ययमधिकारार्थ' इति भाष्यव्याख्यानादधिकारार्थोऽपि ॥१॥ तस्याः खुरन्यासपवित्रपांसु-मपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवाऽर्थं स्मृतिरन्वगच्छत् ॥२॥ तस्या इति । पांसवो दोषा पापानि वा सन्त्यासामिति पांसुला:-स्वैरिण्यः । 'स्वैरिणी पांसुला' इत्यमरः । 'सिध्मादिक्षुद्रजन्तुरुग्भ्यः ' (७।२।२१।।) इति 'श्रीसि०' को सूत्रेण 'सिध्मादिभ्यश्च' (५।२।९७॥) इति 'पाणि०' सूत्रेण च पांसुशब्दात् लच्प्रत्ययः । न पांसुलाः अपांसुलाः । तासामपांसुलानां-पतिव्रतानाम् । धुर्यग्रे । कीर्तयितुं योग्या - कीर्तनीया-परिगणनीया ।। ईष्टे ईशितुं शीलमस्य वेति ईश्वरः । मनुष्याणामीश्वरः मनुष्येश्वरः । 'हितादिभिः' (३।१७१॥) इति 'श्री सि०' सूत्रेण हितादेराकृतिगणत्वात्तादर्थ्यचतुर्थ्यन्तस्याऽपि समासभवनात् धर्माय धर्मार्थं वा पत्नी धर्मपत्नी । एवमश्वघासादौ सर्वत्र । 'यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास' इति 'पाणिनीय'मते तु अश्वघासादिवत् धर्मपत्नीत्यत्राऽपि तादर्थ्य षष्ठीसमासः प्रकृतिविकारभावाभावात् । तन्मते धर्मस्य पत्नी धर्मपत्नी । यथा- "पतिं धर्मरतं पत्नी साध्वी शुश्रु(श्रू)षते तु या । नित्यं त्वनन्यहृदया धर्मपत्नी तु तां विदुः ॥१॥" मनुष्येश्वरस्य धर्मपत्नी मनुष्येश्वरधर्मपत्नी । न्यसनानि न्यासाः । पूयते एभिरिति पवित्राः । खुराणां न्यासाः खुरन्यासाः । खुरन्यासैः पवित्राः पांसवो यस्य स खुरन्यासपवित्रपांसुः, तं खुरन्यासपवित्रपांसुम्शफनिक्षेपपूतरेणुम् । “शर्फ क्लीबे खुरः पुमान्" इत्यमरः । “रेणुर्द्वयोः स्त्रियो(यां) धूलिः पांसु(शु)र्ना न द्वयो रजः" इत्यमरः । तस्याः धेनोः । मार्ग्यतेऽन्विष्यतेऽनेनेति मार्गः । तं मार्गम् । १. अम० द्वि० मनुष्यवर्गे - ११ । २. अम० द्वि० क्षत्रियवर्गे -४९ । ३. अम० द्वि० क्षत्रियवर्गे -९८ । HTTE Page #28 -------------------------------------------------------------------------- ________________ स्मर्यते धर्मोऽनयेति स्मृतिः, मन्वादिवाक्यम् । श्रूयते धर्मोऽनयेति श्रुतिः, तस्याः श्रुतेः वेदवाक्यस्य । अर्यते इति अर्थः, तं अर्थमभिधेयम् । इव अन्वगच्छत्-अनुसृतवतीव। यथा स्मृतिः श्रुतिक्षुण्णमेवाऽर्थमनुसरति तथा साऽपि गोक्षुरक्षुण्णमेव मार्गमनुससारेत्यर्थः । मन म पांसुलपथप्रवृत्तावपि अपांसुलानामिति 'विरोधालङ्कारो' ध्वन्यते । तल्लक्षणं चेदं कुवलयानन्दे 'आभासत्वे विरोधस्य विरोधाभास इष्यते ।' वाच्यपरिवर्तनं त्वेवम् - अपांसुलानां धुरि कीर्तनीयया मनुष्येश्वरधर्मपल्या पर र खुरन्यासपवित्रपांसुः तस्याः मार्गः श्रुतेः अर्थः स्मृत्या इवाऽन्वगम्यत । पावनैः खुरक्षेपैः नन्दिनी मार्गरजो निर्मलीकुर्वाणा जगाम । यथा हि स्मृतिः वेदार्थमेव सर्वदाऽनुगच्छति तथा पतिव्रताऽग्रगण्या दिलीपपत्नी सुदक्षिणा तं नन्दिनीमार्गमनुससार, इति सरलार्थः ।।२।। निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्मी(वी )म् ॥३॥ निवर्येति । दयते इत्येवं शीलः दयते इत्येवं धर्मा(र्मो) वा, यद्वा साधु दयते इति । * 'शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः' (५।२।३७।) इति श्री सि०' सूत्रेण 'दयि-दानगतिहिंसादहनेषु च' इति धातोः आलुच् । लज्जालुईर्ष्यालुशलालुप्रभृतय स्त्वौणादिकाः । कृपालुहृदयालू मत्वर्थीयान्ताविति पूज्याः । दयालुः-कारुणिकः । * "स्याद्दयालुः कारुणिकः कृपालुः" इत्यमरः । यशोभिः-कीर्तिभिः । "यशः कीर्तिः । समज्ञा चे"त्यमरः । सुरभिर्मनोज्ञः । 'सुरभिः स्यान्मनोज्ञेऽपी'ति विश्वः । राजते-दानदाक्षिण्यशौर्यमाधुर्यप्रजापालनादिगुणैः शोभतेऽसाविति राजा । ताम् । दय्यते रक्ष्यते स्मेति दयिता, तां दयितां प्रियाम् । “दयितं वल्लभं प्रियम्" इत्यमरः । अत्र रक्षणकर्माश्रयवाचकसे दयिताशब्दप्रयोगेणैवं द्योतयति यदुत 'न स्त्री स्वातन्त्र्यमर्हति' । तथा चाऽऽह मनुः - पिता रक्षति कौमरे भर्ता रक्षति यौवने । ___रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥१॥ १. अम० तृ. विशेष्यनिघ्नवर्गे -१३ । २. अम० प्र० शब्दादिवर्गे -११ । ३. अम० तृ० विशेष्यनिघ्नवर्गे -५१ । १७ Page #29 -------------------------------------------------------------------------- ________________ अत्र विषये जैनशास्त्रेऽपि तथैव व्यवस्था । निवर्त्य । सुरभेर्गोत्रापत्यं स्त्री सौरभेयी, तां सौरभेयीं- कामधेनुसुतां नन्दिनीम् । 'आयुधादिभ्यो धृगोऽदण्डादेः' (५|१|१४|| ) इति 'श्री सि०हे० श० 'सूत्रे आदिशब्देन ' . पयसोऽपि ग्रहणात् । पयांसि धरन्तीति पयोधराः । जलधर - विषधर - शशधर-विद्याधर श्रीधर-गङ्गाधर- जटाधरप्रभृतिष्वप्येवमेव । 'पाणिनीय' मते तु 'कर्मणोऽण् (कर्मण्यण्)' (३||१||) इति सूत्रस्य बाधकत्वात् तथा न । तन्मते तु धरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । " स्त्रीस्तनाब्दौ पयोधरौ" इत्यमरः । न पयोधरा अपयोधराः । 'श्रीसि० हे० श० 'मते अपयोधराः पयोधराः भूता: ( भवन्ति स्म ) पयोधरीभूताः 'पाणिनीय' - मते तु अपयोधराः पयोधराः यथा सम्पद्यमाना (भूताः) पयोधरीभूताः 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्वि:' ( ७ २ १२६ | | ) इति श्रीसि० हे० श० ' सूत्रेण 'च्वि:' । 'कृभ्वस्तियोगे संपद्यकर्तरि च्विः' (पा० ५|४|५०|) । 'च्विविधावभूततद्भावग्रहणं' • इति वार्त्तिकोक्तेऽर्थे च्विः । ' श्री सि०हे० श० 'मते 'अप्रयोगीत्' (१|१|३७||) इति सूत्रेण, च्वेर्लुक् । 'पाणिनीय' मते तु 'चुटु ( टू ) ' (१|३|७|| ) इति विप्रत्ययगतचकारस्येत्संज्ञा । - वेरिकारस्य च इत्संज्ञायां 'वेरपृक्तस्य' (६ | १|६७ ||) इति सूत्रेण वकारस्य च लोपः 'प्रत्ययलोपे प्रत्ययलक्षणम्' (पा० १ २२६२ || ) इत्यनेन च्व्यन्तत्वं कल्पनीयम् । ततश्च ''ईश्च्वाववर्णस्याऽनव्ययस्य' ( ४ | ३ | १२७ (१११ ) | ) इति 'श्री सि० हे० श० 'सूत्रेण 'अस्य' . च्चै (च्वौ)' (७|४|३२||) इति पा० ' सूत्रेण च पयोधरघटकाकारस्य ई: । 'ऊर्याद्यनुकरणच्विडाचश्च गतिः' (३|१|२||) इति 'श्रीसि० हे० श० ' सूत्रेण 'ऊर्यादिच्विडाचश्च' (१|४|६१ || ) इति 'पा०' सूत्रेण च च्व्यन्तस्य गतिसंज्ञा । ततश्च 'गतिक्वन्यस्तत्पुरुषः' (३|१|४२ ॥ ) इति 'श्रीसि० हे०श०' सूत्रेण 'कुगतिप्रादयः' (२|२|१८|| ) इति पा० ' सूत्रेण च समासः । समीचीना उद्रा-जलजन्तुविशेषादयो यत्र, सह मुद्रया वेलया वर्तते इति वा समुद्रः । . पयोधरीभूताश्चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूतचतुःसमुद्राम् ऊधीभूतचतुः सागराम् । 'एकार्थं चानेकं च' (३|१|२२|| ) इति 'श्रीसि० हे० श० 'सूत्रेण त्रिपदो बहुव्रीहिः । 'अनेकमन्यपदार्थे' (२२|२४|| ) इति पा० 'सूत्रेणा - ऽनेकपदग्रहणसामर्थ्यात् त्रिपदो बहुव्रीहिः । १. अम० तृ० नानार्थवर्गे - १७१ । १८ Page #30 -------------------------------------------------------------------------- ________________ गोः रूपं गोरूपम् । 'श्री सि०हे० शब्द० मते गोरूपं धरतीति गोरूपधरा । 'पाणिनीय' मते तु धरतीति धरा, गोरूपस्य धरा गोरूपधरा, तां गोरूपधराम् । ऊर्वी वसुन्धराम् । “वसुधरो (सुधो) र्वी वसुन्धरा" इर्त्यमरः । इव । जुगोप- ररक्ष । भूरक्षणप्रयत्नेनेव रक्षेति भावः । 1 धेनुपक्षे न अधरा अनधरा, अनधरा अधरा भूताः अधरीभूता इति 'श्री'सि० हे० श०'- मतेन । 'पाणिनीय' मतेन तु अनधरा अधराः सम्पद्यमाना अधरीभूताः । पयसाऽधरीभूताः चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूतचतुः समुद्राम् । दुग्धतिरस्कृतसागरामित्यर्थः ॥ वाच्यपरिवर्तनं त्वेवम्- निवर्त्य राज्ञा दयिता दयालुना सा सौरभेयी सुरभिणा यशोभिः पयोधरीभूतचतुःसमुद्रा जुगुपे गोरूपधरेवोर्वी ॥ परमदयालू राजा प्रियतमां सुदक्षिणां सुदूरगमनान्निवर्तयामास, स्वयं च तां नन्दिनीं सर्वभावेन गोप्तुमारेभे । मन्ये नन्दिनीरूपेण प्राप्तां चतुर्भिः स्तनैरिव चतुर्भिर्जलधिभिर्युक्तां साक्षादूर्वी पृथ्वीमिव स जुगोप, इति सरलार्थः ॥३॥ व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । न चाऽन्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ||४|| व्रतायेति । व्रताय न तु जीवनायेति भावः । धयति तामिति धेनुः । अन्तर्भावितण्यर्थत्वे धयति सुतानिति वा धेनुः । तस्याः धेनोः । अनु पश्चाच्चरतीत्य- नुचरस्तेनाऽनुचरेण । तेन दिलीपेन । शिष्यते इति शेष - अवशिष्ट: । 'शेषः अवशेषे अनन्तेसर्पराजे सर्पभेदे बलदेवे गजे विष्णुमूर्तिभेदे गुणीभूते च' । शिष्धातोर्घञि शेषः । अत्र त्ववशेषार्थे । अनुयान्तीत्येवं शीला अनुयायिनः तेषामनुयायिनां वर्गः अनुयायिवर्गः: • अनुचरवर्गः । न्यषेधि-निवर्तितः । शेषत्वं सुदक्षिणापेक्षया । कथं तर्ह्यत्मरक्षणं तस्याऽत आह, न चेति । तस्य दिलीपस्य । शृणाति शीर्यते वा तच्छरीरं देहः । " गात्रं वपुः संहननं, शरीरं वर्ष्मविग्रहः । कायो देहः" इत्यमरः । रक्षणं रक्षा । शरीरस्य रक्षा शरीररक्षा-देहरक्षणम् । च । अन्यस्मादिति अन्यतः - पुरुषान्तरात् । १. अम० द्वि० भूमिवर्गे - २ । १. अम० द्वि० मनुष्यवर्गे - ७१-७२ । १९ Page #31 -------------------------------------------------------------------------- ________________ . न । कुत: ? हि यस्मात्कारणात् । मनोः । प्रसूयत इति प्रसूतिः - सन्ततिः । स्वस्य वीर्यं स्ववीर्यम् । गुप्यते स्मेति गुप्ता । स्ववीर्येण गुप्ता स्ववीर्यगुप्ता, स्ववीर्येणैव रक्षिता । न हि स्वनिर्वाहस्य परापेक्षेति भावः । वाच्यपरिवर्तनं त्वेवम्-व्रताय धेनोरनुचरः स शेषमप्यनुयायिवर्गं न्यषेधीत् । तस्य, शरीररक्षया(रक्षा) चाऽन्यतो न क्षूयते । हि मनोः प्रसूत्या स्ववीर्ये (र्य) गुप्तया भूयते ॥ व्रतपालनार्थमेवाऽरण्ये गामनुगच्छन्नृपतिः प्राग्महिषीं निवर्तयामास । पश्चादन्यानपि .सेवकाननुचलनान्निवारितवान् । एकाकिनोऽपि तस्य दिलीपस्य निजरक्षणविधौ का प चिन्ता न बभूव । यतो मनोः कुलधराः नृपाः स्वबाहुबलेनैव सर्वत्र निजरक्षां कुर्वन्ति इति - सरलार्थः ॥४॥ आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥५॥ आस्वादवद्भिरिति । सम्यग् राजतेऽसौ सम्राट् - मण्डलेश्वरः । “येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्" इत्यमरः । स राजा । आस्वादनमास्वादः । आस्वादो विद्यते एषां आस्वादवन्तः, तैः आस्वादवद्भिः-रसवद्भिः • स्वादयुक्तैरित्यर्थः । तृणानां घासानाम् । “शष्पं बालतृणं घासः" इत्यमरः । केन मुखेन वलन्त इति कवलाः । 'कै (कै) शब्दे, कच् - दीप्तौ' वा, 'डे' कः । 'को ब्रह्मणि, वायौ, आत्मनि, यमे, दक्षप्रजापतौ, सूर्ये, अग्नौ, विष्णौ, काले, कामग्रन्थौ, राजनि, मयूरे, देहे, • मनसि, धने, प्रकाशे, शब्दे च पुं० । मुखे, शिरसि, जले, रोगे च नपुं०' । तैः कवलैःग्रासैः। “ग्रासस्तु कवलः पुमान्" इत्यमरः । कण्डूयनानीति कण्डूयनानि । तैः कण्डूयनैः । - दशन्तीति दंशाः । दंशानां - वनमक्षिकाणां निवारणानि दंशनिवारणानि, तैः दंशनिवारणैः । "दंशस्तु वनमक्षिका” इत्यमरः । विशेषेण आ समन्तात् हन्यन्ते स्मेति व्याहतानि । न व्याहतानि अव्याहतानि तैः अव्याहतैः, अप्रतिहतैः । स्वैरं गमनानि स्वैरगतानि । अथवा . ईरणं ईर:, स्वस्य ईरः येषु तानि स्वैराणि । अथवा स्वेन स्वातन्त्र्येण ईरते इति वा, १. अम० द्वि० क्षत्रियवर्गे ३. अम० द्वि० वैश्यवर्गे - ३ । ५५ । २. अम० द्वि० वनौषधिवर्गे - १६७ । ४. अम० द्वि० सिंहादिवर्गे २९ । २० - Page #32 -------------------------------------------------------------------------- ________________ SAN स्वैराणि। स्वैराणि च तानि गतानि च स्वैरगतानि, तैः स्वैरगतैः-स्वच्छन्दगमनैश्च । तस्याः धेन्वाः । सम्यग् आराधनं समाराधनम् । तदेव परं-प्रधानं यस्य स तत्परः । समाराधने तत्परः समाराधन-तत्परः । शुश्रूषासक्तोऽभूत् । समाराधनतत्परस्य विधेय-और विशेषणत्वात् विशेष्यात्परप्रयोगः । 'उद्देश्यवचनं पूर्वं विधेयवचनं पर' मिति न्यायात् । HE "तत्परे प्रसितासक्तौ" इत्यमरः । ____ वाच्यपरिवर्तनं त्वेवम्-तेन सम्राजा आस्वादवद्भिस्तृणानां कवलैः कण्डूयनैशनि-और से वारणैरव्याहतैः स्वैरगतैश्च तस्याः (नन्दिन्याः) समाराधनतत्परेणाऽऽभावि । * तस्याः ओ(भो)जनार्थं सुघासमुष्टिं प्रयच्छन् गात्रखर्जनमपनयन् दुःखकरान् दंशमशकादीन् निवारयन् स्वेच्छाविहारं चाऽनुवर्तमानः सन् सः (दिलीपः) सर्वप्रकारेणी नन्दिनीं सिषेवे, इति सरलार्थः ॥५॥ स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥६॥ स्थित इति । पातीति पतिः । भुवः पतिः भूपतिः । तां-गां, स्थिताम् । * गत्यर्थादकर्मकाच्च धातोः कर्तरि क्तप्रत्ययविधानात् अस्थादिति स्थिता, तां-सतीम् । स्थितः-सन् । स्थितिरूवा॑वस्थानम् । प्रायासीदिति प्रयाता, ताम् [प्रयाताम्] । प्रस्थितां सतीमुदचालीदिति उच्चलितः । प्रस्थितः सन् निषसादेति निषेदुषी । सिद्धहेममते निउपसर्गपूर्वात् सद्धातोः 'तत्र वसुकानौ तद्वत् (५।२।२।।) इति सूत्रेण 'क्वसु'-प्रत्यये तस्य को च नामसंज्ञायां 'अधातूदृदितः' (२।४।२।।) इत्यनेन स्त्रियां 'ङीप्'-प्रत्यये 'क्वसुष्मतौ च' * (२।१।१०५।।) इति क्वस उषादेशे निषेदुषी । पाणिनीयमते तु 'भाषायां सद-वस-श्रुवः' - (३।२।१०८) इति क्वसुप्रत्यये 'उगितश्च' (४।२।६।।) इति ङि(ङी)पि निषेदुषी । तां निषेदुषी निषण्णां-उपविष्टामित्यर्थः । सतीम् । आस्यतेऽस्मिन्नित्यासनमिति प्रायः सर्वत्र म * व्युत्पत्तिर्दृश्यते । तथा चाऽऽसनस्य भूम्यादिरों लभ्यते । तथा सति योगसत्काष्टाङ्गान्तर्गत- भारत तृतीयाङ्गरूपासनपदवाच्यचतुरशीत्यासनमध्यवर्तिनः कस्याऽप्यासनस्य ग्रहणं न स्यात् ।। * अत्र धीरशब्दबलात्तदेव योगाङ्गरूपमासनमिति गम्यते । तथा सति आस्तेऽनेनेत्यासनमिति १. अम० त० विशेष्यनिघ्नवर्गे -७ । २१ Page #33 -------------------------------------------------------------------------- ________________ - व्युत्पत्तिः समीचीना । इयमेव व्युत्पत्तिर्वाचस्पतिमिश्रः पातञ्जलयोगदर्शनवृत्तौ कृता । बन्धनं बन्धः । आसनस्य बन्धः आसनबन्धः । धिया राजते, धियं राति ददाति गृह्णाति वा ईरयति ईरति वा प्रेरयति गमयति वा धीरः । न च 'रांक्-दाने' इत्येव सर्वत्र धातुपाठे दर्शनात्कथं ग्रहणरूपोऽर्थः इति वाच्यम् । 'रातुं वारणमागतः' इति प्रयोगदर्शनेन कस्यचिन्मते आदानरूपार्थस्याऽपि सत्त्वात् । तथोक्तं हेमचन्द्रसूरिकृते धातुपारायणे क्रियारत्नसमुच्चये - च आदाने इति कश्चित् इति । 'ईरण्- क्षेपे', क्षेपः प्रेरणम् 'गत्यादावपीति केचित्' इत्यस्य चुरादेरयं प्रयोगः । न तु 'ईरं (रिक्) - गतिकम्पनयो' रित्यस्याऽदादे: इ (ई) रयति इ (ई) रति इति प्रयोगकरणात् । - अदादेस्तु ईर्ते इति प्रयोगः । आसनबन्धे धीरः आसनबन्धधीरः । पद्मासनादिबन्धेऽथवा योगपट्टकसदृशे विनीतः बलयुतः पण्डितश्चेति भावः । आसनबन्धे - उपवेशने धीरः -स्थित- उपविष्टः सन्नित्यर्थः इति' - केचित् । सद् जलमादत्तेऽसावाददाना, तां जलं पिबन्तीं सतीम् । हेमचन्द्रसूरिमते दीक्षितमते चाऽभिलषतीत्येवं शीलः अभिलाषी । जलस्याऽभिलाषी जलाभिलाषी । वृत्तिकार. हरदत्तमाधवादिमते तु जलस्याऽभिलाषो जलाभिलाषः, सोऽस्याऽस्तीति जलाभिलाषी, सन् । छाया इव-प्रतिबिम्बमिव । "छाया सूर्यप्रिया कान्तिः, प्रतिबिम्बमनातपः " इर्त्यमरः । अन्वगच्छत् अनुसृतवान् । वाच्यपरिवर्तने तु - भूपतिना स्थिता स्थितेन प्रयातोच्चलितेन निषेदुषी आसन-. बन्धधीरेण जलमाददाना जलाभिलाषिणा सता छाययेव साऽन्वगम्यत ॥ नन्दिनी यदा चलनाद्विरराम तदा नृपोऽपि विरराम, यदा चलितुमारेभे तदा नृपोऽपि _ तथा । यदा निषसाद तदा नृपोऽपि तथा, यदा जलं पपौ तदा नृपोऽपि जलमपिबत् । किं बहुना ? स भूपतिः सदा छायेव तामनुजगाम, इति सरलार्थः ॥६॥ स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥७॥ १. अम० तृ० नानार्थवर्गे १६५ । - २२ Page #34 -------------------------------------------------------------------------- ________________ स इति । न्यस्यन्ते स्मेति न्यस्तानि परिहतानि चिह्नानि छत्रचामरादीनि यस्याः सा न्यस्तचिह्ना, तां तथाभूतामपि । विशेष्यते इति विशेषः । तेजसो विशेषः तेजोविशेषः । । अनुमीयते स्मेति अनुमिता । तेजोविशेषेण-प्रभावातिशयेन अनुमिता तेजोविशेषानुमिता, तां म तेजोविशेषानुमिताम्-प्रतापातिशयतर्किताम् । सर्वथा राजा इवाऽयं भवेदित्यूहिताम् । * राज्ञः लक्ष्मीः राजलक्ष्मीः, तां राजलक्ष्मीम् । धत्तेऽसौ दधानः । स राजा । आविष्क्रियते । - स्मेति आविष्कृता, न आविष्कृता अनाविष्कृता । दानस्य राजिः दानराजिः । अनाविष्कृता दानराजिर्येन स अनाविष्कृतदानराजिः-बहिरप्रकटितमदरेखः । “गण्डः कटो मदो दानम्" । इत्यमरः । मदस्य अवस्था मदावस्था । अन्तर्गता मदावस्था यस्य स अन्तर्मदावस्थः । । तथाभूतोऽभ्यन्तरदानदशः । द्वाभ्यां शुण्डतुण्डाभ्यां पिबन्तीति द्विपाः । इन्दतीति इन्द्रः ।। * द्विपानामिन्द्रः द्विपेन्द्रः । इव यथा । समदभद्रजातीयो गजपतिरिवेत्यर्थः । “द्विरदोऽनेकपो - द्विपः, मतङ्गजो गजो नागः" इत्यमरः । वाच्यपरिवर्तनं त्वेवम्-तेन (राजा) न्यस्तचिह्नामपि तेजोविशेषानुमितां राजलक्ष्मी * दधानेन (सता) अनाविष्कृतदानराजिना अन्तर्मदावस्थेन द्विपेन्द्रेणेवाऽभूयत । समदभद्रजातीयो गजपतिर्यद्यपि मदवारिभिरन्तर्गतां निजां मदावस्थां न प्रकटीकरोति, और के तथाऽपि तस्य तेजःशालिना मूतिवि(तिवि)शेषेण यथा मनुष्यस्तां मदावस्थां निश्चेतुं समर्थो * भवति; तथा स दिलीपो व्रतबन्धाद्यद्यपि छत्रचामरालङ्कारादिभिः निजां राजलक्ष्मी नाऽधत्त, तथाऽपि तस्य प्रभावशालिना मूर्तिविशेषेणैव जनस्तस्य राज्यश्रियमनुमातुं शशाक, इति । सरलार्थः ॥७॥ लताप्रतानोद्ग्रथितैः स केऔरधिज्यधन्वा विचचार दावम् । रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥८॥ लतेति । अत्र प्रतानशब्दस्य भावघअन्तत्वाभावान्न पुंस्त्वमेव । 'वेदाः प्रमाण'मितिवत्सामान्यविवक्षायां प्रतन्यते एभिरिति करणे नपुंसकत्वमपि । अथवा 'विशेष्य- लिङ्गानुसारित्वा'दत्र पुंस्त्वमपि । प्रतन्यते इति प्रतान इति व्युत्पत्तौ पुंस्त्वमपि । १. अम० द्वि० क्षत्रियवर्गे - ३७ । २. अम० द्वि क्षत्रियवर्गे - ३४ । * - २३ Page #35 -------------------------------------------------------------------------- ________________ लतानां-वल्लीनां प्रतान: (ना:) प्रतानानि वा लताप्रताना: लताप्रतानानि वा । उद्ग्रथ्यन्ते, स्मेति उद्ग्रथिताः । लताप्रतानैः लतासम्बन्धिकुटिलतन्तुभिः उद्ग्रथिता - उन्नमय्य ग्रथिता लताप्रतानोद्ग्रथिताः, तैः लताप्रतानोद्ग्रथितैः । केशैः कचैः । सिद्धहेममते 'हेतुकर्तृक_रणेत्थम्भूतलक्षणे' (२।२।४४|| ) इति तृतीया । "चिकुरः कुन्तलो वालः कचः केश:. शिरोरुहः" इत्यमरः । पाणिनीयमते तु ' इत्थम्भूतलक्षणे' (२|३|२१|| ) इति तृतीया । "वल्ली तु व्रततिर्लता" इत्यमरः । उपलक्षितस्स राजा । ज्यामधिरूढं अधिज्यंआरोपितमौर्वीकं, अधिज्यं धनुर्यस्य स अधिज्यधन्वा सन् । सिद्धहेममते 'धनुषो धन्वन्' (७३|१५८॥ इति बहुव्रीहौ 'धन्वन्' आदेशः । पाणिनीयमते तु 'धनुषश्च' (५|४|१३२ || ) इति 'अनङ्’आदेश: । होमाय धेनुः होमधेनुः । ' सिद्धहेम 'मते हितादेराकृतिगणत्वात्. 'हितादिभिः' ३|१|७१ || अनेन तादर्थ्यचतुर्थ्यन्तस्याऽपि समासः । एवं अश्वघासादावपि `ज्ञेयम् । यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास इति । 'पाणिनीय' मते: तु होमस्य धेनुः होमधेनुः । अत्राऽश्वघासादिवत्तादर्थ्ये षष्ठीसमासः । मुने: होमधेनुः मुनिहोमधेनुः, तस्याः मुनिहोमधेनोः । रक्षणं रक्षा । अपदिश्यतेऽपदिशनं वा इत्यपदेशः । रक्षायाः अपदेश: रक्षापदेशः, तस्मात् रक्षापदेशात्- रक्षणव्याजात् । वने भवा वन्याः, तान् वन्यान्-काननोत्पन्नान् । 'अटव्यरण्यं विपिनं गहनं काननं वनम्" इत्यमरः । दुष्टाश्च ते सत्त्वाश्च दुष्टसत्त्वास्तान्. दुष्टजन्तून् हिंस्रजन्तून् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । सतो भावः, सत्त्वं 'साङ्ख्यसिद्धे, प्रकाशादिसाधने, प्रकृत्यवयवे, पदार्थे ' । तत्र 44 'सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्' ॥ इति गीता । "सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥" इति च साङ्ख्यकारिका [ ||१३|| ] अयं द्वितकारः पृषोदरादित्वादेकतकारः । 'स्वभावे, द्रव्ये, बले, पिशाचादौ, १. अम० द्वि० मनुष्यवर्गे ३. अम० द्वि० वनौषधिवर्गे - ९६ । १ । - २. अम० द्वि० वनौषधिवर्गे ९ । ४. अम० तृs नानार्थवर्गे २२१ । २४ - Page #36 -------------------------------------------------------------------------- ________________ FOR प्राणेषु, व्यवसाये, रसे, आत्मनि, चित्ते, आयुषि, धने च न्यायो(वैशिषिको)क्ते सत्तारूपे, * जातिभेदे, विद्यमानतायां च' । 'जन्तुषु तु पुंस्त्वे नपुंसकत्वे च द्वितकार एव' ।। । विनेष्यतीति विनेष्यन्-शिक्षयिष्यन्निव । दावं वनम् । "वने च वनवह्नौ च दवो और | दाव इहेष्यते" इति यादवः । “दवदावौ वनारण्ये(ण्य)वह्नी" इत्यमरः । विचचार-वने का * च (वा) चचारेत्यर्थः । 'सिद्धहेम'मते 'कालाध्वभावदेशं [वा] कर्म चाऽकर्मणाम्' (२।२।२३।।) इति, 'पाणिनीय'मते तु "देशकालाध्वगन्तव्या कर्मसंज्ञा ह्यकर्मणाम्" इति । दावस्य कर्मत्वम् । वाच्यपरिवर्तनं तु-लताप्रतानोद्ग्रथितैः केशैः (उपलक्षितेन) अधिज्यधन्वना तेन (दिलीपेन) मुनिहोमधेनोः रक्षापदेशात् वन्यान् दुष्टसत्त्वान् विनेष्यतेव दावो विचेरे । ने स दिलीपो लम्बायमानं स्वकेशकलापं वल्लरीतन्तुभिः उन्नमय्य बद्ध्वा चापे का * ज्यामारोप्य तां मुनिहोमधेनुं ररक्ष । अत्रोत्प्रेक्ष्यते-मन्ये खलान्तकोऽसौ दिलीपो धेनुरक्षण व्याजेनाऽऽगत्य तत्र वने सिंहादीन् दुष्टजन्तून् विनाशितुं(शयितुं) तथा सज्जीभूतो विचचार, इति सरलार्थः ॥८॥ विसृष्टेत्यादिभिः षड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचार - चकुरित्याह विसृष्टपाश्र्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥९॥ विसृष्टेति । विसृज्यन्ते स्मेति विसृष्टाः । अनुचरन्तीति अनुचराः । पार्श्वयोरनुचराः पाश्र्वानुचराः । विसृष्टाः पाश्र्वानुचराः पार्श्ववतिनो जना येन स विसृष्टपाश्र्वानुचरः, तस्य * विसृष्टपाश्र्वानुचरस्य । पाशं बिभर्तीति पाशभृत्, तेन पाशभृता-वरुणेन । समस्य तुल्यस्य । "प्रचेता वरुणः पाशी" इत्यमरः । अत्र दिलीपस्य वरुणतुल्यताप्रतिपादनेन, * वरुणस्य जलाधिष्ठातृदेवत्वेन प्रसिद्धिः, तं दृष्ट्वा यथा द्रुमादयः पुष्यन्ते तथा तं नृपं । दृष्ट्वा सर्वेऽपि पुष्यन्ते इति द्योतयति । अनुभावोऽनेन सूचितः । तस्य राज्ञः । पार्श्वयोः । द्रुमाः पार्श्वद्रुमाः । द्रवति ऊर्ध्वं गच्छतीति दुः, द्रवः शाखाः सन्त्येषामिति द्रुमाः । उत् * १. अम० तृ० नानार्थवर्गे - २१४। २. अम० प्र० स्वर्गवर्गे - ७३ । . २५ Page #37 -------------------------------------------------------------------------- ________________ उत्कटो मदो येषां ते उन्मदाः, तेषामुन्मदानामुत्कटमदानाम् । वयसां खगादीनाम् ।। "खगबाल्या-दिनोर्वयः इर्त्यमरः । विरवणानीति वा वि-उपसर्गपूर्वात् 'रु'धातोर्घत्रि विराव: पु० । विरूयन्ते इति विरावाः, तैः विरावै:-शब्दैः । आलोक्यते इति आलोकः, आङ्-और O, उपसर्गपूर्वात् 'लोकृ' धातोर्घजि आलोकः । 'आलोको दर्शने, उद्योते, बन्दिनामालो कयेत्यादिस्तुतिवाक्ये" । आलोकनं वाऽऽलोकः" । आलोकस्य शब्द:-वाचकः आलोकशब्दः, तमालोकशब्दम्; अथवाऽऽलोकश्चाऽसौ शब्दश्चाऽऽलोकशब्दः, तम् आलोकशब्दम् । आलोकयेति शब्दं राजोचितं जयशब्दमित्यर्थः । “आलोको जयशब्दः स्यात्" इति । मा विश्वः । उदीरयामासुरिवाऽवदन्निवेत्युत्प्रेक्षा । तल्लक्षणं चेदं कुवलयानन्दे संभावना स्याद्रुत्प्रेक्षा वस्तुहेतुफलात्मनाम् । उक्तानुक्तास्पदाऽऽद्याऽत्र सिद्धासिद्धास्पदे परे ॥१॥ अन्यधर्मसम्बन्धनिमित्तेनाऽन्यतादात्म्यसम्भावनमिति भावः । __ वाच्यपरिवर्तनं त्वेवम्-पार्श्वद्रुमैः उन्मदानां वयसां विरावैः विसृष्टपाश्र्वानुचरस्य पाशभृता समस्य तस्याऽऽलोकशब्द उदीरयामासे इव । __ यथा राजमन्दिरे चतुष्पथादौ च सेवकाः प्रजाजनाश्च मङ्गलध्वनिभिः तं संवर्धयन्ति स्म तथाऽरण्येऽपि तन्निकटवर्तिनस्तरवः पार्श्वचरविहीनं वरुणवत्प्रभावशालिनं तं नृपं. मत्तखगकुलकूजितरूपेण जयशब्देन संवर्धयामासुः, इति सरलार्थः ॥९॥ द्वाभ्यां युग्मं, त्रिभिविशेषकं, चतुरादिभिः कलापकं, पञ्चादिभिः कुलकमिति - कृत्वाऽतः प्रभृति षड्भिः श्लोकैः कुलकेनाऽऽह । पूर्वश्लोके पार्श्वद्रुमाः सत्कारं चक्रुरस्मिश्च बाललता, इति तत्सत्कारसमुच्चयार्थश्च । शब्दः । मरुत्प्रयुक्ताश्च मरुत्सखाभं तमय॑मारादभिवर्तमानम् । अवाकिरन् बाललताः प्रसूनै-राचारलाजैरिव पौरकन्याः ॥१०॥ मरुत्प्रयुक्ताश्चेति । प्रयुज्यन्ते स्मेति प्रयुक्ताः । मरुता प्रयुक्ता मरुत्प्रयुक्ताः वायुना की प्रेरिताः । बालाश्च ता लताश्च बाललता:-कोमलवल्लयः । आरात्समीपे "आरात् दूर१. अम० तृ० नानार्थवर्गे - २३८ । PN २६ Page #38 -------------------------------------------------------------------------- ________________ - समीपयोः" इर्त्यमरः । अभिवर्ततेऽसौ अभिवर्तमानस्तम् अभिवर्तमानम् । मरुतो-वायोः । सखा मरुत्सखः । अत्र 'राजन्सखेः' (७।३।१०६।।) इति 'श्रीसिव्हेश०' सूत्रेण सखिशब्दाद 'अट्'समासान्तः । 'राजाहः सखिभ्यष्टच्' [५।४।९१।।] इति पाणिनीयसूत्रेण च टचि । सो 'अवर्णेवर्णस्य' (७।४।३८॥) इति 'श्रीसिव्हे०श० 'सूत्रेण इकारलुकि मरुत्सखः । 'यस्येति । * चे(च) [पा० ६।४।१४८॥] सूत्रेण इकारलोपे मरुत्सखः । आभानमिति आभा । मरुत्सखस्याऽऽभेव आभा यस्य स मरुत्सखाभः, तं मरुत्सखाभम् । 'उपसर्गादातः' । (५।३।११०।।) इति 'श्रीसि०हेश०' सूत्रेण ङि(अङि) आभा । 'आतश्चोपसर्गे' । [३।३।१०६।।] इति 'पा०' सूत्रेणा-प्रत्यये आभा । अर्चयितुं योग्यः अWः, तम् अर्घ्यर पूज्यम् । तं दिलीपम् । प्रसूयन्ते स्मेति प्रसूनानि, तैः प्रसूनैः । 'षूच्-प्राणिप्रसवे' इति का * 'श्रीसि०हे०श०' धातुपाठपठितस्य दिवादिधातोः क्तप्रत्यये, क्तस्य च 'सूयत्याद्योदितः' (४।२७०।।) इति 'श्रीसि०हे०श०' सूत्रेण नत्वे प्रसूनानि-कुसुमानि । पाणिनीयमते तु । 'डुंग्-प्राणिप्रसवे' तक्कर्मणि (तृतीया कर्मणि) [।६।२।४८॥] इति 'क' प्रत्यये 'स्वादय * ओदित' इत्युक्तत्वात् 'ओदितश्च' [८।२।४५॥] इति निष्ठान्तस्य नत्वे 'यस्य विभाषा' - 2 [७।२।१५॥] इति इडभावे भिसि प्रसूनैः । अत एवाऽन्येऽयमप्राणिप्रसवे इतीच्छन्तीति । पूज्याः । अदादिगणपठितस्य 'घूङोक्-प्राणिगर्भविमोचने' इत्यस्य नेदं रूपं, तदर्थासम्भवात् । - मी तुदादिपठितस्य 'घूत्-प्रेरणे' इत्यस्याऽपि न, तदर्थासम्भवात् , उदितत्वाभावेन नादेशाभावाच्च । * 'पाणिनीय'मतेऽपि 'घूङ' इति दिवादिधातोरेवेदं रूपम् । तन्मते 'स्वादय ओदित' र - इत्योदितत्वात् 'ओदितश्चेति सूत्रेण तस्य नादेशः । अदादि-तुदाद्योरोदितत्वाभावेन तस्य नत्वाभावात् तदर्थासम्भवाच्च न तयो रूपम् ।। पुरे भवाः पौराः । कनन्ति कन्यन्ते वा इति कन्याः । पौराश्च ताः कन्याश्च । पौरकन्याः, अथवा पौराणां कन्याः पौरकन्याः । 'श्रीसिव्हेश० 'मते 'हितादिभिः' (३।१।७१।।) इति सूत्रेण तादर्थ्यचतुर्थ्यन्तसमासे, आचरणम् आचारः, आचाराय लाजाः । आचारलाजाः तैः आचारलाजैः । लज्ज्यन्ते भृज्ज्यन्त इति लाजाः । लाजाशब्दो नित्यं को बहुवचनान्तः । पाणिनीयमते तु अश्वघासादिवत् षष्ठीसमासे आचारस्य लाजाः आचारलाजाः, १. अम० तृ० नानार्थवर्गे - २५० । RSINom SES २७ Page #39 -------------------------------------------------------------------------- ________________ तैः आचारार्थैः लाजैः आचारलाजैः । इव । अवाकिरन् । तस्योपरि निक्षिप्तवत्य ववृषुः । इत्यर्थः । सखा हि सखायमागतमुपचरति, इति भावः । अत्र हि पूर्वश्लोके पाशभृता समस्येति कथनेन पाशभृतो वरुणस्य जलाधिष्ठातृत्वेन पाशभृत्प्रयुक्तजलधरागमे द्रुमाणां हर्षातिरेकः संजायते । तथा च हर्षातिरेके द्रुमाणां पक्षिणामप्युत्कटमदत्वं जायते, ततश्च ते स्वस्वध्वनिभिर्मधुरारावाः तन्वते इत्युत्प्रेक्षितम् । म पार्श्वद्रुमास्तस्याऽऽलोकशब्दमुदीरयामासुरिति । जलधरागमेन लतादीनां हर्षातिरेकज्ञापकमुद्गॐ मत्वं जायते, कुसुमोझेदादिस्तु जलधरानन्तरमातपनिपातेनेति सम्भाव्यते । इत्यस्मिन् श्लोके का मरुत्सखाभमिति राज्ञो विशेषणेन, यथाऽऽतपनिपातः कुसुमोढ़ेदादिहेतुः, तथाऽत्र दावे राज्ञ आगमनमस्माकं कुसुमितत्वे हेत्विवेति ताः प्रभूतहर्षातिरेकवत्यः कुसुमरूपैराचारलाजैर्वर्धापितवत्य इवेत्युत्प्रेक्षा ध्वनितेत्याभाति ॥ वाच्यपरिवर्तनं त्वेवम्-मरुत्प्रयुक्ताभि: बाललताभिश्च मरुत्सखाभोऽर्च्य आराद( भिवर्तमानः स (नृपः) आचारलाजैः पौरकन्याभिरिव प्रसूनैरवाकीर्यत । यथा हि तस्य नगरप्रवेशे पौरकन्यकाः तस्योपरि मङ्गलार्थान् निर्मलान् लाजान् । वर्षन्ति तथा वने वल्लयो मारुतान्दोलितैः शाखाकरैः पावकवत् तेजसस्तस्योपरि निर्मलानि हो र पुष्पाणि समन्तात् किरन्ति स्म, इति सरलार्थः ॥१०॥ धनु तोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥११॥ धनुर्भूत इति । धनतीति धनुः । धनुर्बिभर्तीति धनुर्भृत्, तस्य धनुर्भृतः-कोदण्डधारिणः । अपि । अस्य राज्ञः । एतेन भयसम्भावना दर्शिता । तथाऽपि विगता शङ्का | एभ्यस्तानि विशङ्कानि, तैः विशङ्कः -निर्भीकैः । अन्तःकरणैः कर्तृभिः । दयया कृपारसेन का | आज़े भावोऽभिप्रायो यस्य तद् दयाभावम् । तद् आख्यायते स्मेति आख्यातम्* कथितम् । (दयार्द्रभावमेतदित्याख्यातमित्यर्थः)। "भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु" भी इत्यमरः । तथाविधं वपुः शरीरम् । “गात्रं वपुः संहननं शरीरं वर्म विग्रहः" इत्यमरः । विलोकयन्तीति विलोकयन्त्यः-सादरं पश्यन्त्यः । हरिण्यः मृग्यः । अक्ष्णां नेत्राणाम्। - १. अम० तृ० नानार्थवर्गे - २१५ । २. अम० द्वि० मनुष्यवर्गे - ७१ । HOMSAKC SPORTS २८ Page #40 -------------------------------------------------------------------------- ________________ "लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी" इत्यमरः । विस्तरणं विस्तारः । प्रकामं विस्तारः प्रकामविस्तारः । प्रकामविस्तारस्याऽत्यन्तविशालतायाः फलं-प्रयोजनं प्रकामविस्तारफलम् । आपुः-लेभिरे ॥ वाच्यपरिवर्तनम् - धनुर्भृतोऽप्यस्य दयाभावं (हरिणीनां) विशङ्करन्तःकरणैः । * आख्यातं (अस्य) वपुर्विलोकयन्तीभिर्हरिणीभिरक्ष्णां प्रकामविस्तारफलमापे ॥ धनुर्धारिणमपि तमायान्तं विलोक्य हरिणीनां भयक्षान्तिसम्भावनायामपि भयाभावप्रयुक्तनिर्मलैरन्तःकरणैः राज्ञो दिलीपस्याऽन्तरात्मा हिंसालेशरहितसर्वजीवविषयदयाद्रवीभूत - इति ज्ञातम् । तेन च नृपस्य दयाभावं परममनोहरं वपुः निर्भयात् बहुकालं निर्भरं ददृशुः, - तेन च स्वनेत्राणामत्यन्तविशालतायाः फलमापुः । “विमलं कलुषीभवच्च चेतः कथयत्येव * हितैषिणं रिपुञ्चे"ति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धा ददृशुः, इति सरलार्थः ॥११॥ स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥१२॥ स कीचकैरिति । सः दिलीपः । मारुतेन पूर्णानि रन्ध्राणि येषां ते मारुतपूर्णरन्ध्राः, और तैः मारुतपूर्णरन्धैः-वायुपूरितछिद्रैः । “छिद्रं निर्व्यथनं रोकं रन्ध्र श्वभ्रं वपा शुषिः" इत्यमरः । अत एव कूजन्तीति कूजन्तः, (तैः) कूजद्भिः-स्वनद्भिः । कीचकैः वेणुविशेषैः । ३ "वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः" इत्यमरवचनात् कीचकशब्देनैव मारुत* पूर्णरन्ध्रत्वस्य सिद्धौ मारुतपूर्णरन्धैरिति विशेषणं किमर्थमिति चेत् , विशिष्टवाचकानां पदानां सति विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम् इति ज्ञापनार्थम् ।। को वंशः शुषिरवाद्यविशेषः । “वंशादिकं तु शुषिरम्" इत्यमरः । वंशस्य कृत्यं * वंशकृत्यम् । आपाद्यते स्मेति आपादितम् । आपादितं वंशकृत्यं यस्मिन् कर्मणि यथा स्यात्तथाऽऽपादितवंशकृत्यम्-संपादितशुषिरकार्यम् । कुञ्जेषु लतागृहेषु । “निकुञ्जकुऔ का वा क्लीबे लतादिपिहितोदरे" इत्यमरः । वनस्य देवता वनदेवताः, ताभिः वनदेवताभिःMP १. अम० द्वि मनुष्यवर्ग - ९४ । २. अम० प्र० पातालभोगिवर्गे - २ । ३. अम० द्वि० वनौषधिवर्गे - १६१ । ४. अम० प्र० नाट्यवर्गे - ५ । | ५. अम० द्वि० शैलवर्गे - ९ । २९ Page #41 -------------------------------------------------------------------------- ________________ विपिनदेवताभिः । “अटव्यरण्यं विपी(पि)नं गहनं काननं वनम् “इर्त्यमरः । उच्चैः 'उच्चस्वरेण । उद्गीयते इत्युद्गीयमानम् । स्वं-निजम् । यश:-"एकदिग्गामिनी कीर्तिः । सर्वदिग्गामुकं यशः" । "यशः कीर्तिः समज्ञा च" इत्यमरवचनात्तु कीर्तिम् । शुश्राव श्रुतवान् ॥ वाच्यपरिवर्तनं त्वेवम्-तेन मारुतपूर्णरन्धैः कूजद्भिः कीचकैरापादितवंशकृत्यं कुञ्जेषु र - वनदेवताभिरुच्चैरुद्गीयमानं स्वं यशः शुश्रुवे ॥ __ तस्मिन् वने एकान्तशीतलेषु वल्लरीकुञ्जेषु सुखासीना वनदेवताः मङ्गलगायिका इव मनोहरेण गान्धारस्वरेण तस्य नृपतेराश्चर्यकर्माणि गायन्त्यः तस्य कर्णसुखं चक्रिरे । । वनजातैः कीचकैश्च (सच्छिद्रवंशैश्च) पवनपूर्णरन्ध्रतया मधुरं ध्वनिभिस्तासां गानस्याऽनुरञ्जकं को ॐ वंशीवाद्यकार्य सम्पादितम्, इति सरलार्थः ॥१२॥ पृक्तस्तुषारैगिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी । तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥१३॥ पृक्त इति । गिरिषु निर्झराः गिरिनिर्झराः, तेषां गिरिनिर्झराणाम्-पर्वतनिःसृतॐ वारिप्रवाहाणाम् । “वारिप्रवाहो निर्झरो झरः" इत्यमरः । तुषारैः-सीकरैः । 'दन्त्यः का सीकरशब्दः पुंसि, तालव्यः शीकरशब्दस्तु नपुंसके' इति विशेषः । “तुषारो हिमदेशयोः । शीकरे हिमभेदे च" इति पूज्यश्रीहेमचन्द्रसूरिकृतोऽनेकार्थसंग्रहः । “तुषारौ हिमसीकरौ" * शाश्वतः, "तुषारः हिमे कर्पूरे शीते च" | पृच्यते स्मेति पृक्त:-सम्पृक्तः ।। ____ अनस:-शकटस्य अक:-गतिः अनोकः, अनोकं घ्नन्तीति अनोकहाः, कम्प्यन्ते - स्मेति कम्पितानि, आ-ईषत् कम्पितानि आकम्पितानि, आकम्पितानि च तानि पुष्पाणि च । आकम्पितपुष्पाणि, अनोकहाकम्पितपुष्पाणां गन्धः अनोकहाकम्पितपुष्पगन्धः, अनोकहाकम्पितपुष्पगन्धा(न्धो)ऽस्याऽस्तीति अनोकहाकम्पितपुष्पगन्धी-ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पुनातीति पवनः-वातः । * १. अम० द्वि० वनौषधिवर्ग-१ । ३. अम० द्वि० शैलवर्गे-५ । २. अम० प्र० शब्दादिवर्गे-११ । ४. अनेकार्थसंग्रहे तृ० ५५४-५५ । ३० Page #42 -------------------------------------------------------------------------- ________________ Hदार "श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः । पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ।। समीरमारुतमरुज्जगत्प्राणसमीरणाः । नभस्वद्वातपवनपवमानप्रभञ्जनाः'' ॥ इत्यमरः । आतपात् त्रायते इत्यातपत्रम् । न विद्यते आतपत्रं यस्य स अनातपत्रः, तम् । अनातपत्रम् -व्रतार्थं परिहतछत्रम् । अत एव क्लाम्यते स्मेति क्लान्तः । आतपेन क्लान्तः । आतपक्लान्तः, तम् आतपक्लान्तम् । पूयते स्मेति पूतः । आचरेण पूतः आचारपूतः, तम् । आचारपूतम्-आचारशुद्धम् । तं-नृपम् । सिषेवे-सेवितवान् । अनेन 'आचारः प्रथमो - धर्मः' इति ज्ञापितम् । यद्यपि ज्ञानपूर्णः स्यात्तथाऽपि सामान्यदृष्ट्या आचारभ्रष्टः (नसेवनार्हः स्यात् ) । तथा चाह - शीलविहीनस्तु तथा श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥१॥ तथा चाऽऽहुः पूज्याःगुणसुट्ठियस्स घयमहुसित्तुव्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहीणो जह पईवो ॥१॥ (बृहत्कल्पभाष्यम् गा० २४५) तथा चाऽन्येनाऽप्युक्तम्क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः ॥१॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु न । तथा पुष्टि जनयति यथा हि गुणवन्मुखात् पतितम् ॥२॥ शीतेऽप्ययनलब्धो न सेव्यतेऽग्निर्यथा स्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥३॥ १. अम० प्र० स्वर्गवर्गे - ७४-७५ । २. गुणसुस्थितस्य घृतमधुसिक्त इव पावको भाति । गुणहीनस्य न शोभते स स्नेहविहीनो यथा प्रदीपः ॥ (छायार्थः)।। ३१ Page #43 -------------------------------------------------------------------------- ________________ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डलकूप इव ||४|| आचारपूतत्वात् स राजा जगत्पावनस्याऽपि सेव्य आसीदिति भावः ॥ वाच्यपरिवर्तनं त्वेवम्-गिरिनिर्झराणां तुषारैः पृक्तेनाऽनोकहाकम्पितपुष्पगन्धिना पवनेनाऽनातपत्र आतपक्लान्त आचारपूतः स सिषेवे ॥ पर्वतसरित्प्रवाहाणां शीतलान् वारिकणान् वहन् ईषत्कम्पितानां तरुपुष्पाणां गन्धं - वहन्मन्दः शीतलः सुगन्धः जगत्पावयन्गन्धवहः तस्मिन् वने छत्ररहितं आतपतापितं : सदाचारपवित्रं तं दिलीपं सेवितवान् इति सरलार्थः ॥१३॥ शशाम वृष्ट्याऽपि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन् वनं गोप्तरि गाहमाने ॥१४॥ शशामेति । गोपायतीति गोप्ता, तस्मिन् गोप्तरि-रक्षयितरि । तस्मिन् दिलीपे. राज्ञि । वनम्-अरण्यम् । गाहतेऽसौ गाहमान:, तस्मिन् गाहमाने प्रविशति सति । वृष्ट्य • विनाऽपि - वर्षाणामभावेऽपि । दुनोतीति दवः । दवस्य अग्निः दवाग्निः - वनाग्निः “दवदावौ वनानले” इति हैम: १ । "दवदावौ वनारण्यवह्नी" इत्यमरः । अन्यत्र तु दवनं 'दव इति भावे 'दु' धातोरपि भवति उपतापे । शशाम शान्तो बभूव । फलानि च पुष्पाणि च फलपुष्पाणि, फलपुष्पाणां वृद्धिः फलपुष्पवृद्धिः सस्यकुसुमवृद्धिः । “वृक्षादीनां फलं सस्यम्" इत्यमरः । विशिष्यत इति विशेषा; 'भावाऽकर्त्रीः' (५|३|१८|| ) इति 'श्रीसि० हे० श०' सूत्रेण, पाणिनीयमते तु बाहुलकात् . कर्मणि 'घञ्' - अतिशयिता । आसीत् - अभूत् । सत्त्वेषु जन्तुषु मध्ये 'सप्तमी चाऽविभागे.. निर्द्धारणे' (२|३|१०९ ||) इति 'श्रीसि० हे० श०' सूत्रेण, 'यतश्च निर्धारणम्' [२|३|४१ || ] - इति पाणिनीयसूत्रेण च सप्तमी । "सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । अधिक: - प्रबल:१. अभि० चि० अनेकार्थसङ्ग्रहे द्वि० ५१२ । २१४ । १५ । २२१ । २. अम० तृ० नानार्थवर्गे ३. अम० द्वि० वनौषधिवर्गे ४. अम० तृ० नानार्थवर्गे - ३२ Page #44 -------------------------------------------------------------------------- ________________ र (सबल:) सिंहादिरित्यर्थः । ऊनं-दुर्बलम् हरिणादिकम् । न बबाधे-न पीडयामास ॥ वाच्यपरिवर्तनं त्वेवम्-गोप्तरि तस्मिन् (सति) वनं गाहमाने (सति) दवाग्निना वृष्ट्या विनाऽपि शेमे । फलपुष्पवृद्ध्या विशेषया अभूयत । सत्त्वेषु अधिकेन ऊनं न * - बबाधे ॥ अहो ! अलौकिक: प्रभावस्तस्य राजर्षेर्यस्मिन् प्रविष्टमात्र एव तस्मिन् महावने । वृष्ट्या विनाऽपि वनाग्निः शशाम, वृक्षलतादयोऽपि प्रभूतया फलपुष्पलक्ष्म्या चकासिरे, । का प्रबलाश्च जीवा निर्बलहिंसनात् विरेमुः । सबलो वन्यजन्तुर्दुर्बलं न बाधते स्म, इति । सरलार्थः ॥१४॥ सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥१५॥ सञ्चारेति । पल्यते सम्पदा इति 'पल्(ल्ल)-गता'विति भ्वादिगणधातोः विपि । पल्, लूयते इति 'लू[ग्श्] छेदने' इति क्र्यादिगणधातोः कर्मणि अपि लवः, पल् चाऽसौ र लवश्च पल्लवः । “पल्लवोऽस्त्री किसलयम्" इत्यमरः । अभिनवः पत्रविस्तारः । “रागोऽनुरक्तौ का * मात्सर्ये क्लेशादौ लोहितादिषु" इति शाश्वतः । अत्र रज्यतेऽनेनेति करणे ‘घबि' । 'घबि भावकरणे' (४।२।५२।।) इति 'श्रीसि०हेश०' सूत्रेण 'घञ्च (घनि च) भावकरणयोः' [६।४।२७।।] इति 'पाणिनीय'सूत्रेण च नलुपि रागः-वर्णविशेषः । आध्यात्मिकविचारे तु विषयेषु इमे शोभना इत्यध्यासेन 'रञ्जनस्वरूपाऽभिनिवेशात्मिका या चित्तवृत्तिः सा र रागः' पल्लवस्य रागः पल्लवरागः । ताम्यतीति इच्छार्थकदिवादिगणीय तम' धातोः अकि * दीर्घ ताम्रा । पल्लवराग इव ताम्रा पल्लवरागताम्रा । ___पतन् सन् गच्छतीति पतङ्गः, अथवा पततौ इति भ्वादिश्चुरादिश्च पतृ ऐश्ये चोर को दिवादिः । अत्र पततीति भ्वादिपतधातोः अङ्गचि पतङ्गः, तस्य पतङ्गस्य सूर्यस्य । * "पतङ्गः पक्षिसूर्ययोः" इति शाश्वतः । “पतङ्गः सूर्ये शलभे खगे शालिभेदे मधूकवृक्षे । च" । प्रकर्षेण भातीति प्रभा-कान्तिः । मन्यते जगतस्त्रिकालावस्थामिति, मननशीलो वा सो मुनिः, तस्य मुनेः । धेनुः । च । दिशामन्तराणि तानि दिगन्तराणि-दिगवकाशान् । * १. अम० द्वि० वनौषधिवर्गे - १४ ।। ARREARS ३३ Page #45 -------------------------------------------------------------------------- ________________ "अन्तरमवकाशावधिपरिधानान्तधिभेदतादर्थ्य" इर्त्यमरः । सञ्चरणं सञ्चारः । पूयन्ते स्मेतिपूतानि-शुद्धानि । सञ्चारेण पूतानि सञ्चारपूतानि । कृत्वा-विधाय । द्यति तमः, दोधातोर्नकि दिनम् । दीव्यति रविरत्र द्यति तम इति वा “दिननग्न[ फेन-चिह्नबध्न-धेन स्तेन-और च्यौक्नादयः]'' ॥२६८।। औणादि०सूत्रेण नान्ते निपातने दिनं पुंक्लीबलिङ्गः । “तत्रऽहर्दिवसो का * दिनम्, दिवं धुर्वासरो घस्रः" इति हैम: । दिनस्य अन्तो दिनान्तः, तस्मिन् दिनान्ते- सायंकाले । निलीयतेऽत्रेति निपूर्वात् 'ली' धातोः अचि निलयः । "गृहे, आवासस्थाने च" । तस्मै निलयाय-अस्तमयाय । धेनुपक्षे आलयादे(य)व गन्तुं प्रचक्रमे-उपक्रान्तवती। 'प्रोपादारम्भे (३।३।५१॥) इति श्रीसिव्हेश०' सूत्रेण 'प्रोपाभ्यां समर्थाभ्याम्' [१।३।४२॥] - । इति पाणिनीयसूत्रेण चाऽऽत्मनेपदम् ॥ वाच्यपरिवर्तनं त्वेवम्-पल्लवरागताम्रया पतङ्गस्य प्रभया मुनेर्धेन्वा च दिगन्तराणि * सञ्चारपूतानि कृत्वा दिनान्ते निलयाय गन्तुं प्रचक्रमे ।। अभिनवकिसलयरागरक्ता सूर्यकान्तिर्वशिष्ठनन्दिनी च सर्वं दिनं वने निखिलानि दिगन्तभागान् निजसञ्चरणेन पवित्रीकुर्वाणा सन्ध्यासमयेऽस्तमयाभिमुखी निजस्थानाभिमुखी * च जाता, इति सरलार्थः ॥१५॥ तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥१६॥ तामिति । मध्ये भवः मध्यमः । लोक्यतेऽसाविति लोकृधातोः कर्मणि घत्रि लोकः । मध्यमश्चाऽसौ लोकश्च मध्यमलोकः । मध्यमलोकं पालयतीति मध्यमलोकपाल:मर्त्यलोकाधिपः । देवन्ते इति देवाः, देवा एव देव्धम्तोः स्वार्थे तलि देवताः । "क्वचित्र स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते'' इति भाष्योक्तेः स्त्रीत्वम् । के 'देवता इन्द्रादौ सुरे' । पान्तीति पाधातोः तृचि पितरः । अतन्ति सततं गच्छन्ति न तिष्ठन्ति का * एकत्रेति अत्धातोः इथिनि अतिथयः । “अतिथिः अध्वयोगेन, आगन्तुके, गृहागते, विषये सब च" । तस्य इन्द्रियेषु संसर्गमात्रकाल एव चेतसि स्थिति!त्तरकालमिति गतिः अनुमीयते । १. अम० तृ० नानार्थवर्गे - १९५ । * २. अभि० चि० द्वि० - १३८ । Page #46 -------------------------------------------------------------------------- ________________ "स्युरावेशिक आगन्तुरतिथिर्ना गृहागते" इर्त्यमरः । अथवा नाऽस्ति तिथिर्येषां तेऽतिथयः । तथा चाऽऽह- तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥ इति कारिकोक्त्या तु सर्वत्यागवान् समभावभावितात्माऽनगार एव गृह्यते । गृहागतः । प्राघूर्णकादिस्तु अभ्यागतशब्देनोच्यते, अत्र तु न तथा । देवताश्च पितरश्च अतिथयश्च मे देवतापित्रतिथयः । क्रियते इति कृधातोर्भावे शप्रत्यये टापि च क्रिया । "क्रिया आरम्भे, और चेष्टायां, इन्द्रियव्यापारे, पाकादिशब्दप्रवृत्तिनिमित्ते, फलव्यापाररूपे, धातोरर्थे, निष्कृतौ, * पूजायां, शिक्षायां, चिकित्सायां, करणे, गर्भधानादिसंस्कारे, व्यवहारपादविशेषे च" । देवतापित्रतिथीनां क्रियाः यागश्राद्धदानादिकाः । जैनमते तु स्तवनभक्तिसत्कारादिकाः देवता पित्रतिथिक्रियाः । अर्यते-गम्यते-प्राप्यते इत्यर्थः, अथवा अर्थ्यतेऽसाविति अर्थधातोरचि * अर्थः । देवतापित्रतिथिक्रिया एव अर्थः-प्रयोजनं यस्याः सा देवतापित्रतिथिक्रियार्था, तां देवतापित्रतिथिक्रियाम् । ___ तां धेनुम् । अनु अञ्चतीति अनुपूर्वात् अञ्चधातोः क्विपि अन्वक्-अनुपदम्, ॥ ययौ-जगाम । सताम्-उत्तमानाम् । । केषाञ्चिन्मते 'मनण-पूजायां' युजादिः । 'मनिण-स्तम्भे' स्तम्भो गर्वः, चुरादिरात्मनेपदी, पक्षे मनतीति चन्द्रः । अन्यत्र 'मनिंच्-ज्ञाने' दिवादिः । 'मनूयि-बोधने का * तनादिः । अत्र तु गर्वार्थो न संभवति, तेन मन्यतेऽसाविति 'ज्ञानेच्छाईर्थजीच्छील्यादिभ्यः पर क्तः' (५।२।९२।।) इति 'श्रीसि०हे०श०' सूत्रेण 'मतिबुद्धिपूजार्थेभ्यश्च [३।२।१८८॥] इति । * 'पाणिनीय' सूत्रेण च वर्तमाने 'क्ते' मतः, तेन मतेन-मान्येन । सतामित्यत्र 'कर्मणि * कृतः' (२।२।८३॥) इति 'श्रीसिव्हेश०' सूत्रेण 'क्तस्य च वर्तमाने' [२।३।६७॥] इति । 'पाणिनीय'सूत्रेण च षष्ठी । तेन सतां मतेन, सद्भिः मान्येन, तेन-राज्ञा । उपपद्यते स्मेति र उपपन्ना-युक्ता । सा-धेनुः । सतां मतेन विधीयते इति विधिः, तेन विधिना-अनुष्ठानेन उपपन्ना-युक्ता । साक्षात् प्रत्यक्षा, श्रद्धा-आस्तिक्यबुद्धिरिव । बभौ-शुशुभे । 'सद्भिर्मान्येन विधिना युक्ता श्रद्धोपपन्ने'ति कथनेन ज्ञानक्रियाभ्यां मोक्षः इति । . अम० वि० ब्रह्मवर्गे - ३६ । ३५ Page #47 -------------------------------------------------------------------------- ________________ - CAMERA m | जैनसूत्रं सत्यापयति । श्रद्धां विना व्यवहारोऽपि नोपपद्यते । यथाऽस्याऽयं पुत्र इतिव्यवहारोऽपि श्रद्धयैव, तर्हि अतीन्द्रियसूक्ष्मपदार्थावबोधे ज्ञानिवचनस्य श्रद्धां विना न निर्वाहो भवति । केवला श्रद्धाऽपि नाऽर्थवती, न केवला प्रज्ञाऽपि । अन्यथा केवलया और A श्रद्धया शाक्तानां पञ्चमकारासेवनादेव मुक्तिरित्यादीनामपि सार्थक्यं स्यात् । केवलया च - प्रज्ञया कस्याऽहं पुत्र इत्यपि निर्णयो न स्यात् । अत एवाऽत्र श्रद्धाशब्देन प्रज्ञाविशिष्टा श्रद्धा र ग्राह्या । तथा च तस्य पर्यायः आस्तिक्यबुद्धिरिति प्रज्ञाविशिष्टा केवला श्रद्धा शोभनाऽपि सदनुष्ठानं विना न शोभतेतराम् । एवं धेनुरपि तेन राज्ञा युक्ता शोभते । ज्ञानक्रियानययोः शास्त्रे उपालम्भवचनानि तु अर्थवादपराणि इति न्यायाचार्य-न्यायविशारदबिरुदैः पूज्यैः - श्रीयशोविजयवाचकैः ‘खण्डनखण्डखाद्ये' समर्थितम् ॥ ___ अत एव सतां मतेन विधिनोपपन्नेत्युक्तम् । एतेन सद्विधेरपि प्राबल्यं यज्जैनशास्त्रकारैः प्रतिपादितं तत्समर्थितम् । तथा चाऽऽह आसन्नसिद्धियाणं विहिपरिणामो य होइ सयकालं । विहिचाओ अविहिभत्ती अभव्वजिअदूरभव्वाणं ॥१॥ धन्नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणी धन्ना विहिपक्ख-सदूसगा धन्ना ॥२॥ विहिकरणं गुणिराओ अविहिच्चाओ य पवयणुज्जोओ । अरिहंतसुगुरुसेवा इमाई सम्मत्तलिंगाइं ॥३॥ किञ्च व्यवहारलोपकानां चरणकरणनाशकत्वं तीर्थनाशकत्वं च जैनशास्त्र उक्तम् । यदाहुः- निच्छयमवलंबंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकिरियालसा केई ॥१॥ इत्योघनिर्युक्तौ (गा.७६१) । "ववहारनउच्छेए तित्थुच्छेओ जओवस्सं" इति व्यवहारभाष्ये । ___ वाच्यपरिवर्तनं त्वेवम्-सा देवतापित्रतिथिक्रियार्था अन्वग् यये मध्यमलोकपालेन * बभे च तया तेन सतां मतेन श्रद्धयेव साक्षात् विधिनोपपन्नया ॥१६॥ ३६ Page #48 -------------------------------------------------------------------------- ________________ - स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥१७॥ स पल्वलेति । यद्यपि नानाशक्यतावच्छेदकधर्मत्वे शक्तौ सन्देहः, तथाऽपि । शक्यतावच्छेदकतावच्छेदकैक्ये न शक्तौ सन्देहः इति नैयायिकनिष्कर्षः । एवं च तच्छब्दस्य का * बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेन शक्यतावच्छेदकतावच्छेदकरूपस्य उपलक्षणी भूतबुद्धिस्थत्वधर्मस्यैकत्वेन तत्पदशक्तौ न सन्देहः । अत्र तच्छब्देन दिलीपत्वस्य बुद्धिस्थत्वात तच्छब्देन दिलीप एव ग्राह्यः । स दिलीपः । | उत्तीर्यन्ते स्मेति उत्तीर्णानि । वरायाऽभीष्टाय मुस्तादिलाभायाऽऽहन्ति-खनन्ति भूमिम् - कि इति वराहः, आपर्वात् (हन्) धातोः 'ड:' "शूकरे स्त्रियां ङीप्, यज्ञवराहाख्ये, विष्णोरवतारभेदे पुं० पर्वतभेदे, मस्तके, शिशुमारे, वाराहीकन्दे, भानभेदे, द्वीपभेदे च" | वराहाणां यूथानि वराहयूथानि । पल्यतेऽसाविति ‘पल्-गतौ' पल्धातोः 'शमिकमिपलिभ्यो । वलः' ।४९९॥ इति औणादिके वले पल्वलः पुंक्लीबः । “वेशन्तः पल्वलोऽल्पम्" इति का हैम: । अल्पं- सरः । पल्वलेभ्योऽल्पजलाशयेभ्यः उत्तीर्णानि-निर्गतानि वराहयूथानि येषु । तानि पल्वलो-त्तीर्णवराहयूथानि । बर्हाणि सन्ति येषां बहिणः । "मयूरो बहिणो बही" इत्यमरः । फलबर्हाभ्यामिनच् प्रत्ययो वक्तव्यः । आ समन्ताद् वसन्ति लोका येषु ते । M आवासाः । आवासानां वृक्षाः आवासवृक्षाः । उत्-ऊर्ध्वं मुखं येषां ते उन्मुखाः । र आवासवृक्षाणां उन्मुखा बहिणो येषु तानि आवासवृक्षोन्मुखबर्हिणानि । * निशादाः बालतृणानि शष्पाणि विद्यन्ते एषु ते शाद्वलाः । 'नडशादाद्वलः' (६।२।७५॥) इति 'श्रीसि०हे०श०' सूत्रेण ङित्वलप्रत्ययः 'नडशादाद् वे(ड्व)लची [४।२।८८॥] इति 'पाणिनीय' सूत्रेण ड्वलचि [शाद्वलः ।] "शाद्वल: शादहरिते शादः । कर्दमशष्पयोः" इति विश्वः । "शष्पकर्दमयोः शादः" इति शाश्वतः । अध्यास्यन्ते स्मेति र - अध्यासिताः। मृग्यन्ते व्याधैरिति मृगाः । मृगैः अध्यासिताः शाद्वलाः येषु तानि. मृगाध्यासितशाद्वलानि । वराहबहिणशष्पादिमलिनिम्नाऽश्यामानि श्यामानि भवन्तीति-श्यामायमानानि १. अभि० चि० चतु० - १०९५ । '२. अम० द्वि० सिंहादिवर्गे - ३२ । antiye ३७ Page #49 -------------------------------------------------------------------------- ________________ ( 'डाच्लोहितादिभ्यः पित्' (३।४।३०।।) इति 'श्रीसिहे०श०' सूत्रेण षित् क्यङ् । * 'लोहितादिडाज्भ्यः क्यष्' [३।१।१३||] इति 'पाणिनीय'सूत्रेण च क्यष् । 'क्यङ्गो न वा' (३।३।४३॥) इति श्रीसिहे०श०' सूत्रेण 'वा क्यषः' [१।३।९०॥] इति 'पाणिनीय'क सूत्रेण चाऽत्मनेपदे शानच् । अथवा श्यामानीवाऽऽचरन्तीति श्यामायमानानि, आत्मनेपदम्, म * तत आनश्, इति व्युत्पत्तौ 'श्रीसिव्हेश०' 'क्यङ्' (३।४।२६।।) इति सूत्रेण क्यङ्, तत - आनशः, 'कर्तुः क्यङ् सलोपश्च' [३।१।११।।] इति 'पाणिनीय'सूत्रेण क्यश् । ततः शानच् । वनानि । पश्यतीति पश्यन् , "शतृशानौ तिप्तेवत्" इति परस्मैपदे शतृप्रत्ययः, पर । सन् । ययौ-जगाम ॥ वाच्यपरिवर्तनं त्वेवम्-तेन पल्वलोत्तीर्णवराहयूथान्या[वा]सवृक्षोन्मुखबहिणानिमृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यता (सता) यये ॥ स दिलीपः प्रत्यावर्तमानः सन्ध्यागमे पल्वलेभ्यो निर्गतानि शूकरयूथानि निशायापनार्थं व चाऽऽवासवृक्षोन्मुखं च गच्छन्तो बर्हिणो(ण)श्च शष्पसाम्येषु सुखं स्थित्वा विश्राम्यमाणान् मृगान् च पश्यन् सन् दृष्ट्वा एतेषां मलिनिम्ना प्रदोषान्धकारेण श्यामायमानानि वनानि M पश्यन् वशिष्ठाश्रमं प्रति जगाम, इति सरलार्थः ॥१७॥ । आपीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः । उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥१८॥ ___आपीनेति । गिरति इति 'गृत्-निगरणे' इतिधातोः 'गो गृष् च' ॥६४९॥ इति को उणादि 'श्रीसि०हे०श०सूत्रेण गृषादेशे तिप्रत्यये च गृष्टिः । गृह्णाति सकृत् गर्भमिति वा का ग्रधातोः तिच्प्रत्यये पृषोदरादित्वात् 'पाणिनीय'मते गृष्टिः । सकृत्प्रसूतिका गौः । “गृष्टिः सकृत्प्रसूतिका" इति हैम:' । 'सकृत्प्रसूता गौः गृष्टि'रिति हलायुधः । इन्दतीति इन्द्रः, नराणामिन्द्रः नरेन्द्रः । उभौ-यथाक्रमम् । आप्यायते स्मेत्यापीनम्, आङ्पूर्वात् 'ओप्यायैङ्* वृद्धौ' धातोः क्ते प्यायः पीत्वे तस्य नत्वे चाऽऽपीनम् । 'आङोऽन्धूधसोः' (४।१।९३॥) इति श्रीसिव्हेश०' सूत्रेण 'प्यायः पी' [६।१।२८॥] इति 'पाणिनीय सूत्रेण च प्यादेशः । * 'डीयशव्यैदितः क्तयोः' (४।४।६१॥) इति 'श्रीसि०हेश०' सूत्रेण 'श्वीदितो निष्ठायाम्' * १. अभि० चि० चतु० १२६८ । ३८ Page #50 -------------------------------------------------------------------------- ________________ [ ७|२|१४|| ] इति 'पाणिनीयसूत्रेण च इग्निषेधे 'सूयत्याद्योदितः' (४/२/७०|) इति 'श्रीसि० हे०श०' सूत्रेण 'ओदितश्च' (८|२|४५ ||) इति 'पाणिनीय' सूत्रेण च तस्य 'नत्वम् । आपीन: पुंक्लीबलिङ्गः । आपीनम् ऊधः । " ऊधस्तु क्लीबमापीनम्" इत्र्त्यमरः । "आपीनमूधः" इति हैमः । आपीनस्य भारः आपीनभारः । उत्- ऊर्ध्वं वहनं उद्वहनम् । आपीनभारस्य उद्वहनम् आपीनभारोद्वहनम् । आपीनभारोद्वहनस्य प्रयत्न: आपीनभारोद्व- हनप्रयत्नः, तस्मात् आपीनभारोद्वहनप्रयत्नात् । वपुषः, उप्यन्ते देहान्तरभोगसाधनबीजभूतानि कर्माण्यत्रेति वप्धातोः उसि वपुस् । “ वपुः शरीरे, प्रशस्ताकारे च" । तस्य वपुषः - शरीरस्य । गुरोः भावः गुरुत्वम्, तस्माद् - गुरुत्वात् - स्थौल्यात् । अञ्च्येते इति पूजार्थक' अञ्च' धातोः कर्मणि वर्तमाने के, ताभ्याम् - अञ्चिताभ्याम् । मन्दमन्दगमनेन प्रशस्ताभ्याम् । गमने इति गते, ताभ्यां गताभ्याम् । तपसः वनं तपोवनम् । तपोवनादावृत्तिः तपोवनावृत्ति: । तपोवनावृत्तेः पन्थाः तपोवनावृत्तिपथ:, तं तपोवनावृत्तिपथम् । 'ऋक्पूः पथ्यपोऽत् (७|३|७६ ||) इति 'श्रीसि० हे० श०' सूत्रेण, समासान्तोऽत् । ऋक्पूरब्धूः पथामानक्षे [ ५/४/७४ || ] इति 'पाणिनीय' सूत्रेण च समासान्तो 'अ' प्रत्ययः । अलञ्चक्रतुः - भूषयामासतुः ॥ वाच्यपरिवर्तनं त्वेवम् गृष्ट्या नरेन्द्रेण च उभाभ्यां आपीनभारोद्वहनप्रयत्नाद् पुष गुरुत्वात् अञ्चिताभ्यां गताभ्यां तपोवनावृत्तिपथ: अलञ्चक्रे ।। सा नन्दिनी महोधोभारात् दिलीपश्च नृपः शरीरभाराद् द्वावपि मन्दं मन्दं गमनेन तपोवनावृत्तिमार्गमलञ्चक्रतुः, इति सरलार्थः ॥१८॥ वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपतिरुपोषिताभ्यामिव लोचनाभ्याम् ॥१९॥ वसिष्ठधेनोरिति । अतिशयेन वसुमान् वसिष्ठः । 'गुणाङ्गाद् [वेष्ठेयसू]' (७|३।९।।) [सि०] इति इष्ठे ‘विन्-मतोर्नि (र्णी) ष्ठे [ यसौ लुप् ] ' [७|४|३२||][सि०] इति मतोर्लुपि 'त्रन्त्यस्वराऽऽदेः' (७|४|४३||) [सि०] इत्यन्त्यस्वरादिलोपे वसिष्ठः । अरुन्धती जायाऽस्येति 'जायाया जानि:' ( ७।३।१६४ | | ) इति [ सि०] सूत्रेण जान्यादेशे अरुन्धतीजानिः । १. अम० द्वि० वैश्यवर्गे - ७४ । २. अभि० चि० चतु० १२७२ । ३९ Page #51 -------------------------------------------------------------------------- ________________ SAI ANTRA "वशिष्ठोऽरुन्धतीजानिः" इति हैम:' । वसिष्ठस्य धेनुः वसिष्ठधेनुः, तस्याः वसिष्ठधेनोः ।। अनुयातीति अनुयायी, तम् अनुयायिनम्-अनुचरम् । वनस्याऽन्तः वनान्तः, तस्माद् । वनान्तात् । आवर्ततेऽसौ आवर्तमानः, तम् आवर्तमानं-प्रत्यागतम् । तं दिलीपम् । वन्यतेसे भज्यते स्म वनिता-सुदक्षिणा । "स्त्री नारी वनिता वधूः, वशा सीमन्तिनी वामा, वर्णिनी महिलाऽबला, योषा योषित् ॥ इति हैम: । 'पच्यते विस्तीर्यते सात्मन्नात्मन्' ॥९९६॥ इति 'औणादिश्रीसि०' सूत्रेण मनि से निपातने, पक्ष्म पुंक्लीबलिङ्गः । “पक्ष्म स्याद् नेत्ररोमणि" इति हैम: । पञ्च्यते इति । * पङ्क्तिः । “राजिर्लेखा ततिर्वीथी, मालाल्यावलिपङ्क्त्यः , धोरणी श्रेणी" इति हैम: । - पक्ष्मणां पतिः पक्ष्मपतिः । निमेषेषु, निमेषणानि निमेषाः । “निमेषस्तु निमीलनम्" इति हैम: । न लसतीत्यलसः अलतीति वा तप्यणि-पन्यल्यधि-रधि-नाभि-नम्यमि-चमि। तमि-चट्यति-पतेरसः ॥५६९।। इति 'औणादिश्रीसि०' सूत्रेणाऽसि अलसः। और "अथाऽऽलस्यः शीतकोऽलसः, मन्दस्तुन्दपरिमृजोऽनुष्णः" इति हैम:६ । अलसा * पक्ष्मपति-र्यस्याः सा निमेषालसपक्ष्मपङ्क्तिः -निर्निमेषा सतीत्यर्थः । लोच्यते आभ्याम् । - लोचने । "चक्षुरक्षीक्षणं नेत्रं, नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैम: । लोचनाभ्यां-करणाभ्याम् । उपवसतः स्मेति उपोषिते, ताभ्याम् उपोषिताभ्यांमा बुभुक्षिताभ्याम् । वसतेः कर्तरि क्तः । उपवासः - भोजननिवृत्तिः । इव । पपौ-पीतवती । की यथोपोषितोऽतितृष्णया जलमधिकं पिबति, तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः । । अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथः चतुर्विधाहारत्यागरूप एव वास्तव उपवासः, न तु फलाहाररूपः इति ज्ञापयति । उपवासो भोजननिवृत्तिरिति व्याख्यानेन च और त्रिधाहारत्यागरूपस्याऽप्युपवासत्वं सङ्गच्छत एव । अनेन जैनमते यत् त्रिधाहारत्यागरूपं । चतुर्विधाहारत्यागरूपं वोपवासरूपं (तत्) सङ्गतिमियति । चतुर्विधाहारत्यागरूप उत्कृष्टः, - त्रिधाहारत्यागरूपो जघन्यः । फलाहारकरणे तु उपवासभङ्गः प्रचुरदोषसम्भवश्च । १. अभि० चि० तृ० ८४९ । २. अभि० चि० तृ० ५०३-४ । ३. अभि० चि० तृ० ५८० । ४. अभि० चि० ष० १४२३ । ५. अभि० चि० तृ० ५७८ । ६. अभि० चि० तृ० ३८३-८४ । ७. अभि० चि० तृ० ५७५ । A ४० Page #52 -------------------------------------------------------------------------- ________________ वाच्यपरिवर्तनं त्वेवम् - वसिष्ठधेनोरनुयायी वनान्तादावर्तमानः सः वनितया । को निमेषालसपक्ष्मपङ्क्त्या सत्या लोचनाभ्यामुपोषिताभ्यामिव पपे । वल्लभस्याऽदर्शनेनाऽधीरा सुदक्षिणा नन्दिन्या सह वनात् प्रत्यागच्छन्तं दयितं विलोक्य ( तृष्णाविस्फारितेन स्वनेत्रयुगलेन प्रियं पतिं निर्भरं ददर्श । यथा कश्चिदुपोषितः पिपासितः * सन् मुहुर्मुहुः मधुरं जलं पीत्वाऽपि न शान्ति प्राप्नोति, तथा सुदक्षिणायाः प्रियतम दर्शनवियोगतापितं नेत्रयुगलमपि सुधावत्प्रियतमरूपं मुहुर्मुहुः दृष्ट्वाऽपि न तृप्ति लेभे, इति । F, सरलार्थः ॥१९॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या । तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥२०॥ ___पुरस्कृतेति । वर्तन्तेऽनेनेति वृत्धातोः 'मन्' ॥११३॥ इति 'उणादिश्रीसि०'| सूत्रेण मन्प्रत्यये वन क्लीबलिङ्गः । “पदव्येकपदी पद्या पद्धतिर्व+वर्तनी । अयनं कर - सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः" इति हैम: । तस्मिन् वर्त्मनि । पृथिव्याः ईशः, | 'पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ् (६।४।१५६।।) इति श्रीसि० 'सूत्रेण अजि पार्थिवः, 'तस्येश्वरः' [५।४।४२॥] इति 'पाणिनीय'सूत्रेण वाऽबि प्रत्यये पार्थिवः । “राजा राट् पृथिवीD, शक्रमध्यलोकेशभूभृतः । महीक्षित् पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः" । इति हैम:२ । तेन म पार्थिवेन । पूर्वे देशे पुरः पुरस्तात् इति 'पूर्वावराधरे[भ्यो]ऽसस्तातौ पुरवधश्चैषाम् । 2- (७।२।११५।।) इति 'श्रीसि०'सूत्रेण 'अस्-अस्तात्' प्रत्ययौ पुरादेशश्च । “पुरः पुरस्तात् । पुरतोऽग्रतश्च(तः)" इति हैम: । कृधातोः कर्मणि क्ते "सिद्धहेम'मते आपि 'पाणि०'| मते टापि च कृता । पुरः कृता पुरस्कृता । धरतीति धृधातोः 'अर्तीरिस्तु-सु-हु-सृ-घृ| धृ-सृ-क्षि-यक्षि-भा-वा-व्या-धा-पा-या-वलि-पदि-नीभ्यो मः ॥३३८|| इति 'उणादि| श्रीसि०' सूत्रेण 'म'प्रत्यये धर्मः । दुर्गतिप्रसृताञ्जन्तून्यस्माद् धारयते ततः । धत्ते चैतान् शुभस्थाने तस्माद् धर्मः इति स्मृतः ।। "धर्मः पुण्यं वृषः श्रेयः सुकृते" इति हैम:' । 'पाणि 'मते धृधातोः मनि हो | १. अभि० चि० चतु० ९८३ । २. अभि० चि० तृ० ६८९-९० । ३. अभि० चि० १० १५२९ । ४. अभि० चि० १० १३७९ । SEN SAR ४१ Page #53 -------------------------------------------------------------------------- ________________ "धर्म: पुंनपुंलि० शास्त्रविहितकर्मानुष्ठानजन्ये, भाविफलसाधनभूते, शुभादृष्टे' । 'यतोऽभ्युदय-' निःश्रेयससिद्धिः स धर्म:' । 'श्रुतिस्मृतिभ्यामुदितं यत् स धर्म' इत्युक्ते श्रौते, स्मार्ते कर्मणि । 'विहितक्रियया साध्यो धर्मः पुंसां गुणो मतः' इत्युक्ते, कर्मजन्ये, अदृष्टे, - आत्मनि । 'देहधारणात्' जीवे, आचारे, वस्त्रगुणरूपे, स्वभावे, उपमायां, यागादौ, अहिंसायां, न्याये, उपनिषदि, यमे, सोमाध्यायिनि, सत्सङ्गे, धनुषि, ज्योतिषोक्ते, लग्नात् नवमस्थाने च; दानादौ नपुं० " । इह तु शुभादृष्टं धर्मो यमोपमापुण्यस्वभावाचारधन्वसुसत्सङ्गेर्हत्यहिंसादौ न्यायोपनिषदोरपि । “धर्मं दानादिके" इत्यनेकार्थसङ्ग्रहः । पातीति पाधातो: 'पातेर्वा' ॥ ६५९॥ इति 'उ० श्रीसि० ' सूत्रेण ङीप्रत्यये नान्तागमे 'च पत्नी । “अथ सधर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या • जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैम: । अथवा 'पाणिनीय' मते [ पत्युर्नो यज्ञसंयोगे ४|१|३३|| इति ] पतिशब्दात् यज्ञसम्बन्धे ङीपि नुकि च पत्नी, पतिकृतयज्ञवत्यां - विधिनोढायां योषिति । 'सिद्धहेममते धर्माय पत्नी, 'पाणि० 'मते च धर्मस्य पत्नी धर्मपत्नी । पार्थिवस्य धर्मपत्नी पार्थिवधर्मपत्नी, तया पार्थिवधर्मपत्न्या । प्रत्युद्गम्यते स्मेति प्रत्युद्गता । सा । धयति एनाम् धेनुः । तयोर्दम्पत्योरन्तरे तदन्तरे - मध्ये । अन्तरे इति सप्तम्यन्तप्रतिरूपकमव्ययम् । " मध्येन्तरन्तरेणान्तरेऽन्तरा" इति हैम: । अथवा 'पा० 'मते अन्तरेति 'इण्' धातोः विचि अन्तरे (रं) यद्वा अनितीत्यन्तरं पुंक्लीबलिङ्गः । 'अनि - काभ्यां तरः ' ॥४३७॥ इति 'उ० श्रीसि० ' सूत्रेण अन्धातो: . 'तर' प्रत्यये अन्तरम् | "मध्यमन्तरे" इति हैम:' । 'पाणि० 'मते तु अन्तं राति - ददातीति, राधातोः कप्रत्यये "अन्तरम् अवकाशे, अवधौ परिधानांशुके, अन्तर्धाने, भेदे, परस्परवैलक्षण्ये, विशेषे, तदर्थे, छिद्रे, आत्मीये, विनार्थे, बहिरर्थे, व्यवधाने, मध्ये, सदृशे च ।" तयोरन्तरं तदन्तरं, तस्मिन् तदन्तरे । दीव्यति रविरत्र द्यति तम इति वा दिनम् । क्षिप्यते इति 'भिदाद्यङ् (दय:)' (५/३/१०८ ||) इति 'श्रीसि० ' सूत्रेण क्षिप्धातोरङि क्षपा । " निशा . निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा त्रियामा यामिनी भौती तमी तमा विभावरी रजनी. १. अनेकार्थसङ्ग्रहे द्वि० ३२० । ३. अभि० चि० ष० १५३८ । २. अभि० चि० तृ० ५१२-१३ । ४. अभि० चि० ष० १४६० । ४२ Page #54 -------------------------------------------------------------------------- ________________ स वसतिः श्यामा वासतेयी तमस्विनी उषा दोषेन्दुकान्ता" इति हैमः । यद्वा 'पा०'मते । क्षपयति चेष्टामिति क्षैधातोः णिचि पुकि च क्षपा रात्रौ । दिनं च क्षपा च दिनक्षपे । 'मबन्धने' मव्यत इति 'शिक्यास्याढ्य-मध्य-विन्ध्य-धिष्ण्याघ्न्यहर्म्य-सत्य-नित्यादयः' ॥३६४॥ इति 'उणादिश्रीसि० 'सूत्रेण वस्य धेयान्ते (धत्वे) च निपातने मध्यम् । 1 "मध्यमन्तरे" [इति हैम:२] । स्वरभेदेऽपि "ते मन्द्र-मध्य-ताराः स्युरुरःकण्ठशिरोद्भवाः" * इति हैमः। दत्तिलोऽपि आहनृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनिः । स एव कण्ठे मध्यः स्यात्तारः शिरसि गीयते ॥१॥ मध्यं लयविशेषः । “द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात्" इति हैम: । एक भागुरिरप्याऽऽह-"लम्बितद्रुतमध्यानि तत्त्वौघानुगतानि तु ।" इति । मव्यते बध्यते मे स्वराद्यत्र मध्यः । “मध्योऽवलग्नं विलग्नं मध्यमः" इति । 0 हैम:५। 'पाणि०'मते तु मन्धातोः यकि नस्य धे च निरुक्तेः मध्यं पुं० न० । * "देहस्याऽवयवभेदे, नृत्यादौ, मन्दत्वशीघ्रत्वभिन्ने, व्यापारभेदे, पूर्वापरसीमयोरन्तराले, पराय॑सङ्ख्यातोऽर्वाचीनायां सङ्ख्यायां, न० तत्सङ्ख्याते च" । “अन्त्यं मध्यं परायं कर चे" ति लीलावती । "ज्योतिषोक्ते, ग्रहाणां गतिभेदे स्त्री०, तद्वति ग्रहे पु०, न्याय्ये, * अन्तवर्तिनि च त्रिलि०" । "मध्यं न्याय्येऽवलग्ने अन्तर्" इति अनेकार्थसंग्रहः६ । इह - त्वन्तः दिनक्षपयोर्मध्यं दिनक्षपामध्यम् । गम्यते स्मेति गता । दिनक्षपामध्यं गता * दिनक्षपामध्यगता । सन्ध्यायन्त्यस्यामिति, यद्वा सज्येते सन्धीयेत अहोरात्रावस्यामिति सञ्धातोः 'सञ्जेर्धन च' ॥३५९॥ इति 'उ० श्रीसि०' सूत्रेण यप्रत्ययो धोऽन्तादेशश्चेति सन्ध्या । “सन्ध्या तुम * पितृसूः" इति हैमः । यद्वा "पा० मते सम्पूर्वात् ध्यैधातोरङि सन्धिः । सन्धिशब्दात् । १. अभि० चि० द्वि० १४१-४२-४३ । २. अभि० चि० ष० १४६० । * ३. अभि० चि० १० १४०२ । ४. अभि० चि० द्वि० २९२ । ५. अभि० चि० तृ० ६०७ । ६. अनेकार्थसङ्ग्रहे द्वि० ३६५ । ७. अभि० चि० द्वि० १४० । R ४३ Page #55 -------------------------------------------------------------------------- ________________ 'भवार्थे यति वेति' सन्ध्या । एकरूपकालोत्तर भाविपररूपकालस्याऽवकाशे, दिवारात्रस्यमध्यवर्त्तिकाले, स च दिवाशेषदण्डसहितरात्रिप्रथमदण्डात्मकः कालः । तयोश्चतुर्दण्डात्मक कालश्च । "त्रियामां रजनीं प्राहुस्त्यक्त्वाऽऽद्यन्तचतुष्टये । नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते" ॥ इति स्मृतिः । 44 “ अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः । सा च सन्ध्या समाख्याता" ॥ इति स्मृतिः । सायाह्ने सन्ध्याकाले उपास्यदेवताभेदे । तदुपासना-याञ्चा । " सन्ध्यामुपासते ये तु नियतं शंसितव्रताः ॥” इति स्मृतिः । “प्रातः सन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत्" इति स्मृतिः । चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च प्रकीर्तितः ॥ इत्युक्ते, युगसन्धिकाले, नदीभेदे, ब्रह्मपत्नीभेदे, चिन्तायां, संश्रवे, सीमायां, सन्धाने, च । अत्र तु दिवारात्रस्य मध्यकालः सन्ध्या । इव - 'इवि - व्याप्तौ' धातोः कप्रत्यये इव अव्ययं, सादृश्ये उत्प्रेक्षायां ईषदर्थे वाक्यालङ्कारे च । इह तु उत्प्रेक्षायाम् । विरराज - शुशुभे ॥ वाच्यपरिवर्तनं त्वेवम् -वर्त्मनि पार्थिवेन पुरस्कृतया पार्थिवधर्मपत्न्या च प्रत्युद्गतया - तया धेन्वा तदन्तरे दिनक्षपामध्यगतया सन्ध्ययेव विरेजे || मार्गे महिषी धेनोरग्रतः पश्चात् दिलीपश्च यथा दिननिशयोः मध्ये स्थिता (किसलयरागारुणा) सन्ध्या चकास्ति तथैव तयोः सुदक्षिणादिलीपयोर्मध्येऽवस्थिता नन्दिन्यपि' . दिदीपे, इति सरलार्थः ॥२०॥ प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवाऽर्थसिद्धेः ॥ २१ ॥ प्रदक्षिणीकृत्येति । न क्षप्यन्ते इत्यक्षता: पुंक्लीबलिङ्गः । पुंसि अयं बहुचनान्त: ४४ Page #56 -------------------------------------------------------------------------- ________________ cmom "लाजाः स्युः पुनरक्षताः" इति हैम: । पाति-रक्षति आधेयं, पीयतेऽस्मादिति वा पात्रं त्रिलिङ्गः । “पात्रामत्रे तु भाण्डम्(भाजन)" इति हैम: । पिबन्ति अनेन पात्रम् । 'नी दाव्-शस्-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट (५।२।८८।) इति 'श्रीसि०'र सूत्रेण त्रट्, 'पा०'मते पाधातोष्ट्रन् । "पात्रं स्रुवादिकम्" इति हैम: । पीयते इति पात्रं । प्रवाहः त्रिलिङ्गः । “पात्रं तदनन्तरम्" इति हैम: । पान्ति स्वभूमिकामिति पात्राणि 'त्र' ॥४४६।। इति 'उणादिश्रीसि०'सूत्रेण पाधातोः त्रट् । “पात्राणि नाट्येऽधिकृताः" इति । हैम:५ । पापात् त्रायते इति निरुक्तिवशात् पात्रम् । “पात्रं जलाद्याधारे, भोजनयोग्येऽमत्रे, म * ज्ञानचरणयुक्ते, दानयोग्ये, मुनौ, यज्ञीये, स्रुवादौ, तीरद्वयमध्यवर्तिनि जलाधारस्थाने, * A नाटकेऽभिनये, नायकादौ च नपुंसकः" । अत्र तु पात्रममत्रम् । अक्षतानां पात्रम् अक्षतपात्रम् । अक्षतपात्रेण सह वर्तेते इति साक्षतपात्रौ । हसतीति हस्तः-'दम्यमि-तमि-मा-वा-पू-धूग-ज-हसि-वस्यसि वितसि मसीण्भ्यस्तः' ॥२००।। इति '[ उ]श्रीसि०' सूत्रेण 'हसेहसने'धातोः 'ते' हस्तः-नक्षत्रविशेषः । “हस्तः सवितृदेवतः" [इति हैम:६] । हसत्यनेन । हस्तः पुंक्लीबलिङ्गः । हसद्भिः मुखे दीयते वा हस्तः । “पञ्चशाखः शयः शमः हस्तः पाणिः करः" इति हैम: । "हस्तः प्रामाणिको मध्ये मध्यमाङ्गलिक:(कूप)रम्" इति । हैम: । हस्तोऽङ्गुलविंशत्या चतुरन्वितया इति तदर्थः । "चतुर्विंशत्यङ्गलानां हस्तः" इति । । हैम: । हस्यतेऽनेन इति हस्तः । "हस्तिनासा करः शुण्डा हस्तः" इति हैम:१० । अत्र है हस्तक्रियाकारित्वात् हस्तः । 'पाणिनीय'मते तु हस्धातोः तनि हस्तः पुं० । "हस्तः । - देहावयवभेदे चतुर्विंशत्यङ्गुलपरिमाणे" । 'यवोदरैरङ्गलमष्टसङ्ख्यैः हस्तोऽङ्गलैः षड्गुणितैश्चतुर्भिः' इति लीलावती । हस्तिशुण्डे च, अश्विन्यादिषु त्रयोदशे नक्षत्रे पुं० स्त्री० 'जाह्नवी हस्तयोगे' इति । पुराणम् । 'पुष्पा हस्ता तथा स्वातिः' इति ज्योतिषम् । समूहे च यथा केशहस्तः । अत्र १. अभि० चि० तृ० ४०१ । २. अभि० चि० च० १०२६ । ३. अभि० चि० त०८२८ । ४. अभि० चि० च० १०७९ । ५. अभि० चि० द्वि० ३२७ ६. अभि० चि० द्वि० ११२ । ७. अभि० चि० तृ० ५९१ । ८. अभि० चि० तृ० ५९९ । ९. अभि० चि० तृ० ८८७ । १०. अभि० चि० च० १२२४ । F Page #57 -------------------------------------------------------------------------- ________________ - तु देहावयवभेदो हस्तः । साक्षतपात्रौ हस्तौ यस्याः सा साक्षतपात्रहस्ता । अथवा अक्षतैः सह वर्तमानं साक्षतम् । साक्षतं पात्रं हस्तयो: यस्याः सा साक्षतपात्रहस्ता । यदि वा सा इति व्यस्तं, अक्षतपात्रं हस्तयो: यस्याः सा अक्षतपात्रहस्ता । सा सुदक्षिणा । प्रशस्तं पयोऽस्त्यस्याः सा पयः शब्दात् प्रशस्ते विनि ङीपि च पयस्विनी, तां पयस्विनीम् - प्रशस्त क्षीराम् । तां धेनुम् । प्रदक्षिणीकृत्य - परिक्रम्य । प्रणम्य च । अस्याः धेन्वाः 'वेर्विशाशङ्कटौ (७|१|१२३ ॥ ) इति 'श्रीसि० 'सूत्रेण विशालं विशङ्कटं . साधू । “विशालं तु विशङ्कटम्, पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं, विस्तीर्णं ततं बहु महद् गुरु" इति हैमः । "विशङ्कटं पृथु बृहत् विशालं पृथुलं महत्" - इत्यमरेः । शृणातीति शृङ्गम्- 'शृङ्गशार्ङ्गादय: ॥ ९६ ॥ इति ' उणादिश्रीसि० 'सूत्रेण शृधातोर्गान्तो निपातः । “विषाणं कूणिका शृङ्गम्" इति हैमः । शीर्यते निर्घातेनेति वा शृङ्गम्- शिखरम् । " शृङ्गं तु शिखरं कूटम्" इति हैमः । अथवा शृधातोर्गाने पृषोदरादित्वान्मुमागमे ह्रस्वे च "शृङ्गं न० पर्वतोपरिभागे, प्राधान्ये, चिह्ने, जलक्रीडार्थयन्त्रभेदे, 'पीचकारी' ति लोकप्रसिद्धे, कामोद्रेके, पश्वादेर्विषाणे, महिषशृङ्गनिर्मितवाद्यभेदे, उत्कर्षे, ऊर्ध्वे, तीक्ष्णे, . पद्मे च; कूर्चशीर्षकवृक्षे च पुं०" । अत्र तु शृङ्गं विषाणम् । शृङ्गयोरन्तरं शृङ्गारन्तम्,. शृङ्गमध्यदेशं ललाटपट्टमिति यावत् । अर्यतेऽसौ अर्थ: । 'कमि-प्रु-गार्तिभ्यस्थः ' ॥२२५॥ इति 'उणादिश्रीसि० ' सूत्रेण ऋधातोः थः । अथवा अर्थ्यते इति अर्थ: । "कार्यं स्यादर्थः कृत्यं प्रयोजनम्" इति हैम:' । अथवा 'अर्थ - याचने' अदादिः चुरादि: आत्म० द्वि० सेट्, अर्थयते आर्तिथत् - मतान्तरे अर्थापयते आर्तथापत इति " अर्थ: पुंभावकर्मादौ यथायथं अच्विषये, अभिधेये, धने, वस्तुनि, प्रयोजने, निवृत्तौ हेतौ प्रकारे, अभिलाषे, उद्देश्ये तु" । अत्र तु प्रयोजनमुद्देश्यमित्यादि यथायोगम् । " १. अभि० चि० ष० १४२९-३० । ३. अभि० चि० च० १२६४ | ५. अभि० चि० ष० १५१४ । २. अम० तृ० विशेष्यनिघ्नवर्गे-५८ । ४. अभि० चि० च० १०३२ । ४६ Page #58 -------------------------------------------------------------------------- ________________ सिद्ध्यति अस्यामिति सिद्धिः । अथवा सेधनं सिद्धिरिति सिध्धातो: क्तिनि(तौ) “सिद्धिः ऋद्धिनामौषधे, (दुर्वायाम्) योगेभेदेऽन्तर्धाने, निष्पत्तौ, पाके, पादुकायां, मोक्षे, वृद्धौ, सम्पत्तौ, अणिमाद्यष्टविधैश्वर्ये, बुद्धौ, साध्यवत्तया निश्चये, दक्षकन्याभेदे च ।" अत्र - तुः निष्पत्ति: । अर्थस्य सिद्धिः अर्थसिद्धिः, तस्याः अर्थसिद्धेः- कार्यनिष्पत्तेः । उभ्यते पूर्यते इति द्वारम् । 'द्वार - शृङ्गार-भृङ्गार-कल्हार- कान्तार- केदार- खारडादयः ॥४११॥ इति 'उणादिश्रीसि० ' सूत्रेण 'उम्भत् पूरणे' इतिधातोः द्वादेशे आरप्रत्यये च - द्वारम् । द्वारयतीति वा तत्र द्वारम् । " वलजं प्रतीहारो द्वार्द्वा रे" इति हैम:' । 'पाणि० 'मतेतु द्वारं न० । द्वृधातोर्णिचि अचि च " द्वारं गृहादिनिर्गमनस्थाने, प्रतीहारे, उपाये, मुखे च" । 'अत्र तु द्वारं प्रवेशमार्गम् । इव । आनर्च - अर्चयामास - पूजयामास इति यावत् । अर्चते: _ भौवादिकात् परोक्षा, 'पाणि० ' मते लिट् ॥ वाच्यपरिवर्तनं त्वेवम्-साक्षतपात्रहस्तया सुदक्षिणया तां पयस्विनीं प्रदक्षिणीकृत्य प्रणम्य चाऽस्या विशालं शृङ्गान्तरमर्थसिद्धेः द्वारमिवाऽऽनर्थे । ततः सुदक्षिणा तन्दुलादिसहितमर्घभाजनमादाय शुभ्रक्षीरां तां गां प्रथमं प्रदक्षिणक्रिययासन्मानितां चकार; पश्चाच्च तां प्रणम्याऽर्थसिद्धेः प्रवेशमार्गमिव तस्याः शृङ्गयोः मध्यस्थानमर्घ्यदानेन पूजितवती, इति सरलार्थ: ॥२१॥ वत्सोत्सुकाऽपि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरः फलानि ॥२२॥ वत्सेति । सा धेनुः । वदति मातरं दृष्ट्वेति वत्सः । ' मा - वा- वद्यमि-कमि• हानि - मानि - कष्यशि- पचि - मुचि- यजि-वृ-तृभ्यः सः ॥५६४ ॥ इति 'उणादिश्रीसि० ' सूत्रेण वदिधातोः से वत्सः । " वत्सः शकृत्करिस्तर्णः" इति हैमः । वदत्यनेनेत्यपि वत्सः पुंक्लीबलिङ्गः । " क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् इति हैम: १. अभि० चि० च० १००४ । २. अभि० चि० च० १२६० । २. अभि० चि० तृ० ६०२ । ܕ ४७ " Page #59 -------------------------------------------------------------------------- ________________ - - R-C V he - उत्सुमद्गतं मनो अस्य उत्सुकः । 'उदुत्सोरुन्मनसि' (७।१।१९२॥) इति 'श्रोसि०'सूत्रेण * उत्सुशब्दात् अस्येत्युन्मनस्यभिधेये कप्रत्यये उत्सुकः । "उत्कस्तूत्सुकः उन्मनाः उत्कण्ठितः" - इति हैम:' । 'पाणिनीय'मते तु उत्सुकस्त्रिलिङ्गः । उत्पूर्वात् सूधातोः क्विप्कनि हुस्वे और उत्सुकः । “इष्टार्थसंपादनायोद्युक्ते, अभीष्टो गमिष्यतीति उत्कण्ठान्विते च ।" वत्से उत्सुका का * वत्सोत्सुका । अपि अव्ययम्-न पीयति गच्छतीति 'पि-गतौ' धातोः क्विप् , न तुक् । "अशक्यकरणायोद्यमरूपायां, शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिरूपायां वा, संभावनायां, स्नेहे, असे निन्दायां, प्रश्ने, समुच्चये, अल्पपदार्थे, कामचारानुज्ञायाम्, अवधारणे, पुनरर्थे च" । अत्र की का तु पुनरर्थे । स्ववत्सदर्शनोत्कण्ठिताऽपि । स्तिम्यति स्मेति स्तिमिता । "तिमिते और र स्तिमितक्लिन्नसार्दा दोन्नां समुत्तवत्" इति हैम: । 'पाणि 'मते तु 'स्तिमित' नपु०लिङ्गाः । * स्तिम्धातोः भावे क्तः । "आर्द्रतायाम्, अचाञ्चल्ये च" । कर्तरि क्तः, “अचञ्चले आर्द्र च त्रिलिङ्गः" अत्र त्वचञ्चलार्थः । स्तिमिता-निश्चला सती। 'सपर्-पूजायाम्' इति कण्ड्वादिधातोः 'धातोः कण्ड्वादेर्यक्' (३।४।८।।) इति का - 'श्रीसि०' सूत्रेण यकि 'शंसिप्रत्ययात्' (५।३।१०५।।) इति 'श्रीसि०' सूत्रेण 'अ'प्रत्यये पर - आपि सपर्या । “पूजार्हणा सपर्याऽर्चा" इति हैम: । "पूजा त्वपचितिः" इति हैमशेषः । "पूजा नमस्याऽपचितिः सपर्याऽर्चाहणाः समाः" इत्यमरः । 'पा०'मते तु सपर्धातोः * यकि अप्रत्यये टापि च सपर्या पूजायाम् । “सोऽहं सपर्याविधिभाजनेने"ति अग्रे रघौ । [सर्ग-५ श्लो०२२] । ताम् सपर्याम्-पूजाम् । प्रत्यग्रहीत्-स्वीचकार । इण्धातोः क्तिचि । * इतीति अव्ययं, "हेतौ, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, स्वरूपे, * - सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्शे, माने, इत्थमर्थे, और , प्रकर्षे, उपक्रमे च ।" अत्र तु हेतुरर्थः । इति-हेतोः । वत्सावलोकनौत्सुक्येऽपि निश्चलभावेन * पूजास्वीकारात् हेतोः इति भावः । १. अभि० चि० तृ० ४३६ । २. अभि० चि० ष० १४९२ । ३. अभि० चि० तृ० ४४७ । ४. अभि० चि० हैमशेषे -१०५ । * ५. अम० द्वि० ब्रह्मवर्गे -३७ । ४८ Page #60 -------------------------------------------------------------------------- ________________ तौ-दम्पती । ननन्दतुः -आनन्दं प्रापतुः । पूजास्वीकारस्य आनन्दहेतुत्वमाह । * 'हि वर्धने गतौ च' स्वादिः पर० सक० अनिट् । हिनोति अहैषीत् । हाधातोः हिधातोर्वा 5 अप्रत्यये हि- अव्ययं, "हेतौ, अवधारणे, विशेषे, प्रश्ने, संभ्रमे, हेतूपदेशे, शोके, असूयायां, न D, पादपूरणे, च" । अत्र तु हेतौ हेतूपदेशार्थे वा हि । भजनं भक्तिः । “अथ सेवा भक्तिः परिचर्या प्रसादना शुश्रूषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः उपचारः" इति हैमः । “पर्येषणा - परीष्टिश्च" (श्राद्धे द्विजशुश्रूषा) इत्यमरः । पूज्येषु अनुरागो भक्तिः । 'पाणि 'मते भज्धातोः . भक्तिनि "भक्तिः" स्त्रीलिङ्गः, “सेवायां, आराधनायां, तदेकाग्रचित्तवृत्तिभेदे, विभागे, गौण्यां वृत्तौ, उपचारे, अवयवे, भङ्ग्यां, श्रद्धायां, स्वनायां च" । "भवति विरलभक्तिः" इत्यग्रे - रघौ [सर्ग-५ श्लो०९४], भक्तिशब्दसम्बन्धेन भक्तिरेव योगः भक्तियोगः । तदेकाग्रता* रूपचित्तवृत्तिरूपे योगे । एवमेव भक्तिरेव रसः भक्तिरसः- आस्वाद्यः भक्तिरूपे, * म ध्येयानुभवात्मके, रतिभेदे । | अत्र भक्तिशब्दप्रस्तावात् प्रासङ्गिकं जिनशासनप्रतिपादितं भक्तिस्वरूपं कथ्यते* तत्राऽर्हद्विषया भक्तिः कभिप्रायभेदेन सात्त्विकी राजसी तामसीति भेदात् त्रिविधोच्यते । तत्स्व रूपं चेदम् सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादर्हतो भवेत् ॥१॥ अर्हत्सम्यग्गुणश्रेणी-परिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ॥२॥ अर्हत्सम्बन्धिकार्यार्थं सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् क्रियते या निरन्तरम् ।।३।। भक्तिः शक्त्यनुसारेण निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद् भक्तिर्लोकद्वयफलावहा ॥४॥ (त्रिभिर्विशेषकम्) (विचारामृतसङ्ग्रहे प्रथमपदे श्लो० १९७-२००) १. अभि० चि० तृ० ४९६-९७ । २. अम० द्वि० ब्रह्मवर्गे -३४ । Page #61 -------------------------------------------------------------------------- ________________ यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थं राजसी भक्तिरुच्यते ।।५।। द्विषतां तत्प्र(द्विषदापत्प्र)तीकारभिदे(कृते) या कृतमत्सरम् । दृढाशयं(यात्) विधीयेत सा भक्तिस्तामसी भवेत् ।।६।। रजस्तमोमयी भक्तिः सुप्रापा सर्वदेहिनाम् । दुर्लभा सात्त्विकी भक्तिः शिवावधि फलावहा ।।७।। उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेया नाऽऽदृता तत्त्ववेदिभिः ॥८।। (इति विचारामृतसङ्ग्रहे श्लो० १-४) अर्हद्भक्तिफलमेवम् भत्तीए जिणवराणं खिज्जति पुव्वसंचिता कम्मा । आयरियनमुक्कारेण विज्जामंताइ सिझंति ॥१॥ इति साध्वी अर्हद्भक्तिः । वस्तुतोऽभिलषितार्थसाधकत्वात्, आरोग्यबोधिलाभादेरपि पावर तन्निर्वर्त्यत्वात् । तथा चाऽऽह भत्तीइ जिणवराणं परमाइ खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावंति ।।१।। (इत्यावश्यकचतुर्विंशतिस्तवाध्ययननिर्युक्तौ) अत्र तामस्या एव भक्तेरनादरणीयत्वोक्त्या तथाविधावस्थाकाले परम्परया सात्त्विकीहेतुतया मोक्षप्रयोजकत्वेन जिनोक्तमिति सद्बुद्ध्या क्रियमाणा किञ्चित्फलोद्देशवत्यपि राजसी भक्तिः श्रीपालादीनामिव विधेयत्वेनैव ध्वनिता । उत्तमाऽनुसात्विक्येव सैव मोक्षप्रापिका। भक्तिः सेवायाम् । 'भक्तिः विनयः सेवे'ति नवमषोडशकविवरणे। भक्तिरभिमुखगमनासनप्रदानपर्युपास्त्यञ्जलिबन्धानुव्रजानादिलक्षणे'ति प्रवचनसारोद्धारैकशताष्टचत्वारिंशद्वारवृत्तौ । BAHE Na | Rel Page #62 -------------------------------------------------------------------------- ________________ "अब्भुट्ठाणदंडग्गहणपायपुंछणासणपयाणगहणादीहिं सेवा जा सा भत्ती भवइ''त्ति है म निशीथचूर्णौ । 'भक्तिः उचितप्रवृत्त्या विनयकरणे' इति आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ । 'विनयवैयावृत्त्यादिरूपा प्रतिपत्तिर्भक्ति'रिति धर्मसङ्ग्रहद्वितीयाधिकारे । 'यथोचितबाह्यप्रतिपत्तौ' आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ गच्छाचारवृत्तौ । धर्मरत्नवृत्तौ च । __ 'भक्तिरुचितोपचारः' इति दशवैकालिकनवमाध्ययनप्रथमोद्देशकवृत्तौ । 'अभ्युत्थानादिरूपे बहुमाने' इत्युत्तराध्ययनप्रथमाध्ययनपाइयटीकायाम् । 'भत्ती आयरकरणं जहोचियं जिणवरिंदसाहूणं' इति संस्तारकप्रकीर्णके । 'अनुरागे भक्तिः' इति धर्मसंग्रहप्रथमाधिकारे । 'अन्तःकरणादिप्रणिधाने भक्तिः' इति आवश्यकद्वितीयाध्ययने दर्शनशुद्धौ च । 'भक्तिः स्याद्गुरुदेवादी' इति वचनात्तु गुरुदेवादिविषयिणी इच्छा भक्तिः । अनुष्ठानचतुष्टये प्रीतिभक्तिवचनासङ्गात्मके तु भक्तिविशेषितानुष्ठानस्वरूपमिदम् गौरवविशेषयोगाच्छुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥१॥ (षोडशक० १०-४) इतरतुल्यमपीति प्रीत्यनुष्ठानसदृशमपि, तत्स्वरूपं च यथा यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः ।। शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥१॥ (षोडशक० १०-३) प्रीतिभक्त्योरियान् विशेषो दृष्टान्तद्वारेण अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ॥१॥ (षोडशक० १०-५) ५१ Page #63 -------------------------------------------------------------------------- ________________ ऎवं पात्रात्मिकायां सप्तक्षेत्र्यां धनं वपन् । दयया चाऽतिदीनेषु महाश्रावक उच्यते ।। (इति योगशास्त्रे -३-११९) एवं च वाचकवर्या अपि दानभेदयोरनुकम्पा-भक्तिविशेषितयोः स्वरूपमेवाऽऽ चख्युः ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ॥१॥ अनुकम्पाऽनुकम्प्ये स्याद्भक्तिः पात्रे तु सङ्गता । अन्यथाधीस्तु दातॄणामतिचारप्रसञ्जिका ॥२॥ भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः । तया दत्तं सुपात्राय बहुकर्मक्षयक्षमम् ॥२०॥ शुद्धं दत्त्वा सुपात्राय सानुबन्धशुभार्जनात् ।। सानुबन्धं न बध्नाति पापं बद्धं च मुञ्चति ॥२२।। भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्याऽपि दानं हि द्वयोर्लाभाय नाऽन्यथा ॥२३॥ अथवा यो गृही मुग्धो लुब्धकज्ञातभावितः । तस्या तत्स्वल्पबन्धाय बहुनिर्जरणाय च ॥२४|| इत्थमाशयवैचित्र्यादत्राऽल्पायुष्कहेतुता । युक्ता चाऽशुभदीर्घायुर्हेतुता सूत्रदर्शिता ।।२५।। यस्तूत्तरगुणाशुद्धं प्रज्ञप्तिविषयं वदेत् । तेनाऽत्र भजनासूत्रं दृष्टं सूत्रकृते कथम् ॥२६॥ शुद्धं वा यदशुद्धं वाऽसंयताय प्रदीयते । गुरुत्वबुद्ध्या तत्कर्मबन्धकृन्नाऽनुकम्पया ॥२७॥ अतः पात्रं परीक्षेत दानशौण्डः स्वयं धिया । तत्रिधा स्यान्मुनिः श्राद्धः सम्यग्दृष्टिस्तथा परः ।।२९।। १. "एवं व्रतस्थितौ भक्त्या" । म ५२ Page #64 -------------------------------------------------------------------------- ________________ एतेषां दानमेतत्स्थगुणानामनुमोदनात् । औचित्यानतिवृत्त्या च सर्वसम्पत्करं मतम् ॥३०॥ शुभयोगेऽपि यो दोषो द्रव्यतः कोऽपि जायते । कूपज्ञातेन स पुनर्नाऽनिष्टो यतनावतः ||३१|| धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि । अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु ॥३॥ इत्थं दानविधिज्ञाता धीरः पुण्यप्रभावकः । यथाशक्ति ददद्दानं परमानन्दभाग्भवेत् ||३२|| (द्वात्रिंशद्वात्रिंशिकायां दानद्वात्रिंशिका ) एवं भक्तिदानादिस्वरूपं सर्वज्ञशासनातिरिक्ते नोपलभ्यते । पुनश्च देवविषयिण्या भक्तेः पञ्चविधत्वं उपदेशतरङ्गिण्यां प्रतिपादितम् पुष्पाद्यर्चा तदाज्ञा च तद्द्द्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने ॥१॥ भक्तिः श्रीवीतरागे पञ्चप्रकारा भवति । प्रथमा पुष्पादिपूजा, आदिशब्दान्मुक्ताफलहारकनकमयछत्राद्याभरणानि चटाप्यन्ते । आभरणपूजा हि शाश्वती । यदुक्तम् ग्लायन्ति पुष्पनिचयाः प्रहरार्धकेन वैगन्ध्यमेति दिवसेन कृतोऽङ्गरागः । जीर्यन्ति रम्यवसनान्यपि भूरिवर्षैर्नो जीर्यते युगशतैर्जिनरत्नपूजा ||२|| सप्तलक्षणमनुष्यकलिते श्रीवस्तुपालसङ्घ श्रीअनुपमदेव्या श्रीगिरनारे नीरप्रक्षालितस्वमलैः द्वात्रिंशद्द्रम्मलक्षाभरणैः श्रीनेमीश्वरः पूजितः, तदनुकोटिपुष्पैः । यदुक्तम्द्वात्रिंशता द्रम्मलक्षैरेकदा रैवताचले । मीश्वरस्याऽनुपमा पूजां चक्रे प्रमोदतः ॥३॥ जिनभक्तिहृष्टचेतसा तेजः पालेन द्वात्रिंशल्लक्षटङ्ककैस्तानि पुनर्नव्यानि कारितानि । ५३ Page #65 -------------------------------------------------------------------------- ________________ पुनरपि शत्रुञ्जये तैराभरणैः मन्त्रितेजःपालधर्मपत्न्याऽनुपमदेव्या श्रीऋषभदेवप्रतिमा पूजिता, पर तदा देवरपत्नीकृताभरणपूजां विलोक्य मन्त्रिवस्तुपालधर्मपन्त्या ललितादेव्याऽपि द्वात्रिंश- लक्षटङ्ककाभरणैः पूजिता, शोभनादास्या लक्षटङ्कमूल्यस्वाभरणैः पूजिता । वस्तुपालमन्त्रिणा और की सर्वासामधिकमूल्यानि (आभरणानि) कारितानि । एवं देवगिरीय-सङ्घपतिधाइदेवेन * मुक्ताफलप्रवालचुन्नीसुवर्णपुष्पादिभिः श्रीऋषभदेवप्रतिमाया आङ्गी कृता, तदनु नवल क्षचम्पकाएं । तथा 'जिनाज्ञा' सम्यग्मनसा पालनीया । तथा 'देवद्रव्यरक्षा-वृद्धिकरणं' से जिनपूजैव । यदुक्तम् वड्ढतो जिणदव्वं तित्थयरत्तं लहइ जीवो । भक्खंतो जिणदव्वं अणंतसंसारिओ भणिओ ।।१।। भक्खणे देवदव्वस्स परत्थीगमणेण य । सत्तमं नरयं जंति सत्तवाराउ गोयमा ॥२॥ चेइयदव्वविणासे रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥३।। तथाऽष्टाह्निकास्नात्रोत्सवश्रीपर्युषणाकल्पचरित्रपुस्तकवाचनप्रभावनोत्सवाः क्रियन्ते, - साऽपि जिनशासनोन्नतिहेतुत्वाज्जिनभक्तिरेव । यतः - प्रकारेणाऽधिकां मन्ये भावनातः प्रभावनाम् । भावना स्वस्य लाभाय स्वान्ययोस्तु प्रभावना ॥१॥ एवं तीर्थयात्रोत्सवादिः । इत्यादिप्रकारैः पुण्यवता जिनभक्तिः कार्या । इति उपदेशतरङ्गिणीटीकायाम् । आभरणपूजाया विशेषनिर्जराहेतुत्वं व्यवहारभाष्ये - पासाईया पडिमा लक्खणजुत्ता समत्तलंकारा । जह जह पल्हायइ मणं तह तह णिज्जमो वियाणाहि ।।१।। सूत्रेऽपि 'आभरणारुहणं'ति । अतः सालङ्कारा मूर्तिः विशेषनिर्जराहेतुरिति तु निष्कर्षः । ५४ Page #66 -------------------------------------------------------------------------- ________________ FAAAA म न्यायाचार्यैरपि प्रमाणनयतत्त्वालोकालङ्कारे ‘पश्य पुरः स्फुरत्किरणमणिखण्ड, मण्डिताभरणभारिणी जिनपतिप्रतिमा'मित्युक्तमिति । - 'मणिमोत्तियदामएहि' इत्याद्याप्तोक्तेश्च जम्बूद्वीपप्रज्ञप्तौ निर्वृतभगवच्छरीरस्य पूजाकालीनावस्थात्रिकभावनास्वरूपप्रतिपादने स्तवानुलेपनाभरणादिविधानेन रात्रावपि गौतमादेभगवत्समीपावस्थानोपदेशः तच्चैत्यावस्थाननिषेधादिसूचितभावकल्पबिम्बकल्पभिन्नतया चम कथं वीतरागावस्थे विचरति भावार्हति न विहितं भूषणरोपणादिकं तद्विम्बे कार्यमित्यारेकाकणोऽपि न विधेयः । दिगम्बरनिरासप्रस्तावे आभरणविषयकचर्चाविस्तरस्तु सम्मतेरवसेयः । देवगुरु| विषयिणी भक्तिस्तु सम्यक्त्वं भूषयतीति सम्यक्त्वभूषणपञ्चके भक्तिनामाऽपि तृतीयं भूषणम् । यो | पूज्यपादैरपि यथार्थभक्तिस्वरूपं प्रतिपादयद्भिरेवं द्वात्रिंशिकायां वर्णितम् - "सम्यग्दृष्टिपरिगृहीतानि मिथ्यादृक्श्रुतान्यपि सम्यक्त्वेन परिणमन्ती"ति । सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ! । श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धः स एव सः ॥१॥ इति गीतावचनतात्पर्यविचारणया अर्हदुपासक एवाऽर्हन् भवितुमर्हति, नाऽन्यः, म अत एव 'वाल्मीकीप्रणीते योगवासिष्ठे'ऽपि श्रीरामचन्द्रेण सुध्यातं यत् नाऽहं रामो न मे वाञ्छा भावेषु न च मे मनः ।। शान्त आसितुमिच्छामि स्वात्मन्येव जिनो यथा ॥१॥ इति । पदार्थमात्ररसिकस्ततोऽनुपकृतोपकृत् । अमूढलक्षो भगवान् महानित्येष मे मतिः ॥१॥ अर्हमित्यक्षरं यस्य चित्ते स्फुरति सर्वदा । परं ब्रह्म ततः शब्दब्रह्मणः सोऽधिगच्छति ॥२॥ परःसहस्राः शरदां परे योगमुपासताम् । हन्ताऽर्हन्तमनासेव्य गन्तारो न परं पदम् ॥३॥ आत्माऽयमहतो ध्यानात् परमात्मत्वमश्नुते । रसविद्धं यथा तानं स्वर्णत्वमधिगच्छति ॥४॥ Page #67 -------------------------------------------------------------------------- ________________ KAL पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् । अस्यैव शासने भक्तिः कार्या चेच्चेतनाऽस्ति वः ॥५॥ सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं परमानन्दसम्पदाम् ॥६॥ श्रमणानामियं पूर्णा सूत्रोक्ताचारपालनात् । द्रव्यस्तवाद्गृहस्थानां देशतस्तद्विधिस्त्वयम् ।।७।। न्यायार्जितधनो धीरः सदाचारः शुभाशयः । भवनं कारयेज्जैनं गृही गुर्वादिसम्मतः ।।८।। तत्र शुद्धां महीमादौ गृह्णीयात् शास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ॥९॥ अप्रीति व कस्याऽपि कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः ॥१०॥ आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इत्थं शुभाशयस्फात्या बोधिवृद्धिं शरीरिणाम् ॥११।। इष्टकादिदलं चारु दारु वा सारवन्नवम् । गवाद्यपीडया ग्राह्य मूल्यौचित्येन यत्नतः ॥१२॥ भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः । धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु ॥१३॥ जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक् तत्र कारयेद्विम्बं साधिष्ठानं हि वृद्धिमत् ।।१४।। विभवोचितमूल्येन कर्तुः पूजापुरःसरम् । देयं तदनघस्यैव यथा चित्तं न नश्यति ॥१५।। लोकोत्तरमिदं ज्ञेय-मित्थं यद्विम्बकारणम् । मोक्षदं लौकिकं चाऽन्यत् कुर्यादभ्युदयं फलम् ॥१६।। इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाऽऽप्तैस्त्रिधोदिता । दिनेभ्योऽर्वाक् देशीयस्तु व्यक्तिक्षेत्रमहाह्वया ॥१७॥ 0 NEPAL Page #68 -------------------------------------------------------------------------- ________________ अन्यत्राऽऽरम्भवान् यस्तु तस्याऽत्राऽऽरम्भशङ्किनः । अबोधिरेव परमा विवेकौदार्यनाशतः ॥१८॥ (द्वात्रिंशद्वात्रिंशिका) तदुक्तम् अन्नत्थारंभओ धम्मेणारंभओ अणाभोगो । लोए पवयणखिसा अबोहिबीयंति दोसाय ॥१॥ इत्यादि बहु वक्तव्यं, तत्तु तत एवाऽवसेयम् । पितामहगुर्वादिबहुजनक्षयहेतुकसङ्ग्रामपराङ्मुखायाऽर्जुनाय युद्धप्रवर्तनोद्देशेनोपदिष्टायां गीतायामपि पूर्वप्रतिपादितसात्त्विक्यादिभक्तित्रयस्वरूपसंवादित्रिविधकर्मस्वरूपमिदम् नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥१॥ यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ।।२।। अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म तत्तामसमुदाहृतम् ॥३॥ त्रिविधकर्तृस्वरूपमपि तत्र मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्धो निर्विकारः कर्ता सात्त्विक उच्यते ॥१॥ रागी कर्मफलप्रेप्सुर्लब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।।२।। अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥३॥ एवं च बुद्धिधृतिदानतपोज्ञानश्रद्धादीनामपि त्रिविधत्वं तत्र प्रतिपादितम्, तत्तत म एवाऽवसेयम् । अत्र तु पर्युपासनारूपा भक्तिः । 'पूज्येष्वनुरागो भक्ति' रिति मल्लिनाथः । । POOR तया । उपपद्यन्ते स्मेति उपउपसर्गपूर्वात् पद्धातोः क्ते उपपन्नाः युक्तियुक्ताः, तेषु उपपन्नेषु । यो ५७ Page #69 -------------------------------------------------------------------------- ________________ "उपपन्नं ननु शिव"मिति रघुः [सर्ग-१ श्लो०६०]। विधीयते इति 'उपसर्गादातः' (५।३।११०।।) इति 'श्रीसि०'सूत्रेण विपूर्वात् धाधातोः अङि विधा । "कर्म क्रिया विधा" को इति हैम:' । 'पाणिनीय'मते तु 'विध्-विदाने छिद्रकरणे छेदने च' तुदादिः पर० सक० को सेट् । विधतीति विधा । विध्धातोः कः अच्चेति "विधः पुंस्त्रीलिङ्गः । “विधाने, गजभक्ष्यान्ने, प्रकारे, वेधे, वृद्धौ, वेतने, वेधने कर्मणि च" स्त्री० । अत्र तु प्रकारार्थः । * 7 तस्या विधा इव विधा-प्रकारो येषां ते तद्विधाः, तेषां तद्विधानाम्-महतामित्यर्थः । प्रसदनमिति प्रपूर्वात् सद्धातो वे घबि प्रसादः । “नैर्मल्ये, अनुग्रहे, काव्यगुणभेदे, स्वास्थ्ये, प्रसक्ते, देवनैवेद्ये, गुरुजनभुक्तावशिष्टे च" । अत्र त्वनुग्रहः । चाहयतीति चिह्नानि । 'दिन नग्न-फेन-चिह्न-अध्न-धेन-स्तेन-च्यौक्नादयः' ॥२६८॥ इति 'उणादिश्रीसि०'सूत्रेण । * चहेर्धातो-रिदुपान्त्यो नान्तो निपातः । “चिह्न, लक्षणं लक्ष्म लाञ्छनम्; अङ्कः । कलङ्कोऽभिज्ञानम्" इति हैम: । 'पाणि 'मते 'चिह्न-लक्षणे' अदादिश्चुरादिश्च उभ० सक० सेट्धातोरचि, यद्वा चधातोर्नप्रत्यये उपधाया विकल्पेन इत्वे चिह्नयन्तीति चाहयन्तीति वा । - चिह्नानि । “चिह्न न० लाञ्छने लक्षणे च" । प्रसादस्य चिह्नानि-लिङ्गानि-पूजास्वीकारादीनि र प्रसादचिह्नानि। फलन्तीति फलम् । “लाभोऽधिकं फलम्" इति हैम: । फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्रासे व्युष्टिलाभयोः ॥ इति अनेकार्थसङ्ग्रहः । | 'पाणि'मते तु 'फल-निष्पत्तौ' भ्वादिः पर० अ० सेट्, 'फल्-भेदने गतौ च' और र भ्वादिः पर० स० सेट् । अत्र तु निष्पत्त्यर्थः । फलतीति फल्धातोरचि फलम् । “फलं कि वृक्षादीनां सस्ये, लाभे, कार्ये, उद्देश्ये, प्रयोजने, जातीफले, त्रिफलायां, कक्कोले, बाणाग्रे, र OF फाले, दाने, मुष्के च; कुटजवृक्षे" पुंलिङ्गाः । स्वार्थादौ कनि फलकः (ढाल इति ख्याते) "चर्ममयेऽस्त्रप्रतिघातनिवारके पदार्थे, अस्थिखण्डे, नागकेशरे, काष्ठादिपट्टके च पुंलिङ्गाः" । पुरःफलानि पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि पुरःफलानि । अविलम्बित- फलसूचकलिङ्गदर्शनादानन्दो युज्यत इत्यर्थः । १. अभि० चि० ष० १४९७ । ३. अभि० चि० तृ० ८६९ । २. अभि० चि० द्वि० १०६ । ४. अनेकार्थसङ्ग्रहे तृ० ४८७ । ५८ Page #70 -------------------------------------------------------------------------- ________________ __ वाच्यपरिवर्तनं त्वेवम्-तया वत्सोत्सुकयाऽपि स्तिमितया (सत्या) सपर्या प्रत्यग्राहियो इति ताभ्यां ननन्दे । हि भक्त्योपपन्नेषु तद्विधानां प्रसादचिह्नः पुरःफलैः भूयते ॥ धेनुः यद्यपि सायंकाले निजवत्सालोकनार्थमत्यन्तं विह्वला आसीत् । तथाऽपि सा 4 - राज्ञा विहितां पूजां निश्चलभावेन स्वीचकार । तत्तस्यां प्रसन्नताचिह्न विलोक्य सुदक्षिणादिलीपौर | निर्भरमानन्दतुः । यतो भक्तजनान् प्रति महात्मनां प्रसादः अचिरेणैव भक्तानामिष्टसिद्धि र Vil कथयति, इति सरलार्थः ॥२२॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधिं दिलीपः । दोहावसाने पुनरेव द्रोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥२३॥ गुरोरिति । भुज्येते आभ्यामिति भुजौ । 'भुजन्युजं पाणिरोगे (४।१।१२०॥) इति । 'श्री सि०' सूत्रेण घञ् निपात्यते पुंस्त्रीलिङ्गः । “भुजो बाहुः प्रवेष्टो दोर्बाहा" इति हैम: । का "भुजबाहू प्रवेष्टो दोः' इत्यमरः२ । 'पाणि० मते भुज्धातोर्घबर्थे करणे कः नि० कत्वाभावः । । "बाहौ, करे, त्रिकोणचतुष्कोणादिक्षेत्रस्य रेखाविशेषे-लीलावत्यादिप्रसिद्धे-"तथायते । तद्भुजकोटिघातः" । उच्छिद्यन्ते स्म इति उच्छिन्नाः । इयर्तीति रिपुः । 'कस्यनिस्यामिपुक्' * ॥७९८॥ इति 'उणादिश्रीसि०' सूत्रेण पुकि रिपुः - शत्रौ । “प्रतिपक्षः परो रिपुः शात्रवः । - प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः दुर्हत् परेः पन्थकपन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभिमात्यराती" इति हैम: । 'पाणिनीय' मते तु रप्धातोः कुप्रत्यये पृषोदरादित्वात् "रिपुः शत्रौ चोरनामगन्धद्रव्ये, ज्योतिषोक्ते । लग्नापेक्षया षष्ठस्थाने, कामक्रोधादिषु च" । अत्र तु शञ्चर्थः । भुजाभ्यां उच्छिन्नाः रिपवो * येन स भुजोच्छिन्नरिपुः बाहुविध्वंसितारिः । दिलीपः । दारयन्ति दीर्यन्ते वा एभिरिति वा दाराः । 'पुंलिङ्गो' दारप्राणा सुवल्वजा इति और 2. लिङ्गानुशासनवचनात्; बहुवचनान्तश्च' । 'एकवचनान्तोऽपि दृश्यते यल्लक्ष्यं (यथालक्ष्यं ?) १. अभि० चि० तृ० ५८९ । २. अम० द्वि० मनुष्यवर्गे - ८१ । - ३. अभि० चि० तृ० ७२८-२९ । Page #71 -------------------------------------------------------------------------- ________________ | | "धर्मप्रजासम्पन्ने दारे, नाऽन्यं कुर्वीत" इति । 'न्यायावाया(ध्यायोद्यावसंहारावहाराधारदारजारम्) (५।३।१३४।।) इति 'श्रीसि०' सूत्रेण घटादिदृधातोः णिचि घनिपातने दाराः । “अथ सर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहा दाराः क्षेत्रं वधूर्भार्या जनी र जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैम: । "भार्या जायाऽथ पुंभूम्नि दाराः" इत्यमरः । 'पाणिनीय'मते तु दारयन्ति भातृस्नेहम् इति दृधातोः णिचि अचि च "दाराः । पुं० बहुवचनं पत्न्याम्" । सा हि पत्युर्धातृस्नेहं भिनत्तीति लोकप्रसिद्धम् । दारैः सह वर्तमानः सदारः, तस्य सदारस्य-सभार्यस्य ।। _ 'गृणाति धर्म'मिति गुरुः । 'कृ-गृ ऋत उर् च' ॥७३४।। 'उणादिश्रीसि०'सूत्रेण 'गृश्-शब्दे' इति धातोः किदुप्रत्यग्ने ऋकारस्य चाऽरि गुरुः । गुरुः आचार्यः लघुप्रतिपक्षः । पूज्यश्च जनः । "गुरुर्धर्मोपदेशकः" इति हैम: । 'निषेकादिकरो गुरुः' इत्यन्ये । 'गिरती'ति गुरुः इति तु महदर्थे । 'गृणाति उपदिशती'ति गुरुः । "बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः वाचस्पतिद्वादशाचिधिषणः फल्गुनीभवः गीबृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः" इति हैम: । 'पाणिनीय'मते तु गिरत्यज्ञानमिति गृणात्युपदिशति वा धर्ममिति गृधातोः कुप्रत्यये उचि च गुरुः । निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चाऽन्येन स विप्रो गुरुरुच्यते ॥१॥ (२-१४२) इति मनूक्ते निषेकादिकर्तरि, पित्रादौ । । "स गुरुर्यः क्रियां कृत्वा, वेदमस्मै प्रयच्छति" इत्युक्ते आचार्ये, शास्त्रोपदेष्टरि, सम्प्रदायप्रवर्तके, उपाध्याये, तान्त्रिकमन्त्रोपदेष्टरि, का बृहस्पतौ, तदधिदैवे, पुष्ये, द्विमात्रे, दीर्घे, स्वरवर्णे, बिन्दुविसर्गयुक्ते एकमात्रे, संयुक्त - वर्णात्पूर्वस्थिते एकमात्रेऽपि वर्णे, द्रोणाचार्ये कपिकच्छायाञ्च, बलवति, महति, पूज्ये।। १. अभि० चि० तृ० ५१२-१३ । २. अम० द्वि० मनुष्यवर्गे - ६ । ३. अभि० चि० प्र० ७७ । ४. अभि० चि० द्वि० ११८-१९ । Om SHIKARAN M ६० Page #72 -------------------------------------------------------------------------- ________________ गुरुरग्निद्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राऽभ्यागतो गुरुः ॥ इति पुराणम् । दुर्ज रे, गुरुत्ववति च त्रिलिङ्गे । अत्र तु पूज्यादिर्यथायथम् । जैनदर्शने तु गुरवोऽनेके प्रतिपादितास्तथाऽपि उपदेशकमुनिरूपगुरुस्तु महाव्रतधर-बार त्वादिगुणगणोपेत एव । यदाह महाव्रतधरा धीरा भैक्षमार्गोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥१॥ धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः । सत्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ।।२।। 'स्वयं परिहारः' इति श्रीहरिभद्रसूरिवचनात्(?)यः सर्वारम्भादित्यागवान् सी PG एवोपदेशदानाधिकारज्ञः, नेतर इति ज्ञेयम् । योगपूर्वसेवाधिकारे तु एवंविधोऽपि गुरुवर्गः प्रतिपादितस्तथा चाऽऽह पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिताः ॥१॥ माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥२॥ पूजनं चाऽस्य नमनं त्रिसन्ध्यं पर्युपासनम् । अवर्णाश्रवणं नाम श्लाघोत्थानासनार्पणे ॥३॥ सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्था(थ)मनाबाध्य साराणां च निवेदनम् ॥४॥ (द्वात्रिंशद्वात्रिंशिका) | 'अत्र स्वपुमर्थमनाबाध्येत्यनेन यदि तदनिष्टेभ्यो निवृत्तौ इष्टेषु च प्रवृत्तौ धर्मादयः । पुरुषार्था बाध्यन्ते तदा न तदनुवृत्तिपरेण भाव्यम्' इति तट्टीकायाम् । तद्वित्तयोजनं तीर्थे तन्मृत्यानुमतेर्भयात् । तदासनाद्यभोगश्च तद्विम्बस्थापनार्चने ॥५।। WA ६१ Page #73 -------------------------------------------------------------------------- ________________ hd | अखानाम्ना जैनेतरभक्तेनाऽपि गुर्जरभाषायामुक्तम्"गुरु गुरु नाम धरावे सहु, गुरुने घेर बेटा ने वहु । गुरुने घेर ढांढां ने ढोर, अखो कहे आपे वलावा ने आपे चोर ॥” इति । * 'गृणाति यथावस्थितं शास्त्रार्थमिति गुरुः - धर्मोपदेशादिदातरि' आवश्यकमलयगिरीयवृत्तौ । सम्यग्ज्ञानक्रियायुक्ते सम्यग्धर्मशास्त्रार्थदेशके-धर्मसङ्ग्रहद्वितीयाधिकारे, अष्टके, पञ्चाशके च । गौरवार्हे-उत्तराध्ययने । धर्माचार्ये-पञ्चाशकविवरणे, * प्रवचनसारोद्धारवृत्तौ, उत्तराध्ययने, निशीथचूर्णौ च । सम्यग्गुरुचरणपर्युपासनाविकलतया यथावस्थिततत्त्ववेदितरि, यत: गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् । (प्रशमरतिप्रकरणम्-६९) आवश्यकवृत्तौ, अनुयोगद्वारवृत्तौ, धर्मरत्नवृत्तौ च । 'गृणाति प्रवचनार्थतत्त्व'मिति गुरुः - प्रवचनार्थप्रतिपादकतया पूज्ये-नन्दीवृत्तौ, कल्याणमित्रे-पञ्चसूत्रचतुर्थसूत्रे च । गुरुचित्तप्रसत्त्यधीनत्वात्सकलशास्त्रार्थस्य गुरुचित्तप्रसादने यतितव्यं गुरुकुलवासश्च विधेयः । यदुक्तम् गुरुचित्तायत्ताई वक्खाणंगाइ जेण सव्वाइं । तो जेण सुप्पसन्न होइ तयं तं तहा कज्ज ॥१॥ (विशेषावश्यकभाष्ये गा.९३१) तदुपायाश्चेमे जो जेण पगारेण तुस्सइ करणविणयाणुवत्तीहि । आराहणाए मग्गो सो च्चिय अव्वाहओ तस्स ॥१॥ आयारेंगियकुसलं जइ सेयं वायसं वदे पुज्जा । तह विय सिं न वि कूडे विरहंमि य कारणं पुच्छे ।।२।। निवपुच्छिएण गुरुणा गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ।।३।। | KE ६२ Page #74 -------------------------------------------------------------------------- ________________ णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥४॥ (विशेषावश्यकभाष्ये गा. ९३२-९३३ - ९३४-३४५९) सव्वगुणमूलभूओ भणिओ आयारपढमसुत्ते जं । गुरुकुलवासोऽवस्सं वसिज्ज तो तत्थ चरणत्थं ॥५॥ ( धर्मरत्नप्रकरणे १२७) इत्यादि । तस्य गुरो:- वसिष्ठस्य । जैनमते तु ऋषिमुनिरूपस्य त्यागिनः सदारगुरोरभावादेतद्वर्णनमयुक्तमेवेत्यवसेयम् । पत्स्यते अपदि पेदे वा पाद: । 'पदरुजविशस्पृशो घञ्' (५|३|१६|| ) इति 'श्रीसि० 'सूत्रेण पद्धातोर्घञि पाद: । " चरणः क्रमणः पादः पदोंऽह्निश्चलन: क्रम:" इति, म: । 'पा' मते तु पद्यते गम्यतेऽनेनेति करणे घञि पाद: । " इज्यस्य चरणे, चतुर्थांशे, वृक्षादेर्मूले, पूज्ये, किरणे च" । अत्र तु चरणार्थः । पादौ चरणौ । न ( नि ) पीड्य : संवाह्य । अत्र स्त्रीपादसंवाहनमयुक्तं पुरुषस्येत्यभिसन्धाया' ऽभिवन्द्ये 'ति [ विवृतवान् ] मल्लिनाथ इत्यनुमीयते । सन्ध्यायां विहितः सान्ध्यः तं सान्ध्यं - सायंकालिकम् । विधीयतेऽनेनेति विधिः । "कल्पे विधिक्रमौ" इति हैम: २ । 'पाणि०' मते तु विधिः विपूर्वात् धाधातोः किप्रत्यये इनप्रत्यये वा विधिः " जगत्स्रष्टरि, ब्रह्मणि, भाग्ये, क्रमे, 'चिकीर्षा कृतिसान्ध्य (ध्य) त्वहेतुधीविषयो विधिः' इत्युक्ते, प्रवर्तनारूपे, नियोगे, . तज्जनके वाक्ये, विष्णौ, कर्मणि, गजभक्ष्यान्ने, वैद्ये, अप्राप्तप्रापकरूपे, वाक्यभेदे, 'संज्ञा च परिभाषा च विधिर्नियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते ।।' इति व्याकरणोक्ते सूत्रभेदे" ‘विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चाऽन्य[त्र] च प्राप्तौ परिसङ्ख्येति गीयते ॥ ' अत्र तु क्रमार्थः । तं विधिम् अनुष्ठानम् । समाप्य पूर्णीकृत्य । १. अभि० चि० तृ० ६१६ | २. अभि० चि० तृ० ८३९ । ६३ Page #75 -------------------------------------------------------------------------- ________________ दुधातो वे घञि, दोहनं [वा] दोहः । अवसीयतेऽनेनेति अवसानम् । “आघाटस्तु घटोऽवधिः अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैम:' । 'पाणि०' मते * तु अवसाय: अवसानं नपुं०, अवपूर्वात् साधातो वे ल्युट्-"विरामे, समाप्तौ, सीमायां, - मृत्यौ च" । अत्र तु समाप्त्यर्थः विरामार्थो वा । दोहस्याऽवसानं दोहावसानम्, तस्मिन् । * दोहावसाने । निषीदति स्मेति निषण्णा, तां निषण्णाम्-आसीनाम् । दोहनशीला दोग्ध्रीम् । अत्र दुधातोस्तृन्प्रत्यये च स्त्रियां ङीपि दोग्ध्री । दोग्ध्रीमिति निरूपपदप्रयोगात् कामधेनुत्वं और HD * पुनातीति 'पु(पू)सन्यमिभ्य: पुनसनुतान्ताश्च' ॥९४७॥ इति 'उणादिश्रीसि०' व - सूत्रेण अप्रत्यये पुनादेशे च द्वित्वे च पुनः पुनः । “भूयोऽभीक्ष्णं पुनः पुनः असकृन्मुहुः" । 1 इति हैम: । "पाणि०"मते तु पण्धातोररुप्रत्यये पृषोदरादित्वात् पुनः-अव्ययम् । H "अवधारणे, भेदे, अधिकारे, पक्षान्तरे, द्वितीयवारे च" । अत्र तु द्वितीयवारार्थः । • इण्धातोर्वति प्रत्यये एव-अव्ययम् । “सादृश्ये, अनुयोगे, अवधारणे, चारनियोगे, विनिग्रहे, परिभवे ईषदर्थे च। विशेष्यसङ्गतोऽन्ययोगव्यवच्छेदे यथा-'पार्थ एव धनुर्धर' इत्यादौ, या पार्थान्यपदार्थे प्रशस्त-धनुर्धरत्वं व्यवच्छिद्यते । विशेषणसङ्गतोऽयोगव्यवच्छेदे यथा'शङ्ख पाण्डुर एवे'त्यादौ, शङ्के पाण्डुरत्वायोगो व्यवच्छिद्यते । क्रियासङ्गतोऽ त्यन्तायोगव्यवच्छेदे यथा-'नीलं सरोजं भवत्येवे'त्यादौ, सरोजे नीलत्वात्यन्तायोगो र व्यवच्छिद्यते । गन्तरि त्रिलि० ।" अत्र तु अवधारणे । भेजे-सिषेवे || ___वाच्यपरिवर्तनं त्वेवम् -भुजोच्छिन्नरिपुणा दिलीपेन सदारस्य गुरोः पादौ निपीड्य च । सान्ध्यं विधिं च समाप्य दोहावसाने निषण्णा दोग्ध्री पुनरेव भेजे ॥ अरिक्षयकर्ता दिलीपः आश्रमं समागत्य दम्पत्योः वसिष्ठारुन्धत्योः पादौ भक्त्या । संवाह्य, मल्लिनाथमते तु पूर्वं वसिष्ठमरुन्धतीं च भक्त्या ववन्दे । ततो निजं सायंकालिकमनुष्ठानं ( समाप्य दोहो(हा)वसाने सुखासीनां तां नन्दिनीमेव पुनः सेवितवान्, इति सरलार्थः ॥२३॥ तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्तामनुसंविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥२४॥ १. अभि० चि० च० ९६२ । २. अभि० चि० ष० १५३१ । ६४ Page #76 -------------------------------------------------------------------------- ________________ तामिति । गोपायतीति ‘गुपौ-रक्षणे' धातोः कर्तरि तृच्प्रत्यये गोपा(प्ता)-रक्षको सो दिलीपः । गृहमस्त्यस्यां, गृहशब्दात् अस्त्यर्थे इनि ततो ङ्यां च गृहिणी । “अथ सर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा र कलत्रं च" इति हैम: । गेहिनीत्यपि । गृहिणी भार्यायां, गेहकर्मकुशलायाम्। “गृहिणी सचिवः सखीमिथः" इति रघुः [सर्ग-८ श्लो० ६७] । सह अयते-गच्छतीति सहायः । यी "सहायोऽभिचरोऽनोश्च जीवि-गामि-चर-प्लवाः सेवकः" इति हैम:२ । “सहायः । सहचरेऽनुकूले च असावनुक्तोऽपि सहाय एव" इति कुमारः [सर्ग-३ श्लो०२१] । गृहिणी सहायो यस्य सः गृहिणीसहायः । अन्तोऽस्त्यस्य इत्यन्तशब्दाद् इकप्रत्यये अन्तिकम् । "पार्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः सदेशमभ्यग्रसनीडसन्निधानान्युपान्तं निकटोपकण्ठे सन्निकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी" इति हैम: । यद्वा । अन्त्यते सम्बध्यते सामीप्येनेति अन्त्धातोः घञ्प्रत्यये अन्तः, सोऽस्याऽस्तीति मत्वर्थीयठनि | 2. अन्तिकः । 'सामीप्यवति, स्वार्थे ठनि, सामीप्ये पुं०, चूल्ल्यां नपुं०, औषधिभेदे स्त्री० । * न्यस्यन्ते स्मेति निउपसर्गात् अस्धातोः कर्मणि ते न्यस्ताः त्रिलि० । “क्षिप्ते, त्यक्ते, सय KP विसृष्टे, निहिते च" । बलत्यनेनेति 'पदि-पठि-पचि-स्थलि-हलि-कलि- बलि-वलि वल्लि-पल्लि-कटि-चटि-वटि-बधि-गाध्यचि-वन्दि-नन्द्यवि-वशि-वाशि-काशि-छर्दि तन्त्रि-मन्त्रि-खण्डि-मण्डि-चण्डि-यत्यञ्जि-मस्यसि-वनि-ध्वनि-सनि-गमि-तमि-ग्रन्थिर श्रन्थि-जनि-मण्यादिभ्यः' ॥६०७॥ इति 'उणादिश्रीसि०'सूत्रेण बल्-प्राणनधान्यावरोधयोः । इति धातोः इप्रत्यये "बलिः पुंस्त्रीलिङ्गः" देवतोपहारः दानवश्च । "उपहारबली समौ" - | इति हैम: । "भूतयज्ञो बलिः" इति वा हैम: । यद्वा बल्धातोः इनप्रत्यये बलिः पुं० । a पूजोपहारे । "ददतुस्तौ बलिं चैव, निजगात्रासृगुक्षितं'' इति चण्डी । राजग्राह्ये भागे, उपप्लवे, चामरदण्डे, जैनेतरगृहस्थकर्तव्यपञ्चयज्ञमध्ये, भूतयज्ञे-'बलिकर्म ततः कुर्यात्' इति स्मृतिः । दैत्यभेदे, विरोचनपुत्रे च" । १. अभि० चि० तृ० ५१२-१३ । २. अभि० चि० तृ० ४९६ । ३. अभि० चि० ष० १४५०-५१ । ४. अभि० चि० तृ० ४४७ । ५. अभि० चि० तृ० ४२२ । * * ६५ Page #77 -------------------------------------------------------------------------- ________________ ___'येन बद्धो बली राजा दानवेन्द्रो महाबली' ॥ इति रक्षाबन्धनमन्त्रः । षष्ठः । प्रतिवासुदेवो वा बलिः । ते च नव । यदाह हैम: - अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भ-बलि-प्रह्लाद-लङ्केश-मगधेश्वराः ।। लङ्केशो रावणः, मगधेश्वरो जरासन्धः, इति टीका । विष्णुवध्यत्रयोविंशतौ द्वाविंशे, यदाह हैम:२_"मधु-धेनुकचाणूर-पूतना-यमलार्जुनाः । - कालनेमिहयग्रीवशकटारिष्टकैटभाः कंसकेशिमुराः साल्वमैन्दद्विविदराहवः हिरण्यकशिपुर्बाणः । कालियो नरको बलिः शिशुपालश्चाऽस्य वध्याः" इति । 'एते त्रयोविंशतिरस्य विष्णोर्वध्या' या । इति तट्टीका" । "जरया श्लथचर्मणि, स्त्रीलि० वा ङीप् । _ 'गृहस्थस्तु यदा पश्येत् बलीपलितमात्मनः' । इति स्मृतिः । उदरावयवे-'बलित्रयं चारु बभार बाला' इति कुमारः [सर्ग-१ श्लो०३९] । गुह्यस्थे अङ्कराकारे मांसपिण्डे । गृहदारुभेदे च स्त्री०, स्वार्थे कन् । तत्राऽर्थे । - इति(इनि?,) बलायां च । दीप्यते इति दीपः, प्र स्वार्थे, मेरुः सुमेरुवत्, प्रदीपः । ___'दीपः प्रदीपः कज्जलध्वजः स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः" इति हैम: । यद्वा प्रउपसर्गपूर्वात् दीप्धातोः कप्रत्यये प्रदीपः, पुंलि० प्रदीपे । बलयश्च प्रदीपाश्च - बलिप्रदीपाः । अन्तिके न्यस्ताः बलिप्रदीपा: यस्याः सा अन्तिकन्यस्तबलिप्रदीपा, ताम् अन्तिकन्यस्तबलिप्रदीपाम्-समीपस्थापितपूजोपकरणदीपाम् । तां पूर्वोक्तां सुखासीनां का नन्दिनीम् । अन्वास्य-अनुउपसर्गपूर्वात् 'आस् उपवेशने' धातोर्त्यपि अन्वास्य-अनूपविश्य । सो क्रमणं-भावे घजि क्रमः । “पर्यायोऽनुक्रमः क्रमः परिपाट्यनुपूर्व्यावृत्" इति हैम: । क्रामन्त्यनेनेति क्रमः-पादः "चरणः क्रमणः पादः पदोंऽहिश्चलनः क्रमः" इति हैम:५ । यद्वा र १. अभि० चि० तृ० ६९९ । ३. अभि० चि० तृ० ६८६-८७ | ५. अभि० चि० तृ० ६१६ । २. अभि० चि० द्वि० २१९-२०-२१ । ४. अभि० चि० ष० १५०३-४ । * ६६ Page #78 -------------------------------------------------------------------------- ________________ • 'क्रम् - गतौ' वा भ्वादि: पक्षे दिवादिः पर० सक० सेट्, क्रामति क्राम्यति इति क्रम्धातोर्घञि क्रमः पुंलि० । “नियतपूर्वापरभावरूपे, विधाने, अनुक्रमे, शक्तौ, आक्रमणे, पादे च" । अत्र त्वनुक्रमार्थ: । तेन क्रमेण परिपाट्या । स्वपिति स्मेति स्वप्धातोः कर्तरि क्ते . सुप्ता, तां सुप्तां - निद्रिताम् । अनु-पश्चात् संविवेश - सुष्वाप । प्रकर्षेणाऽतत्यत्रेति 'प्रादतेरर्' ॥९४५॥ इति '[ उणादि० ] श्रीसि० 'सूत्रेण प्रपूर्वात् 'अत्- सातत्यगमने' इति धातो: अर्प्रत्यये प्रातः - प्रभातम् । " प्रगे प्रातरहर्मुखे" इति [ हैम:' । 'पाणि० ' मते अरुप्रत्यये "प्रातर् अव्ययं प्रभाते, 'प्रातः कालो मुहूर्तान् त्रीन्' इति स्मृत्युक्ते सूर्योदयावधि त्रिमुहूर्तकाले च" । प्रातः - प्रात: काले । उत्तिष्ठति स्मेति - उत्पूर्वात् स्थाधातोः कर्तरि क्ते उत्थिता । पूर्वं सुप्ता पश्चादुत्थिता सुप्तोत्थिता, तां सुप्तोत्थिताम्शयनोत्थितां जागरितामित्यर्थः । अनु पश्चात्, उदतिष्ठत् - उत्थितवान् । अत्राऽनुशब्देन धेनुराजव्यापारयोः पौर्वापर्यमुच्यते । क्रमशब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम् । 'भागिनि च प्रतिपर्यनुभि: (२|२|३७||) इति 'श्रीसि० ' सूत्रेण अनुयोगे 'कर्मप्रवचनीययुक्ते' [२|३|८|]. इति पा० 'सूत्रेण चाऽनुयोगे 'अनुर्लक्षणे' [१|४|८४ ॥ ] इति पा० 'सूत्रेण अनो: कर्मप्रवचनीयसंज्ञा । ततो द्वितीया ॥ वाच्यपरिवर्तनं त्वेवम् - गोप्त्रा गृहिणीसहायेनाऽन्तिकन्यस्तबलिप्रदीपां तामन्वास्य, क्रमेण सुप्तामनुसंविविशे प्रातः सुप्तोत्थितामनूदस्थीयत ॥ तस्या नन्दिन्या निकटे बलिप्रदीपादिपूजासामग्री संस्थाप्य तस्या उपवेशनानन्तरं . सुदक्षिणादिलीपौ उपविविशतुः क्रमेण निद्रायुक्तायां तस्यां तावपि निद्रां प्राप्तवन्तौ प्रात:काले च सुप्तोत्थितायां तस्यां तावपि उदतिष्ठताम् इति सरलार्थः ||२४|| इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ २५ ॥ इत्थमिति । अनेन प्रकारेणेति 'कथमित्थम्' (७|२| १०३ ||) इति 'श्रीसि० ' सूत्रेण इदम्शब्दात् एतच्छब्दाच्च थमि इदादेशे च इत्थम् इति निपात्यते । 'पाणि०' मते तु इदम्शब्दात् थमुप्रत्यये इत्थम् अव्ययम्, “इदम्प्रकारे, अनेन प्रकारेणेत्यर्थे च " । प्रजायते १. अभि० चि० ष० १५३३ । ६७ Page #79 -------------------------------------------------------------------------- ________________ इति प्रपूर्वात् जन्धातो: 'क्वचित्' (५|१|१७१ | | ) इति 'श्रीसि० ' सूत्रेण प्रत्यये प्रजा । " सन्ततौ, जने च । तोकापत्यप्रसूतयः तुक् प्रजोभयोः" इति । "लोको जनः प्रजा" इति च हैम:। “प्रजा स्यात् सन्ततौ जने" इत्यमरश्च । प्रजा एवाऽर्थः प्रयोजनं यस्य तत्, . प्रजायै इति वा प्रजार्थम् । मह्यते पूज्यते इति 'मह्यविम्यां हित्' ॥५४७॥ इति 'उणादिश्रीसि० 'सूत्रेण 'मह - पूजायां' धातोः टिदिषप्रत्यये महिषः सैरिभः राजा च । ततो ङ्यां महिषी राजपत्नी सैरिभी च । " कृताभिषेका महिषी" इति हैम: । 'नृपस्त्रीत्युत्तरत:: सम्बध्यते महादेवीत्वे कृताभिषेका यथा वासवदत्तेति' तद्वृत्तिः । " कृताभिषेका महिषी". इत्यमरः । यद्वा मधातोः टिषचिप्रत्यये ततो ङि ( ङी) पि महिषी । 'राज्ञः कृताभिषेकायां' • महिषजातिस्त्रियाम् औषधिभेदे च' । अत्र तु पट्टराज्ञी महिषी, तया महिष्या । सम्पूर्वात् 'अम्-गतौ' धातोः, सङ्गतममतीति समम् । “साकं सत्रा समं सार्धममा सह” इति हैमः५ । ‘यथाऽस्मदुपज्ञे द्वयाश्रयमहाकाव्ये "पुलिनानि सह क्षोमैः सरांसि • नभसा समम्" । 'ज्योत्स्न्य (न्या) माहन्यामिषन्मेघाः साकं कैलाशमुनिभिः' इति तद्वृत्तौ यद्वा सम्धातोः समुप्रत्यये समम् अव्ययं, "साहित्ये, एकदेत्यर्थे च" । 'सममेव समाक्रान्तं द्वयम्' इति रघु: [ सर्ग - ४ श्लो०४] । अत्र समं सह । व्रियते उपवासाद्यत्रेति 'पृषि - रञ्जि - सिकि-का- ला-वृभ्यः कित्' ॥२०८॥ इति'उणादिश्रीसि० 'सूत्रेण 'वृगट्-वरणे' इति धातो: किदतप्रत्यये व्रतम् - शास्त्रविहितो नियमः । "नियमः पुण्यकं व्रतम्" इति हैम: । जैनदर्शने देशसर्वादिभेदेन व्रतानामनेकविधत्वम् । • देशतः श्रावकाणां द्वादशव्रतानि, सर्वतो मुनीनां पञ्च महाव्रतानि । अन्ये चाऽभिग्रहविशेषा, अपि व्रतानि गीयन्ते । " व्रतं लक्षणभेदे पुण्यसाधने उपवासादिनियमभेदे च " । अत्र तु - जैनेतरमतेन गोसेवारूपो नियमो व्रतम्, तत् व्रतम् । धारयतीति चुरादि'धृ' धातो: णिचि शतृप्रत्यये [च] धारयन्, तस्य धारयतःअनुतिष्ठतः पालयत इत्यर्थः । महितुं योग्येति 'मह् - पूजायां' धातोरनीयप्रत्यये महनीया १. अभि० चि० तृ० ५०१ । ३. अभि० चि० तृ० ५२० । ५. अभि० चि० ष० १५२७ । २. अम० तृ० नानार्थवर्गे ३८ । ४. अम० द्वि० मनुष्यवर्गे - ५ । ६. अभि० चि० तृ० ८४३ । ६८ - Page #80 -------------------------------------------------------------------------- ________________ पूज्या । 'पाणि०' मते च अनायरप्रत्यये । कीर्त्यते इति 'साति-हेति-यूति-जूति-ज्ञप्तिG, कीर्त्तिः' (५।३।९४।।) इति 'श्रीसि०'सूत्रेण 'कृतत्-संशब्दने' धातोः भावाकोंः Miक्तिप्रत्ययान्तनिपातने कीर्तिः-यशः । "श्लोकः कीर्तिर्यशोऽभिख्या समाजा" इति हैम: । र - 'पाणि०'मते चुरादि ‘कृत्' धातोः कर्मणि क्तिनि कीर्त्यते इति कीर्तिः यशसि । "एक दिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः" । यद्वा ___ "दानपुण्यफला कीर्तिः पराक्रमकृतं यशः" इति । यश:कीोरर्थभेदोऽप्यन्यत्र । अत्र तु यशसि । महनीया कीर्तिर्यस्य सः महनीयकीर्तिः, तस्य महनीयकीर्तेः-प्रशस्तयशसः । __दीयते स्मेति 'सि०'मते दीच् क्षये, 'पा०' मते तु 'दी-क्षये' इति धातोः कर्तरि ते तस्य च नत्वे "दीनः त्रिलिङ्गः । “दुःखिते, भीते च, तगरपुष्पे नपुं०, मूषिकायां स्त्री०" । उद्हरणं उद्धरणं वेति उत्-उपसर्गपूर्वात् ह-धृधातोः 'सि० मते भावेऽनटि, पा०'मते च ल्युटि उद्धरणम् । दीनानामुद्धरणम् दीनोद्धरणम् । उच्यते स्मेति उचित: योग्यः । "न्याय्यं तूचितं युक्तसांप्रते लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च" इति । है हैम:२ । 'वच्-परिभाषणे' धातोः 'उवच्-समवाये' धातोर्वा कर्मणि क्ते, 'पाणि 'मते । उच्धातोः क्ते वच्धातोः कितच्प्रत्यये वा उचितः त्रिलिङ्गः ।" न्यस्ते, परिचिते, युक्ते" । . अत्र तु परिचितार्थः । दीनोद्धरणे उचित:-परिचितः दीनोद्धरणोचितः, तस्य दीनोद्धरणो। चितस्य दीनजनरक्षणनिरतस्य । तनोति तनुते वेति तन्धातोः अदि डिति च तत्रशब्दः त्रिलि० । "पूर्वोक्ते, बुद्धिस्थे, परामर्शयोग्ये, विप्रकृष्टविषये च; ब्रह्मणि नपुं०" । "औं तत्सत् इति निर्देशो ब्राह्मणः" इति गीता । तस्य-षष्ठ्येकवचने तस्य-दिलीपस्य । 'तृ-प्लवनतरणयोः' धातोडिन्प्रत्यये तरन्तीति त्रयो बहुवचनान्तस्त्रिलि० त्रित्वसङ्ख्याविशिष्टे । स्त्रियां तिस्रादेशः, १. अभि० चि० द्वि० २७३ । HD २. अभि० चि० तृ० ७४३ । ६९ Page #81 -------------------------------------------------------------------------- ________________ तिस्र इत्यादि । गुण्यते इति गुणः - उपसर्जनम् । “गुणोपसर्जनोपाग्राण्यप्रधाने" इति हैमः । गुण्यते अभ्यस्यते इति गुणः- रज्जुः मौर्वी च । “शुल्बं (म्बं) वराटको रज्जुः शुल्वं तन्त्र वही गुणः" इति (हैम: २ ) । "मौर्वी जीवो (वा) गुणो गव्या शिञ्जा बाणासनं दुणा [शिञ्जिनी ज्या च]" इति च हैम:' । 'पाणि०' मते तु गुण्धातोरचि घञि वा गुणः । "धनुषो मौर्व्यां धनुराकर्षणदामनि, रज्जुमात्रे । " सगुणोऽपि पूर्णकुम्भो यथा कूपे निमज्जती "त्युद्भटः । शौर्यादिधर्मे, राज्ञां - सन्धिविग्रहादिषु, षट्सु साधनेषु । 'षाड्गुण्यमुपयुञ्जीत' इति माघः [ सर्ग २ श्लो०९३] । ज्ञानविनयादिषु 'गुणागुणानुबन्धित्वात्' इति रघुः [सर्ग १ श्लो०२२]। साङ्ख्यमते 'पुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनोपयोगित्वाच्च सत्त्वर• जस्तमआदिषु पदार्थेषु' । 'प्रकृतेर्गुणसंमूढा सज्यन्ते गुणकर्मसु ' इति गीता । अप्रधाने । न्यायमते रूपादिचतुर्विंशतिभेदभिन्ने पदार्थे । व्याकरणोक्ते"सत्त्वे निविशतेऽवैति, पृथग्जातिषु दृश्यते' । 'आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिः गुणः ।' इत्युक्ते द्रव्यमात्राश्रिते । द्रव्यभिन्ने उत्पाद्यानुत्पाद्यतासमानाधिकरणे, सिद्धधर्मे, वस्तुधर्मे । व्याकरणपरिभाषिते 'अदेङ् गुणः' इत्युक्ते अकारे एकारे ओकारे च . 'गुणोऽरेदोत्' इत्युक्ते अरि एकारे ओकारे च । अलङ्कारोक्तेषु माधुर्यादिषु । आवृत्तौ, तन्तौ, उत्कर्षे, दूर्वायां च । जैनमते सहभाविनि, पर्याये च । अत्र त्वावृत्त्यर्थः । यो गुण आवृत्तयो येषां तानि त्रिगुणानि - त्रिरावृत्तानि । सप्धातोः कनिनि तुटि च, अथवा सप्धातोः तनिन्प्रत्यये वा सप्तन् । "सप्तत्वविशिष्टे सङ्ख्याविशेषे, तत्सङ्ख्यायां च " । सप्त । दीव्यति रविरत्रेति यद्वा द्यति तम इति - दोंच्धातोर्नक्प्रत्यये "दिनं सूर्यकिरणोपलक्षिते षष्टिदण्डात्मके तद्विशिष्टे अवखण्डने वा २. अभि० चि० तृ० ९२८ । १. अभि० चि० ष० १४४१ । ३. अभि० चि० तृ० ७७६ । ७० Page #82 -------------------------------------------------------------------------- ________________ चतुर्यामात्मके काले" तच्च मनुष्याणां षष्टिदण्डात्मकम् । पितॄणां गौणचन्द्रमासात्मकम्, तेषां हि चन्द्रलोकोपरिस्थिते: कृष्णाष्टमीत एव सूर्यस्य तल्लोके किरणस्पर्शसंभवः, शुक्लाष्टम्यां पुनर्भूवृत्तेनाऽच्छादनाच्च न तत्सम्पर्कः । देवानामसुराणां च सौरवर्षकालात्मकम् । ब्रह्मणो -दिव्यमानेन युगसहस्रकालात्मकमिति विवेकः " । एतत्सर्वं जैनेतरमते । अत्र तु षष्टिदण्डात्मकं. दिनम् । त्रिगुणानि दिनानि - एकविंशतिर्वासराणीत्यर्थः । व्यतीयुः - व्यतिक्रान्तानि ॥ I वाच्यपरिवर्तनं त्वेवम् - इत्थं प्रजार्थं महिष्या समं व्रतं धारयतो महनीयकीर्ते: . दीनोद्धरणोचितस्य तस्य त्रिगुणैः सप्तभिर्दिनैः व्यतीये । इत्थं सन्तानाय पत्न्या समं व्रतं धारयतः पूजितकीर्ते: दीनरक्षणोचितस्य तस्य नृपस्य एकविंशतिर्दिनानि गतानि, इति सरलार्थः ||२५|| अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥ २६ ॥ अन्येद्युरिति । अन्यस्मिन् दिने इति 'पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युस् ' ( ७|२|९७) - इति 'श्रीसि० 'सूत्रेणाऽन्यशब्दात् अन्यस्मिन्नह्नि कालेऽर्थे एद्युस्प्रत्यये अन्येद्युः । 'सद्य:परुत्परायैषम:परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः' (५।३।२२॥) इति पा० ' सूत्रेण च अन्येद्युर्निपातः । अन्येद्युः - द्वाविंशे दिने । मन्यते जगतस्त्रिकालावस्थामसाविति 'मनिच्- ज्ञाने' इति धातोः 'मनेरुदेतौ चाऽस्य. वा' ॥६१२॥ इति 'उणादिश्रीसि० 'सूत्रेण 'इ' प्रत्ययेऽकारस्योकारे च मुनि:- ज्ञातवान् पुंस्त्रीलिङ्गः । " अथ मुमुक्षुः श्रमणो यतिः वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः निर्ग्रन्थो भिक्षुः" इति हैम: । जैनेतरमते तु 'मुनित्रयं नमस्कृत्ये' त्यस्य व्याख्याने तत्त्वबोधिन्यां मन्ता-वेदशास्त्रार्थतत्त्वावगन्ता, इति । 'मनेरुदेतौ चास्य वा' इत्यौणादिकसूत्रेण मनेरत उकारे मने: परे इन्प्रत्यये च मुनिः । अथवा मननशीलो मुनिरिति । मुनिशब्द:सप्तसङ्ख्यायामपि । अत्र वेदशास्त्रार्थतत्त्वावगन्ता मुनिर्ग्राह्यः । हूयतेऽसावग्नाविति होम: । 'अर्तीरि-स्तु-सु-हु-सृ- घृ- धृ-शृ - क्षि-यक्षि- भा-वा-व्या - धा-पा-या - वलि - पदि-नीभ्यो मः ||३३८ || इति 'उणादिश्रीसि० 'सूत्रेण 'हुंक्- दानादनयो: (दानमिह हविष्प्रक्षेप :) १. अभि० चि० प्र० ७५-७६ । . ७१ Page #83 -------------------------------------------------------------------------- ________________ | धातोः 'म'प्रत्यये, 'पाणिनि' मते च मनिप्रत्यये होमः-आहुतिः । "स्याद् देवयज्ञ आहुतिः होमो होत्रं वषट्कारः" इति हैम: । हूयतेऽस्मिन्निति होमः इत्यधिकरणेऽपि पु० । “देवतोद्देशेन । वह्नौ, मन्त्रद्वारा घृतादित्यागरूपे हवने; जैनेतरमते तु नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु का मध्ये देवयज्ञे, श्राद्धीयविप्रपाणी, श्रद्धी(श्राद्धीय?)यागभागस्य मन्त्रेण दाने च" । होमाय. होमस्य वा धेनुः होमधेनुः । मुनेः होमधेनुः मुनिहोमधेनुः । मुनेः होमार्थं घृतपयोदध्यादिसाधन(नं) नन्दिनी, इदमपि जैनेतरमते एव । अतति, सततं गच्छतीति 'अत्-सातत्यगमने' धातोः 'सात्मन्नात्मन्-वेमन्-रोमन । -क्लोमन्-ललामन्-नामन्-पाप्मन्-पक्ष्मन्-यक्ष्मन्निति' ॥९१६|| इति 'उणादिश्रीसि०'सूत्रेण में मन्प्रत्ययान्तः, 'पाणिनि'मते च मनिण्प्रत्ययान्तो निपातः, अतेर्दीर्घश्चेत्यात्मा जीवः । "क्षेत्रज्ञान र आत्मा पुरुषश्चेतनः" इति हैम: । अथवा अतत्यनेनेति आत्मा-स्वभावः । “स्याद्रूपं लक्षणं भावश्चाऽऽत्मप्रकृतिरीतयः, सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत्; शीलं सतत्त्वं संसिद्धिः" IN इति हैम: । "आत्मा स्वरूपे, यत्ने, देहे, मनसि, वृत्तौ, बुद्धौ, अर्के, वह्नौ, वायौ, जीवे, ब्रह्मणि च" । "आत्ममातुः स्वसुः पुत्राः, आत्मपितुः स्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया ह्यात्मबान्धवाः ॥" इत्युक्त्यनुसारेणाऽत्र आत्मा स्वीयार्थः । अनुचरतीति अनु-उपसर्गपूर्वात् 'चर्गतिभक्षणयोः' इति धातोः अच्प्रत्यये, 'पा०'मते चट्प्रत्यये अनुचरः-अनुगामी । "सहायोऽभिचरोऽनोश्च जीवि-गामि-चर-प्लवाः सेवकः" इति हैमः' । अनुचरः त्रिलि० सहचरे, पश्चाद्गामिनि दासादौ । अनुगतश्चरं दूतं गतिस० । दूतानुगे त्रि० । आत्मनोऽनुचरः । र आत्मानुचरः, तस्याऽऽत्मानुचरस्य-स्वसेवकस्य राज्ञः । भावयति विचारयतीति भूधातोणिचि घञि भावः । "भावो विद्वान्" इति हैम:५ । यद्वाऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयतीति भावः-अङ्गस्याऽल्पो विकारः । O ile AN १. अभि० चि० तृ० ८२१ । 2३. अभि० चि० ष० १३७६ -७७ । ५. अभि० चि० द्वि० ३३२ । २. अभि० चि० ० १३६६ । ४. अभि० चि० तृ० ४९६ । ७२ Page #84 -------------------------------------------------------------------------- ________________ E "भावहावहेलास्त्रयोऽङ्गजाः" इति हैमः । भवत्यस्मिन्निति वा भावः-अभिप्रायः पुंक्लीब लिङ्गः । "छन्दोऽभिप्राय आकूतं मतभावाशया अपि" इति हैम: । "भावोऽभिप्राय HP आशयः" इति च यादवः । 'पाणि'मते तु भावः पुंलिङ्गः । भावयति चिन्तयति र र पदार्थान्, चुरादिभूधातोरचि, भौवादिकात् णो वा । नाट्योक्तौ-नानापदार्थचिन्तके पण्डिते । भावयति ज्ञापयति हृदयगतम्, भू-णिच्-अच् । हृदयगतावस्थावेदके, मानसविकारे, स्वेदकम्पादौ, व्यभिचारिभावे । भू-भावे घञ्, शुद्धधात्वर्थे-यथा पाक इत्यत्र विक्लित्त्यनुकूलव्यापारः पच्धात्वर्थः, एवमेव विक्लित्त्यनुकूलव्यापारो घबर्थः । “साध्यरूपे सिद्धरूपे वा, क्रियारूपे, धातोरर्थे, रागे, आशये, प्रकृतिजन्यबोधे, प्रकारीभूते, भावे च"। अत्र तु | रागार्थ आशयार्थो वा । तं भावम्-अभिप्रायं दृढभक्तित्वम् । ज्ञातुमिच्छति इति 'तुमर्हादिच्छायांकन सन्नतत्सनः' (३।४।२१।।) इति 'श्रीसि०'सूत्रेण ज्ञाधातोः इच्छार्थे सन्, ततः 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०॥) इति 'श्रीसि०' सूत्रेणाऽऽनशि 'अतो म आने' (४।४।११४॥) इति को | 'श्रीसि०' सूत्रेण मकारागमे आपि च जिज्ञासमाना। 'पाणि०' मते च 'धातोः कर्मणि(णः) समानकर्तृकादिच्छायां वा' [३।१७।] इति सूत्रेण सन्, 'ज्ञा-श्रृ-स्मृ-दृशां सनः' [१।३।५७||] 14 इति सूत्रेणाऽऽत्मनेपदम्, 'लटः शतृशानचावप्रथमासमानाधिकरणे' [३।२।१२४॥] इति । सूत्रेण शानचि, 'आने मुक् च (मुक्) [७।२।८२॥] इति सूत्रेण मुगागमे टापि च । जिज्ञासमाना-ज्ञातुमिच्छन्ती (सती) । - गच्छति समुद्रमिति 'गम्लं-गतौ' इति धातोः 'गम्यमि-रम्यजि-गद्यदि-छो-गडिखडि-गृ-भृ-वृ-स्वृभ्यो गः' ॥९२॥ इति 'उणादिश्रीसि०' सूत्रेण गप्रत्यये 'पाणि०'मते में च गन्प्रत्यये गङ्गा-देवनदी स्त्री० । "गङ्गा स्वनामख्याते, नदीभेदे" । "गङ्गा त्रिपथगा और र भागीरथी त्रिदशदीर्घिका त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः सरिद्वरा विष्णुपदी सिद्धस्वःस्वर्गिखापगा ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा" इति हैम: । प्रपतन्ति र ' अस्मिन्निति 'पत्रों-पतने' धातोः 'व्यञ्जनाद(द् घञ्)' (५।३।१३२।।) इति 'श्रीसि०' सूत्रेण पुंनाम्नि करणाधारे घजि प्रपातः । प्रपतन्त्यस्मादिति वा 'भावाकत्रोर्घञ् (कोंः) (५।३।१८।।) इति 'श्रीसि०'सूत्रेण घजि प्रपातः । "प्रपातस्त्वतटो भृगुः" इति हैम: । र १. अभि० चि० तृ० ५०९ । २. अभि० चि० १० १३८३ । * ३. अभि० चि० च० १०८१-८२ । ७३ Page #85 -------------------------------------------------------------------------- ________________ 'प्रपत्यते यस्मात् तटात् स भृगुः इत्यके' इति तद्वृत्तौ । यद्वा प्रपतनं प्रपातः, भावे घजि प्रपात:-छलादाक्रमणमित्यर्थः । "प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः" इति हैम: । "प्रपातः पुंलि० तटरहिते निरवलम्बे पर्वतस्थाने, निर्झरे, कूले, अवस्कन्दे च, को ॐ भावे घजि पतने" । अत्र त्वधिकरणव्युत्पत्या पतनप्रदेशः । गङ्गायाः प्रपातः गङ्गाप्रपातः ।। * जैनमते चुल्लहिमवत्पर्वताधोवर्ती गङ्गाप्रपातनामा कुण्डविशेषोऽप्यस्ति । अमतीति 'अम् गतौ' धातोः 'दम्यति-तमि-वा-पू-धू-ग-ज-हसि-वस्यसि-वितसि-मसीण्भ्यस्तः' ॥२०॥ 1 इति 'उणादिश्रीसि०' सूत्रेण तप्रत्यये, 'पाणि०'मते तन्प्रत्यये च अन्तः-अवसानं, धर्मः समीपं च । “अथाऽन्तिमं जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे" इति हैम: । यद्वा ] - अमति सन्देहाभावमिति अन्तः-निर्णयः । “निर्णयो निश्चयोऽन्तः" इति हैम: । अमत्यनेन । वाऽन्तः-सीमा। "आघाटस्तु घटोऽवधिः, अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैम: । “अन्तः नपुं० स्वरूपे, स्वभावे च, शेषे पुनपुं०, नाशे, प्रान्ते, सीमायां, और निश्चये, अवयवे च पुं०, निकटे मनोहरे च त्रिलिङ्गः" । अत्र तु सामीप्ये । गङ्गाप्रपातान्तः । म विशेषेण रोहन्ति, रोहन्ति स्मेति वा; विउपसर्गात् 'रुह-प्ररोहणे' धातोः कर्तरि क्ते विरूढानि। S विरूढशब्दः त्रिलि० जाते अङ्कुरिते च" । शीयत इति 'शदि-बाधि-खनि-हनेः(ने) षः च' ॥२९९।। इति 'उणादिश्रीसि०' सूत्रेण 'शद्लं-शातने' धातोः 'प'प्रत्यये षान्तादेशे में च शष्पं-बालतृणम् । यद्वा शषतीति 'शष्-हिंसायां' धातोः 'प'प्रत्यये, 'पाणि० मते च और 'पक् प्रत्यये शष्पम् । “शष्पं तु तदनेवं (तद् नवम्)" इति हैम:६ । 'तत् तृणं नवोद्भिन्नं बालम्' इति तद्वत्तिः । "शष्पं बालतृण(णं) घासः" इत्यमरः । "शष्पं नपुं० बालतृणघासे; प्रतिभाक्षये पुं०" । गङ्गाप्रपातान्ते जाह्नवीपतनप्रदेशसमीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्य तदिति गङ्गाप्रपातान्तविरूढशष्यम् । गौरत्वात् गौरशब्दात् 'गौरादिभ्यो मुख्यान् ङीः' ।२।४।१९॥ इति 'श्रीसि०'- सूत्रेण ङीप्रत्यये, 'पा०'मते च ङीप्प्रत्यये गौरी-पार्वती । “गौरी काली पार्वती मातृमाताऽर्पणा१. अभि० चि० च० १०३२ । २. अभि० चि० तृ० ८०० । * ३. अभि० चि० ष० १४५९ । ४. अभि० चि० ष० १३७४ । ५. अभि० चि० तृ० ९६२ । ६. अभि० चि० त० ११९१ । ७. अम० द्वि० वनौषधिवर्गे -१६७ । ७४ Page #86 -------------------------------------------------------------------------- ________________ रुद्राण्यम्बिका त्र्यम्बकोमा दुर्गा चण्डी सिंहयाना मृडानी कात्यायन्यौ दक्षजाऽऽर्या कुमारी सती शिवा महादेवी शर्वाणी सर्वमङ्गला भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा निशुम्भशुम्भ- महिषमथनी भूतनायिका" इति हैमः । हैमशेषश्च गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया । कालरात्रि: महामाया भ्रामरी यादवी वरा ॥१॥ बहिर्ध्वजा शूलधरा परमब्रह्मचारिणी । अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी ॥२॥ जाङ्गुली बदरीवासा वरदा कृष्णपिङ्गला । दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा ||३|| महाविद्या सीनीबाली स्क[न्ध? ] दन्त्येकपाटला । एकपर्णा बहुभुजा नन्दपुत्री महाजया || ४ || भद्रकाली महाकाली योगिनी गणनायिका । हासा भीमा प्रकुष्माण्डी गदिनी वारुणी हिमा ॥५॥ अनन्ता विजया क्षेमा मानस्तोका कुहावती । चारणा च पितृगणा स्कन्धमाता घनाञ्जनी ||६|| गान्धर्वी कर्बुरा गार्गी सावित्री ब्रह्मचारिणी । कोटि श्रीः मन्दरावासा केशी मलयवासिनी ||७|| कालायनी विशालाक्षी किराती गोकुलोद्भवा । एकानसी नारायणी शैला शाकम्भरीश्वरी ॥८॥ प्रकीर्णकेशी कुण्डा नीलवस्त्रोग्रचारिणी । अष्टादशभुजा पौत्री शिवदूती यमस्वसा ॥९॥ १. अभि० चि० द्वि० २०३-४-५ २. अभि० चि० हैमशेषे ४९-६१ । ७५ Page #87 -------------------------------------------------------------------------- ________________ सुनन्दा विकचा लम्बा जयन्ती नकुला कुला । विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना ॥१०॥ कालञ्जरी शतमुखी विकराला करालिका । विरजाः पुरला जारी बहुपुत्री कुलेश्वरी ॥११॥ कैटभी कालदमनी दर्दुरा कुलदेवता । रौद्री कुन्द्रा महारौद्री कालङ्गमा महानिशा ॥१२।। बलदेवस्वसापुत्री हीरी क्षेमकरी प्रभा । मारी हैमवती चाऽपि गोला शिखरवासिनी ॥१३॥ इति । "गौर्युमा नग्निकोर्वीषु" इत्यनेकार्थसङ्ग्रहः । षोडशसु विद्यादेवीषु नवमी विद्यादेवी । विद्यादेव्यस्तु षोडश रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कशा । चक्रेश्वरी नरदत्ता काल्यथाऽसौ महापरा ॥१॥ गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोट्याऽच्छुप्ता मानसी महामानसिकेति ताः ॥२॥ इति हैम: । गूयते इति वा [गौरः] 'खुर-क्षुर-दूर-गौर-विप्र-कुप्र-श्वभ्राभ्र- धूम्रान्ध्ररन्ध्रशिलीन्ध्रौड्र-पुण्ड्र-तीव्र-शीघ्रोग्र-तुग्र-भुग्र-निद्रा-तन्द्रा-सान्द्र-गुन्द्रा-रिज्रादयः॥३९६॥ इति 'उणादिश्रीसि०' सूत्रेण गौर इति रान्तो निपातः । गौरः-अवदातः, ततो ड्यां गौरीस्त्रीधर्मरहिता । गूयते उपादेयतया गौरी । "गौरी तु नग्निकाऽरजाः" इति हैमः। 'अष्टवर्षा भवेद् गौरी दशमे नग्निका भवेत्' इति च स्मार्तो विशेषः । गौरी । स्त्री०। "शलेन्दुकुन्दधवला, ततो गौरी तु सा मता ॥" इत्युक्त्यां पार्वत्याम् । “अष्टवर्षा भवेद्गौरी" इत्युक्त्यामष्टवर्षायां असञ्जातरजस्कायां कन्यायाम, हरिद्रायाम् । दारुहरिद्रायाम्, कि * गोरोचनायाम्, प्रियङ्गौ, भूमौ, नदीभेदे, मञ्जिष्ठायाम्, श्वेतदूर्वायाम्, मल्लिकायाम्, तुलस्याम्, १. अनेकार्थसङ्ग्रहे द्वि० ४०३-४ । २. अभि० चि० द्वि० २३९-४० ।। ३. अभि० चि० तृ० ५१० । POWR SEAR ७६ Page #88 -------------------------------------------------------------------------- ________________ स्वर्णकदल्याम्, आकाशमांस्याम्, रागिणीभेदे च" । अत्र तु पार्वत्यर्थः । गौर्याः गुरुः गौरीगुरुः, तस्य गौरीगुरोः-पार्वतिपितुः-हिमाचलस्येत्यर्थः ।। गृहति गाह्यते वेति 'तीवर-धीवर-पीवर-छित्वर-छत्त्वर-गह्वरोपह्वर-संयद्वरो- दुम्बरादयः' ॥४४४॥ इति 'उणादिश्रीसि०' सूत्रेण वरट्प्रत्ययान्ता(त)निपातने गह्वरम् । गुहेरच्चोतः । गह्वरं गहनं महाबिलं भयानकं प्रत्यन्तदेशश्च । यद्वा गह्वाः सन्त्यत्रेति वा अश्वादित्वाद् रनिपातने गह्वरम् । "अखातबिले तु गह्वरं गुहा" इति हैम: । रुदितविशेषो । वा गह्वरम् । "तदपुष्टं तु गह्वरं(रः)" इति हैम: । तद् रुदितम् अपुष्टं गद्गद्स्वरत्वाद जातोच्चपूत्कारं गाहते हृदयान्तरिति गह्वरम् । 'जठर-क्रकर-मकर-शङ्कर-कर्पर-कूर्पर2 तोमर-पामर-प्रामर-प्राद्मर-सगर-नगर-तगरोदरादर-शृदर-दृदर-कृदर-कुकुन्दर-गोर्वराम्बर. मुखर-खर-डहर-कुञ्जरा-जगरादयः' ॥४०३॥ इति 'उणादिश्रीसि०'सूत्रेण गाधातोः - किदरप्रत्ययान्तो निपातः । 'पा० मते तु गह्वरः पु०, गाधातोर्वरच्प्रत्यये निपात्यते । "निकुञ्जे, दम्भे, स्ने, रोदने, विषमस्थाने, अनेकानर्थसङ्कटे च नपुं०, गुहायां नपुंस्त्री०" | "गह्वरो बिलदम्भयोः, कुञ्जेऽथ" इत्यनेकार्थसङ्ग्रहः । स्त्रीत्वपक्षे ङीप् । अत्र तु गुहार्थः । । तद् गह्वरम्-गुहाम् । आविवेश-प्रविवेश ॥ वाच्यपरिवर्तनं त्वेवम्-अन्येधुर्मुनिहोमधेन्वा आत्मानुचरस्य भावं जिज्ञासमानया से * सत्या गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोः गह्वरमाविवेशे ॥ द्वाविंशे दिने धेनुः निजसेवकस्याऽभिप्रायं ज्ञातुमिच्छन्ती-द्वाविंशे दिने नन्दिनी । किमयं स्वार्थसाधनानुरोधादुत विशुद्धभक्तियोगात् मामेवं सेवते, इति मायाबलेन निजसेवकस्य का * दिलीपस्याऽभिप्रायं ज्ञातुमिच्छन्ती सुरसरित्प्रपातान्तर्विरूढबालतृणां हिमालयगुहामाविवेश, र व इति सरलार्थः ॥२६॥ सा दुष्प्रधर्षा मनसाऽपि हिंस्पैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥२७॥ सेति । सा नन्दिनी । हिंसन्तीत्येवंशीला इति हिंसनशीला 'स्म्य-जस-हिंस-दीप१. अभि० चि० च० १०३३ । २. अभि०चि० ष० १४०२ । * ३. अनेकार्थसङ्ग्रहे तृ० ५४३ । In clot ७७ Page #89 -------------------------------------------------------------------------- ________________ कम्प-कम-नमो र:' (५।२।७९।।) इति 'श्रीसि०'सूत्रेण 'हिस्-हिंसने' धातोः शीलादावर्थे । 'र'प्रत्यये हिंस्राः-व्याधाः । “हिजै(स्र) शरारुधा(घा)तुकौ" इति हैम:' । "हिंस्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा" इत्यनेकार्थसङ्ग्रहः२ । “पा०'मतेऽपि हिंस्धातोः रप्रत्यये का हिंस्रः त्रिलिङ्गः। "हिंसाशीले, घोरे, भये, हरे, भीमसेने च पुं०, मांस्याम्, काकादन्याम् । * एलवालुकायाम्, नाड्याम्, जटामांस्याम्, गवेधुकायाम्, शिरायां च स्त्री०"। अत्र घातुकार्थः । तैः हिंस्त्रैः-घातुकैर्व्याघ्रादिभिः इत्यर्थः । मन्यते जानात्यर्थमिति 'अस्' ॥९५२॥ इति 'उणादिश्रीसि०'सूत्रेण 'मनिच्ज्ञाने' इति धातोः अस्प्रत्यये मन:-नोइन्द्रियम् । “अन्तःकरणं मानसं मनः, हच्चेतो हृदयं । चित्तं स्वान्तं गूढपथोच्चलेः" इति हैम: । 'यदवोचामस्तर्के सर्वार्थसंग्रहणं मनः' इति । तवृत्तौ । 'पाणि०'मते 'मन्-बोधे' दिवादिः आत्मने० सक० अनिट्धातोः तनादिः । आत्म० सक० सेट्धातोर्वा मन्यतेऽनेनेति असिप्रत्यये करणे असुन्प्रत्यये वा "मनः । सर्वेन्द्रियप्रवर्तके अतीन्द्रिये इति न्यायमते । वेदान्तमते सङ्कल्पविकल्पात्मकवृत्तिमदन्तः करणे, तच्च सुखदुःखाद्याधारः । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृति_(6रि। त्येतत्सर्वं मन एव इति श्रुतेः । न्यायमते तज्ज्ञानसाधनमिति भेदः, मनःशिलायां च" | इह तु सर्वेन्द्रियप्रवर्तकमतीन्द्रियम् । तच्च न्यायमतेऽणुस्वरूपम् । तदसाम्प्रतम् । सर्वत्र । * देहावयवावच्छेदेन सुखदुःखाद्युपलब्धेः । जैनमते 'जीववत् सर्वशरीरावगाहि मनस्त्वेन भी र परिणतमनोवर्गणापुद्गलसमूहात्मकम् । तेन मनसा । अपि-पुनः । को दुःखेन धृष्यतेऽसौ इति दुष्प्रधर्षा-दुर्धर्षा-अनभिभवनीयेति यावत् । एतीति इण्धातोः । तिच्प्रत्यये इति-अव्ययं, "हेतौ, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, * स्वरूपे, सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्श, माने, और इत्थमर्थे, प्रकर्षे, उपक्रमे च" । अत्र हेत्वर्थः । इति-हेतोः । ____ अद्यते वज्रेणेति 'तङ्कि-वळ्यङ्कि-मक्य-हि-शद्यदि-सद्यशौ-वपि-वशिभ्यो रिः' ॥६९२॥ इति 'उणादिश्रीसि०'सूत्रेण 'अदंक्-भक्षणे' धातोः रिप्रत्यये अद्रिः-पर्वतः । ॐ १. अभि०चितृ० ३६९ ।। २. अनेकार्थसङ्ग्रहे द्वि० ४६१ । ३. अभि० चि० ष० १३६९ । ७८ Page #90 -------------------------------------------------------------------------- ________________ | "शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान् ग्रावा पर्वतभूध्रभूधरधराहार्या नगः" इति हैम: । "गिरौ प्रपाती कुट्टारः उर्वङ्गः कन्दराकरः" इति हैमशेषः । अद्रिःवृक्षः । "वृक्षोऽगः शिखरी च शाखिफलदावद्रिहरिदुर्दुमो जीर्णो दुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः । नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंहिपः सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः ॥" इति हैमः । | "वृक्षे चाऽऽरोहकः स्कन्धी सीमिकः हरितच्छदः उरुः जन्तुः वह्निभूश्च" इति हैमशेषः । जैनेतरमतेनेन्द्रशत्रुसप्तके द्वितीयो द्विट् । तत्र अदन्तीति अद्रयः । “अस्य तु द्विषः पाकोऽद्रयो । | वृत्रः पुलोमा नमुचिर्बलः जम्भः" इति हैम: । अस्येतीन्द्रस्य द्विषः शत्रवः, ते तुम * पाकादयः सप्त । 'पा० मते तु अद्धातोः क्तिन्प्रत्यये अद्रिः पुं० । “पर्वते, वृक्षे, सूर्ये, हर परिमाणभेदे च" । अत्र तु पर्वतोऽद्रिः । शोभनं भिदादित्वात् अङि शोभा । "आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः लक्ष्मीश्छाया च शोभायाम्" इति हैम: । शोभा अलङ्कारविशेषः । "प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः दीप्तिश्चायत्नजाः" इति हैम: । र शोभा रूपाद्यैः पुंभोगपबृंहितैः किञ्च्छियान्तराश्रयणम् इति तद्वृत्तिः । 'पा० मते शोभते का इति शुभ्धातोः अप्रत्यये टापि च शोभा स्त्री० । "दीप्तौ, हरिद्रायां, गोरोचनायां च" । अत्र र तु दीप्तिः कान्तिर्वा । अद्रेः-पर्वतस्य शोभा-कान्तिः आद्रिशोभा । प्रहि(ही)यते स्मेति । प्रपूर्वात् 'हि-वधने गतौ च' धातोः धाधातोर्वा कर्मणि क्ते प्रहितं त्रिलिङ्गः । “क्षिप्ते, निरस्ते, प्रेरिते च, सूपे न०" । अत्र तु क्षिप्तः प्रेरितो वाऽर्थः । ईक्ष्यत आभ्यामिति ईक्षणे असा र नेत्रे । 'चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकं लोचनं दर्शनं दृक् च''इति हैम: । "अक्ष्णि * रूपग्रहो देवदीपः" इति हैमशेषः । यद्वा ईक्ष्यते इति ईक्षणम्-अवलोकनम् । "ईक्षणं तु र * १. अभि० चि० च० १०२७ । २. अभि० चि० हैमशेषे - १५८ । ३. अभि० चि० च० १११४ । ४. अभि० चि० हैमशेषे - १७३-७४ । 1 ५. अभि० चि० द्वि० १७४-७५ । ६. अभि० चि० ० १५१२ । ७. अभि० चि० तृ० ५०९ । ८. अभि० चि० तृ० ५७५ । ९. अभि० चि० हैमशेषे - १२१ । ७९ Page #91 -------------------------------------------------------------------------- ________________ निशामनम्, निभालनं, निशमनं, निध्यानमवलोकनम्, दर्शनं, द्योतनं, निर्वर्णनं च" इति । हैम: । 'पा०'मते ईक्ष्धातो वे ल्युटि अवलोकने, करणे ल्युटि नेत्रे च" । अत्र तु - नेत्रार्थः । अदिशोभायां अद्रिशोभायै वा प्रहिते ईक्षणे येन स अद्रिशोभाप्रहितेक्षणः, - तेनाऽद्रिशोभाप्रहितेक्षणेन-पर्वतशोभावलोकनदत्तनयनेन । नृशब्दात् पाधातोः अप्रत्यये, 'पा०'मते च कप्रत्यये नन् पातीति नृपो राजा । * "राजा राट् पृथिवीशक्रमध्यलोकेशभूभृतः, महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा-नृ पः" इति हैम: । "नृपः चतुर्योजनपर्यन्तेष्वधिकारी नृपो भवेत् इत्युक्ते, राजविशेषे, राजमात्रे च" । अत्र राजमात्रः । तेन नृपेण-राज्ञा दिलीपेन । लक्ष्यते स्मेति लक्षितम् । म को 'लक्ष्-दर्शने' धातोः कर्मणि क्ते लक्षितं त्रिलिङ्गः । “लक्षणया बोधितेऽर्थे, ज्ञाते, अनुमिते पर च । कर्तरि क्ते लक्षणाश्रये, लक्षकशब्दे च" । अत्र तु ज्ञातार्थः । न लक्षितं अलक्षितं अज्ञातम् । न भातीति भाधातोः किप्रत्यये अभि अव्ययं । "कञ्चित्प्रकारं प्राप्तस्य द्योतने, र आभिमुख्ये, अभिलाषे, वीप्सायाम, लक्षणे, समन्तादर्थे च" । अत्राऽऽभिमुख्यमर्थः । उत्पूर्वात् पत्धातोः भावे ल्युटि उत्पतनमिति, उत्पत्यते इति उत्पतनम्, ऊर्ध्वगमने उत्पत्तौ । च । आभिमुख्येन उत्पतनं अभ्युत्पतनम् । अलक्षितं अभ्युत्पतनं यस्य सः अलक्षिताभ्युत्पतनः-अदृष्टाक्रमणः । हिनस्तीति सिंहः । "हिंसेः सिम् च' ॥५८८॥ इति 'उणादिश्रीसि०'सूत्रेण व * "हिंसुप्-हिंसायाम्' इत्यस्माद् धः प्रत्ययः अस्य च सिमादेशः सिंहः-मृगराजः । यद्वा की 0 हिंस्धातोरचि पृषोदरादित्वात् सिंहः । “सिंहः कण्ठीरवो हरिः, हर्यक्षः केसरीभारिः । * पञ्चास्यो, नखरायुधः, महानादः पञ्चशिखः पारिन्द्रः, पत्यरी मृगात्, श्वेतपिङ्गोऽपि" इति या T: हैम:३ । सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभःक्रान्तो गणेश्वरः शृङ्गोष्णीषो रक्त . जिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेष: । "सिंहस्तु राशिभेदे मृगाधिपे श्रेष्ठे * स्यादुत्तरस्थश्च" इत्यनेकार्थसङ्ग्रहः । सिंहः चतुर्विंशस्य जिनपतेलाञ्छनं भगवतो - वर्द्धमानस्वामिनः । 'पा०'मते सिच्धातोः कप्रत्यये हिंस्धातोरचि वा पृषोदरादित्वात् । १. अभि० चि० तृ० ५७६-७७ । २. अभि० चि० तृ० ६८९-९० । ३. अभि० चि० च० १२८३-८४-८५ । ४. अभि० चि० हैमशेषे १८४-८५ । ५. अनेकार्थसङ्ग्रहे द्वि० ५९०-९१ । ८० Page #92 -------------------------------------------------------------------------- ________________ "सिंहः पुंस्त्री०, “सिंहो वर्णविपर्ययात्' । स्वनामख्याते पशुभेदे, रक्तशोभाञ्जने, मेषादितः । पञ्चमे राशौ च, पदान्तस्थः श्रेष्ठार्थे च" । अत्र पशुभेदः मृगराजः । "सिंहो मृगेन्द्रः पञ्चास्यः" इत्यमरः । प्रहसनं (प्रसहन) पूर्वमिति प्रसह्य हठे । "हठे प्रसह्य" इति हैमः । श्री , यथा-'प्रसह्य वित्तानि हरन्ति चौराः' । 'पा०'मते प्रपूर्वात् सधातोः ल्यपि प्रसह्य-अव्ययं की हठादित्यर्थे । "प्रसह्य तेजोभिरसङ्ख्यतां गतैः" इति माघः [सर्ग-१ श्लो० २७] । "प्रसह्य तु हठार्थकम्" इत्यमरः । किल्धातोः कप्रत्यये किल-अव्ययं, "वार्तायाम्, पर र अनुशयार्थे, निश्चये, सम्भाव्ये, प्रसिद्धप्रमाणद्योतके, सत्ये, हेतौ, अरुचौ, अलीके, तिरस्कारे म च" । अत्र किलेत्यलीके ॥ वाच्यपरिवर्तनं त्वेवम् – तया हिंस्रैर्मनसाऽपि दुष्प्रधर्षया (भूयते) इति अद्रिशोभा* प्रहितेक्षणेन नृपेण अलक्षिताभ्युत्पतनेन सिंहेन प्रसह्य सा चकृषे ॥ किल महाप्रभावामिमां कामधेनुं सिंहादयो मनसाऽप्यभिभवितुं न प्रभवन्तीति । D, निश्चित्य पर्वतशोभावलोकनदत्तदृष्टिना भूपेनाऽवलोकित एव सिंहो झटिति हठात् तां कामधेनोर(नुम)लीकमाययाऽऽक्रान्तवान्, इति सरलार्थः ॥२७॥ तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥२८॥ तदीयमिति । गुह्यतेऽनयेति भिदादित्वात् अङि गुहा-गह्वरम् । “अखातबिले तु को र गह्वरं गुहा" इति हैम: । “गुहः स्कन्दे गुहा पुनः, गह्वरे सिंहपुच्छ्यां च'' इत्यनेकार्थसङ्ग्रहः । ॐ 'पा० मते गुह पुं० । गुधातोः कप्रत्यये "कार्तिकेये, अश्वे, राममित्रे, शृङ्गवैराधिपे, चण्डालनाथे, गते, विष्णौ च पुं०, सिंहपुच्छीलतायाम्, अकृत्रिमे, देवखाते, पर्वतगर्ते, हृदये । च स्त्री०" । "गुहां प्रविष्टो" इति श्रुतिः, "सैषा गुहा दुरवगाहा" इति च श्रुतिः । "दरी में तु कन्दरो वा स्त्री देवखातबिले गुहा" इत्यमरः । अत्र तु गह्वरार्थः । नितरां बध्यते स्मेति र निबद्धः-नियन्त्रितः । "बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः, (सन्दानितः संयतश्च) मा 'इति हैमः । शपति कूटोच्चारणमिति 'शा-शपि-मनि-कनिभ्यो दः ॥२३७।। इति 'उणादिKha, अम० दि० सिंहादिवर्गे -१।। २. अभि० चि० ष० १५३९ । ३. अम० तृ० अव्ययवर्गे - १० । ४. अभि० चि० च० १०३३ । १५. अनेकार्थसङ्ग्रहे द्वि० ५८५ । ६. अम० द्वि० शैलवर्गे - ६ । मा ७. अभि० चि० त० ४३८-३९ । निबा. ८१ Page #93 -------------------------------------------------------------------------- ________________ श्रीसि०'सूत्रेण 'शपी-आक्रोशे' धातोः दप्रत्यये शब्द:-श्रोत्रग्राह्योऽथः । यद्वा शब्द्यते इति शब्दः । "शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः, निर्झदो निनदो हादो निःस्वानो निःस्वनः स्वनः, रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः, क्वणनं । निक्वणः क्वाणो निक्वाणश्च क्वणो रणः" इति हैम: । 'शब्द-शब्दकरणे' अदादिः चुरादिः । उभ० सक० सेट्धातोः घत्रि शप्धातोर्दन्प्रत्यये वा "शब्दः पुं० ध्वन्यात्मके, वर्णात्मके च श्रोत्रेन्द्रियग्राह्ये, नैयायिकादिमते आकाशादिस्थे गुणभेदे च" ! 'आकाशगुणः शब्दः' पर , इति नैयायिकाः । तदसाम्प्रतम् । शब्दप्रतिघातादेरनुग्रहोपघातदर्शनात् फोनोग्राफादिषु म गृह्यमाणत्वाच्च भाषात्वपरिणतभाषावर्गणापुद्गलस्कन्धरूपोऽयम् । प्रथधातोर्डतिप्रत्यये प्रति का -अव्ययं, "व्याप्ती, लक्षणे, कञ्चित्प्रकारमापन्नस्य कथने, भागे, प्रतिदाने, प्रतिनिधीकरणे, स्तोके, क्षेपे, निश्चये, व्यावृत्तौ, आभिमुख्ये, स्वभावे च" । अत्र व्याप्त्यर्थः । प्रतिरूप:(गतः) शब्दः प्रतिशब्दः-प्रतिध्वनिः । दृणाति हुस्वभावमिति 'मघा घवाघदीर्घादयः' ॥११०॥ श्री इति 'उणादिश्रीसि०'सूत्रेण दृणातेर्दीरि घप्रत्ययान्ते निपातने दीर्घः अन्य(आय)तः उच्चश्च । * "दीर्घायते समे" इति हैमः२ । "दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्" इत्यमरः । र 'पा०'मते तु दृधातोर्घा घस्य नेत्वम् दीर्घः पुं० । "शाललतावृक्षे, उष्ट्र, द्विमात्रे स्वरवर्णे च; आयते त्रिलिङ्गः" । अत्र त्वायतार्थः । गुहायां निबद्धः गुहानिबद्धः, गुहानिबद्धश्चाऽसौ व प्रतिशब्दश्च गुहानिबद्धप्रतिशब्दः, गुहानिबद्धप्रतिशब्देन दीर्घम् गुहानिबद्धप्रतिशब्ददीर्घम्। कन्दरप्रतिबद्धप्रतिध्वानायतम् । तस्याः इदम् तदीयम् । आफ्धातोः क्विपि पृषोदरादित्वात् पलोपे आ-अव्ययं, "वाक्ये (वाक्यस्याऽन्यथात्वद्योतने), "पूर्वमेवं मंस्था इदानीमेवम्" इति प्रतिपादनपरे । 0 स्मृतौ (आ एवं मन्यसे इति स्मृतस्याऽन्यथापादने), अनुकम्पायां, समुच्चये, अङ्गीकारे, * ईषदर्थे, क्रियायोगे, सीमायां, व्याप्तौ च" । वाक्यस्मृतिभिन्नेऽस्य ङित्वमिच्छन्ति, यदाह ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ।। इति । इह व्याप्त्यर्थः । आक्रन्दनं रुदितम् आक्रन्दितम् । "रुदितं क्रन्दितं कुष्टम्" इति । १. अभि० चि० ष० १३९९-१४०० । २. अभि० चि० ष० १४२८ । ३. अम० तृ• विशेष्यनिघ्नवर्ग ८२ Page #94 -------------------------------------------------------------------------- ________________ | * A SN हैम: । यद्वा आक्रन्द्यते इति आकन्दितम् । 'पा०'मते आपूर्वात् क्रन्द्धातोः क्तप्रत्यये । आक्रन्दितम् । आफूर्वात् 'ऋ-गतौ' भ्वादिर्जुहोत्यादिश्च प० सु० (स.) अनिट् , 'ऋहिंसायां च' क्रयादिः पर० सक० अनिट् । तत्र गत्यर्थाद्धातोः क्तप्रत्यये ऋच्छति स्म इयर्ति स्मेति वाऽऽर्तः पीडिते, दुःखिते, सुस्थे च । उत्तमक्षमादिभिर्गुणविशेषैर्भावितात्मा साध्नोतीति । साधुः, साधयति वा सम्यग्दर्शनादिभिः परमं पदमिति 'कृ-चा-पा-जि-स्वदि-साध्यशौ-- दृ-स्ना-सनि-जा-निरहीण्भ्य उण्' ॥१॥ इति 'उणादिश्रीसि०'सूत्रेण 'साधंट्-संसिद्धौ' इति धातोः उत्तमक्षमादिभिस्तपोविशेषैर्भावितात्मा सानोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः-संयतः । उभयलोकफलं वा साधयतीति साधुः-धर्मशीलः । । "अथ मुमुक्षुः श्रमणो यतिः, वाचंयमो यती साधुरनगार ऋषिमुनिः, निग्रन्थो भिक्षुः" इति । हैम:२ । साधयति कार्याणीति वा साधुः-सज्जनः । “साधौ सभ्यार्यसज्जनाः" इति हैम: । साधु-रमणीयम् । “चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे, वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च, साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे, काम्यं कर्मे कमनीयं का सौम्यं च मधुरं प्रियम्" इति हैमः ।। “साधुजैनमुनौ वार्द्धषिके सज्जनरम्ययोः" इत्यनेकार्थसङ्ग्रहः । सानोति परकार्यमिति वा साधुः, स चैवंभूतो यदाह पण्डितराजः परार्थव्यासङ्गादुपजहदपि स्वार्थपरतामभेदैकत्वं यो वहति गुरुभूतेषु सततम् । स्वभावाद्यस्याऽन्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥१॥ सत्पु(पू)रुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारै रिन्दुर्विकासयति कैरविणीकुलानि ॥१॥ 'पाणि 'मते साध्धातोरुणप्रत्यये साधुः त्रिलिङ्गः । "उत्तमकुलजाते, सुन्दरे, और १. अभि० चि० ष० १४०२ । २. अभि० चि० प्र० ७५-७६ । ३. अभि० चि० तृ० ३७९ । ४. अभि० चि० ष० १४४४-४५ । ५. अनेकार्थसङ्ग्रहे द्वि० २५० । र ८३ . Page #95 -------------------------------------------------------------------------- ________________ VAASE ARTS मनोहरे, उचिते च, स्त्रियां ङीप् मुनौ, जिने च; न प्रहष्यति सन्माने नाऽपमाने च कुप्यति । न क्रुद्धः परुषं ब्रूयादेतद्धि साधुलक्षणम् ॥ इत्याद्युक्तधर्मवति जने, वार्द्धषिके च पुं०" । इह तूचितार्थः । आर्तेषु साधुः और हितकारी आर्तसाधुः, तस्याऽऽर्तसाधोः-दीनरक्षणपरिचितस्य । नन् पातीति नृपः, तस्य नृपस्य, राज्ञो दिलीपस्य । स्थावरत्वात् न गच्छतीति 'नगोऽप्राणिनि वा' (३।२।१२७॥) इति 'श्री०सि०'सूत्रेण 'नगः' इति निपातो वा नञोऽदभावः । नगः पर्वतोऽगोऽपि । नगाः वृक्षाः । 'पा०'मते तु न-पूर्वात् गम्धातोः डप्रत्यये "नगः पर्वते, वृक्षे च पुं०" । अत्र तु पर्वतार्थः । इन्दतीति 'भी-वृधि-रुधिवज्यगि-रमि-वमि-वपि-जपि-शकि-स्फायि-वन्दीन्दि-पदि-मदि-मन्दि-चन्दि-दसिघसि-नसि-हस्यसि-वासि-दहि-सहिभ्यो रः' ।।२८७।। इति 'उणादिश्रीसि०'सूत्रेण 'इदुपरमेश्वर्ये' इति धातोः रप्रत्यये इन्द्रः-शक्रः पूर्वदिक्पतिश्च । “इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री बीडौजा मघवान् पुरन्दरः, प्राचीनबर्हिः पुरुहूतवासवौ सङ्कन्दनाखण्डलमेघवाहनाः, सुत्राम-वास्तोष्पति-दल्मि-शका वृषा शुनासीर-सहस्रनेत्रौ, पर्जन्य-हर्यश्व-ऋभुक्षि-बाहुदन्तेयवृद्धश्रवसस्तुराषाट्, सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः, कौशिकः पूर्वदिग्-देवाप्सरःस्वर्ग-शची-पतिः, पृतनाषाडुग्रधन्वा मरुत्वान् मघवा" इति हैम:' । इन्द्रे तु "खदिरो नेरी त्रायस्त्रिंशपतिः जयो गौरवास्कन्दी वन्दीको वराणो देवदुन्दुभिः किलाणातो हरिवान के यामनेमिरसन्महाः शयीचिर्माहिरो (शपीविः मिहिरो) वज्रदक्षिणो वि(व)युनोऽपि च" इति हैमशेषः२ । इन्द्रः पूर्वदिक्पतिः । तिर्यग्दिशां तु पतय इन्द्राग्नियमनैऋताः । वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ [इति हैम:२] इन्द्रादयोऽष्टौ दिक्पालाः । इन्द्रः विषभेदः । “अथ हलाहलः, वत्सनाभः कालकूटो म ब्रह्मपुत्रः प्रदीपनः, सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च; अहिच्छत्रो मेषशृङ्गः १. अभि० चि० द्वि० १७१-७२-७३-७४ । २. अभि० चि० हैमशेषे -३३ । ३. अभि० चि० द्वि० १६९ । * * ८४ Page #96 -------------------------------------------------------------------------- ________________ Pav - कुष्ठ-वालकनन्दनाः, कैराटको हैमवतो मर्कट: करवीरकः, सर्षपो मूलको गौराद्रकः । स, सक्तुक-कर्दमौ, अकोल्लसारः कालिङ्गः, शृङ्गिको मधुसिक्थकः, इन्द्रो लालिको विस्फुलिङ्ग* पिङ्गलगौतमाः, मुस्तको दालवश्चेति स्थावरा विषजातयः" इति हैम: । 'एते सर्वेऽपि । र स्थावरवनस्पतिभवत्वात् स्थावरा विषस्य जातयो भेदाः' इति । एते सर्वेऽपि पुंक्लीबलिङ्गाः' * इति वाचस्पतिः, इति तट्टीकायाम् । इन्दनादिन्द्रः स्वामी । "अधिपस्त्वीशो नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः प्रभु र्तेश्वरो विभुः, ईशितेनो नायकश्च" इति हैम: । और , "इन्द्रः शकेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिज्जके" इत्यनेकार्थसङ्गहः । 4 'पाणि'मते तु इदिधातोः अप्रत्यये इन्द्रः पुं०, “देवाधिपे, परमेश्वरे, परमैश्वर्ययुक्ते का (परमशोभायुक्ते इत्यर्थः), इन्द्रदैवतज्येष्ठानक्षत्रे । द्वादशार्काश्चतुर्दश चन्द्राः इति तु जैनेतरमते . जैनमते तु असङ्ख्या अर्काः इन्द्राश्च चतुष्षष्टिः इति । विष्कुम्भादितः षड्विशे योगे, * कुटकवृक्षे च" । अत्र तु स्वाम्यर्थः-परमशोभायुक्तो वेत्यर्थः । नगानां नगेषु वेन्द्रः नगेन्द्रः-पर्वताधिपः, पर्वतेषु शोभमानो वा हिमालयः । सज्यते स्मेति सज्धातोः कर्मणि । क्ते सक्ता "आसक्ते, अविरते च त्रिलिङ्गः" । "तत्परे प्रसितासक्तौ” इत्यमरः । नगेन्द्रे र सक्ता नगेन्द्रसक्ता, तां नगेन्द्रसक्ताम्-पर्वतरामणीयकावलोकनप्रसिताम् । दृश्यतेऽनयेति दृश्धातोः करणे क्तिप्रत्यये, 'पा०'मते च क्तिन्प्रत्यये दृष्टिःचक्षुः। "चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैमः५ । | "अक्ष्णि रूपग्रहो दी(दे)वदीपः" इति हैमशेषः । दर्शनमिति भावे क्तिप्रत्यये दृष्टिः मतिः । "मतिर्मनीषा बुद्धि/र्धिषणाज्ञप्तिचेतनाः, प्रतिभा प्रतिपत् प्रज्ञाप्रेक्षाचिदुपलब्धयः, संवित्तिः शेमुषी दृष्टिः" इति हैमः । दृश्धातोः "भावे क्ति(क्तौ) निदर्शने, बुद्धौ च, करणे क्तिनि । नेत्रे, द्वित्त्वसङ्ख्यायाम्, "चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभासिका दृष्टिरित्युच्यते" इत्युक्तायां का मनोवृत्तौ च" । अत्र तु नेत्रार्थः । जैनमते च "ओघ-योगभेदेन द्विविधा, सम्यग्दृष्ट्यादिभेदेन र त्रिविधा च । तत्र योगदृष्टि:१. अभि० चि० च० ११९५-९६-९७-९८-९९ । २. अभि० चि० तृ० ३५८-५९ । ३. अनेकार्थसङ्ग्रहे द्वि० ३८५ । ४. अम० तृ० विशेष्यनिघ्नवर्गे - ७ ।। ५. अभि० चि० तृ० ५७५ । ६. अभि० चि० हैमशेषे - १२१ । ७. अभि० चि० द्वि० ३०८-९ । Page #97 -------------------------------------------------------------------------- ________________ "मित्रा तारा बला दीप्रा स्थिरा क्रान्ता प्रभा परेति भेदादष्टधा" । तत्स्वरूपं च योगदृष्टिसमुच्चये द्वात्रिंशद्वात्रिंशिकायां च । "दृष्टिज्ञानेऽक्षिण दर्शने" इत्यनेकार्थसङ्ग्रहः * तां दृष्टिम् । अश्नुतेऽनयेति 'अशो रश्चादिः' ॥६८८॥ इति 'उणादिश्रीसि० सूत्रेण 'अशौटि* व्याप्तौ' धातोः मिप्रत्यये धातोरादौ रेफागमे च रश्मिः प्रग्रहः मयूखश्च । “रश्मौ वल्गाऽवक्षेपणी कुशा" इति हैम:२ । अश्नुते द्यामिति वा रश्मिः-किरणः । "रोचिरुस्ररुचिशोचिरंशुगो और ॐ ज्योतिरर्चिरुपधृत्यभीशवः, प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः, पाद दीधितिकर-द्युति-द्युतो रुग्विरोक-किरण-त्विषि-त्विषः, भा-प्रभा-वसु-गभस्ति-भानवो भा-मयूख-महसी छविविभा" इति हैम: । "रश्मिघृणिप्रग्रहयोः" इत्यनेकार्थसङ्ग्रहः । 'पा०'मते अश्धातोः मिप्रत्यये धातोरशादेशे च, यद्वा 'रश्-स्वप्ने' धातोः मिप्रत्यये । का "रश्मिः पुं० किरणे, अश्वादिदामनि च; पद्मे नपुं० ।" "किरणप्रग्रहौ रश्मी" इत्यमरः । और र अत्र प्रग्रहार्थः । तेषु रश्मिषु । आदायेव गृहीत्वेव । निवर्तयामास-पर्वतावलोकनात् । परावर्तयामास ॥ __वाच्यपरिवर्तनं त्वेवम्-गुहानिबद्धप्रतिशब्ददीर्घेण तदीयेनाऽऽक्रन्दितेन आर्तसाधो नृपस्य नगेन्द्रसक्ता दृष्टिः रश्मिष्वादायेव निवर्तयामास निवर्तयाञ्चक्रे । म यथा सारथिः धावन्तमश्वं रश्मिभिराकृष्य निवर्तयति, तथैव सिंहाक्रमणेन | गुहानिबद्धप्रतिशब्दत्वेनाऽतिदीर्घस्तस्याः क्रन्दनशब्दो राज्ञो दिलीपस्य पर्वतसक्तां दृष्टिं ततः | परावर्तयामास, इति सरलार्थः ॥२८॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥२९॥ [स इति ।] धन्यतेऽर्यते धमति शब्दायते ज्याघातेन वेति 'रुद्यतिजनि-तनिकि धनि-मनि-ग्रन्थि-पृ-तपि-त्रपि-वपि-यजि-प्रादि-वेपिभ्य उस्' ॥९९७॥ इति 'उणादि श्रीसि० सूत्रेण 'धन्-धान्ये' इति सौत्राद्धातोः धम्धातोर्वा उस्प्रत्यये धनु:-चापम् । १. अनेकार्थसङ्ग्रहे-द्वि० ९० ।। २. अभि० चि० च० १२५२ । ३. अभि० चि० द्वि० ९९-१०० । ५. अनेकार्थसङ्ग्रहे-द्वि० ३२६ । * ५. अम० तृ० नानार्थवर्गे -१४५ । ART ८६ Page #98 -------------------------------------------------------------------------- ________________ "धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम्, द्रुणाऽऽसौ" इति हैम: । धनुरुकारान्तोऽपि भवति, तत्राऽपि 'धन्-धान्ये' इति सौत्राद्धातोः 'भृ-मृ-तृ-त्सरि-तनि-धन्यनि-मनि-मस्जिका शी-वटि-कटि-पटि-गडि-चञ्च्यसि-वसि-त्रपि-श-स्व-स्निहि-क्लिदि-कन्दीन्दि-विन्द्य न्धि-बन्ध्यणि-लोष्टि-कुन्थिभ्य उ:' ॥७१६।। इति 'उणादिश्रीसि०'सूत्रेण उप्रत्यये "धनुः । अस्त्रं, दानमानं च" । अत्र तूस्प्रत्ययान्तः । धनुर्धरतीति यौगिकत्वात् धनुर्धरः-धनुर्भृत् । । 'पा०'मते धन्धातोः उस्प्रत्यये धनुस् पुं० ।“प्रियालवृक्षे; धनुर्धरे त्रिलिङ्गः; चापे, मेषादितो पनि नवमे राशौ च नपुं०" । धरतीति धृधातोरच्प्रत्यये धरः । धनुषो धरः धनुर्धरः । संज्ञायां का धनुर्धारयतीति ‘धारेर्धर्च' (५।१।११३||) इति 'श्रीसि०' सूत्रेण खप्रत्यये धारेर्धरादेशे च । धनुर्धरः । 'पा०'मते च संज्ञायां धनुर्धारयतीति 'संज्ञायां भृ-तृ-वृ-जि-धारि-सहि-तपि दमः' [३।२।४६।।] इति सूत्रेण णिजन्तधृधातोः खचि 'खचि हुस्वः' [६।४।९४॥] इति सूत्रेण च हुस्वे धनुर्धरः धानुष्के (तीरंदाज-निशान ताकी तीर फेंकनार) । "तूणी धनुर्भूद अन्य धानुष्क: स्यात्" इति हैम: । धनुर्धरः-कोदण्डधारी धनुष्मानिति यावत् । “धन्वी * धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः" इत्यमरः ।। स दिलीपो राजा । पाट्यतीति ण्यन्तात् 'पट-गतौ' धातोः 'मृदि-कन्दि-कुण्डिमण्डि-मङ्गि-पटि-पाटि-शकि-केवृ-देव-कमि-यमि-शलि-कलि-पलि-गुध्वञ्चि-चञ्चि - - चपि-वहि-दहि-कुहि-तृ-सृ-पिशि-तुसि-कुस्यानि-द्रमेरलः' ॥४६५।। इति 'उणादि श्रीसि०'सूत्रेणाऽलप्रत्यये पाटलः वर्णः "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" * [इत्यमरः] इति तद्वत्याम् आपि पाटला । पाटलो वृक्षविशेषोऽपि । “पाटलिः पाटला" या MA: इति हैम:५। 'ताम्रपुष्पत्वाद्वा' इति तद्वृत्तिः । 'पा०'मते तु पाटयतीति णिजन्तपटधातोः और कलच्प्रत्यये पाटल: पुं० । "श्वेतरक्तवर्णे, तद्वति त्रिलिङ्गः, पारुल इति ख्याते वृक्षे स्त्री०; . तत्पुष्पे आशुधान्ये च नपुं०" आंसु(आशु)नाम्ना मिथिलायां प्रसिद्ध धान्यं भाद्रपदे मासिक जातमशुद्धमिति कृत्वा देवपितृक्रियायां न व्यापार्यते । हेमन्तौ जातं तच्छुद्धं व्यवह्रियते । तुषसहितं तत् शालिसदृशम् । तस्यां पाटलायां-ईषद्रक्तवर्णायाम् । "श्वेतरक्तस्तु पाटलः" ' इत्यमरः । १. अभि० चि० तृ. ७७५ २. अभि० चि० तृ० ७७१ । ३. अम० द्वि० क्षत्रियवर्गे -६९ । ४. अम० प्र० धीवर्ग-१८ । ५. अभि० चि० च० ११४४ । ६. अम० प्र० धीवर्ग-१६ । ८७ Page #99 -------------------------------------------------------------------------- ________________ गच्छन्त्याश्रयन्ति देवास्तामिति 'घुगमिभ्यां डोः' ॥८६७॥ इति 'उणादिश्रीसि०'* सूत्रेण 'गम्लँ-गतौ' धातोः डिति ओप्रत्यये गौः-स्वर्गः स्त्री-पु०लिङ्गः । "स्वर्गस्त्रिविष्टपं SP द्योदिवौ भुविस्तविषताविषौ नाकः, गौस्त्रिदिवमूर्ध्वलोकः सुरालयः" इति हैम: । “फलोदयो मेरुपृष्ठं वासवावाससैरिकः । दिदिविः दीदिविः धुश्च दिवं च स्वर्गवाचकाः" इति हैमशेष:२। * स्वश्चाऽव्ययेषु । गच्छत्यस्मात्तम इति वा "गौः-किरणः पुंस्त्री०" । "रोचिरस्ररुचिशोचिरंशुगो को ज्योतिर्चिरुपधृत्यभीशवः, प्रग्रहः शुचि-मरीचि-दीप्तयो धाम-केतु-घृणि-रश्मिप्रश्नयः, पाद-दीधिति-कर-द्युति-द्युतो रुग्विरोक-किरण-त्विषः; भाः प्रभा-वसु-गभस्ति-भानवो भा-मयूख-महसी छविविभा" इति हैम: । गच्छतीति वा गौः-वाणी । “वाग् ब्राह्मी । भारती, गौर्गीर्वाणी भाषा सरस्वती; श्रुतदेवी" इति हैमः । गच्छन्त्यस्यामिति वा गौः * पृथ्वी, गोरूपधरत्वाद्वा गौः । “भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुन्धरा, धात्री धरित्री र धरणी विश्वा विश्वम्भरा धरा; क्षितिः क्षोणी क्षमाऽनन्ता ज्या कुर्वसुमती मही, गौर्गोत्रा भूतधात्री क्षमा गन्धमाताऽचलाऽवनिः; सर्वसहा रत्नगर्भा जगती मेदिनी रसा, काश्यपी पर्वताधारा स्थिरेला रत्न-बीज-सूः विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः" इति हैम:५। और "अथ पृथिवी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका गोत्रकीला घनश्रेणी मध्यलोका जगद्वहान * देहिनी केलिनी मौलिमहास्थाली अम्बरस्थली" इति हैमशेषः । गच्छतीति वा गौः- वृषभः । “अथ ऋषभो वृषभो वृषः; वाडवेयः सौरभेयो भद्रः शक्कर-शाक्वरौ, उक्षाऽनड्वान् । ककुद्मान् गौर्बलीवर्दश्च शाङ्करः" इति हैम: । गच्छतीति वा गौः-सुरभिः । “गौः सौरभेयी - माहेयी माहा सुरभिरर्जुनी, उस्राऽघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुाषा; तम्पा निलिम्पिका को तंवा" इति हैमः । * सा सुरभिर्वर्णैरनेकधा शबला धवला इत्यादिः । “सा तु वर्णैरनेकधा" इति । हैम: १। गर्भवती सा प्रष्ठौही-२ । "प्रष्ठौही गर्भिणी" इति हैम:१० । वन्ध्या सा वशा३। "वन्ध्या वशा" इति हैम:१९ । वृषोपगा सा वेहद् गर्भोपघातिनी-४ । “वेहद् वृषोपगा" १. अभि० चि० द्वि० ८७ । २. अभि० चि० हैमरोषे -३ । ३. अभि० चि० द्वि० ९९-१०० । ४. अभि० चि० द्वि० २४१ । ५. अभि० चि० च० ९३५-३६-३७-३८ । ६. अभि० चि० हैमशेषे १५७-५८ । ७. अभि० चि० च० १२५६-५७ ८. अभि० चि० च० १२६५-६६ । ९. अभि० चि० च० १२६६ । १०. अभि० चि० च० १२६६ । ११. अभि० चि० च० १२६६ । NOA SNAKSNA. Page #100 -------------------------------------------------------------------------- ________________ WARNESEX SELEL इति हैम: । "वेहद गर्भोपघातिनी" इत्यमरश्च । अपप्रसववती मृतवत्सा स्रवद्गर्भा साऽवतोका ५ । "अवतोका स्रवद्गर्भा" इति हैम: । "मृतवत्सा स्रवद्गर्भा" इति नाममाला । म * अकालदुग्धा वृषेणाऽऽक्रान्ता च सा सन्धिनी गर्भग्रहणवती-६। "वृषाक्रान्ता तु सन्धिनी" इति हैम: । “अदुग्धा दोहकाले तु सन्धिनी" इति कात्यः । “सन्धिन्यकालदुग्धा गौषाक्रान्ता च सन्धिनी" इति शाश्वतः । चिरप्रसूता प्रौढवत्सा सा बष्कयिणी-७ । "प्रौढवत्सा बष्कयिणी" इति हैमः५ । प्रत्यग्रप्रसूतिका सा धेनुः-८ । “धेनुस्तु नवसूतिका" पर ( इति हैम:६ । बहुप्रसूतिः सा परेष्टुः-९ । “परेष्टुर्बहुसूतिः स्यात्" इति हैम: । एकशः । * प्रसूतिका गृष्टिः १० । “गृष्टिः सकृत्प्रसूतिका" इति हैम: । प्रातर्गर्भग्रहणवती सा काल्या ११ । "प्रजने काल्योपसर्या" इति हैम: । सुखेन दोहनीया सा सुव्रता-१२ । “सुखदोह्या तु सुव्रता इति हैम:१० । दुःखेन दोहनीया सा करटा-१३ । “दुःखदोह्या तु करटा" इति । हैम:११ । बहुदुग्धवती सा [वञ्जुला] द्रोणदुघा-१४ । “द्रोणदुग्धा द्रोणदुघा" इति हैम:१२ । - पुष्टस्तनवती सा पीनोध्नी-१५ । “पीनोध्नी पीवरस्तनी" इति हैम:१३ । पीतदुग्धा सा । धेनुष्या-१६ । “पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके" इति हैम:१४ । सर्वासु गोषूतमा सा नैचिकी-१७ । "नैचिकी तूत्तमा गोषु" इति हैम:१५ । बालगर्भवती सा पलिक्नी । "पलिक्नी-१८ बालगर्भिणी" इति हैम:१६ । प्रतिवर्ष प्रसववती सा समांसमीना-१९ । म * "समांसमीना तु सा या प्रतिवर्ष विजायते" इति हैम:१७ । एवमादयोऽनेके भेदाः । । अत्र तु गोशब्देन इषद्रक्तवर्णा गृष्टिः वञ्जुला पीनोघ्नी नैचिकीत्यादिरूपा गौाह्या । १. अभि० चि० च० १२६६ । ३. अभि० चि० च० १२६७ । १५. अभि० चि० च० १२६७ । ७. अभि० चि० च० १२६८ । ९. अभि० चि० च० १२६८ । ११. अभि० चि० च० १२६९ । १३. अभि० चि० च० १२६९ । १५. अभि० चि० च० १२७० । १७. अभि० चि० च० १२७१ । २. अम० द्वि० वैश्यवर्गे -७० । ४. अभि० चि० च० १२६७ । ६. अभि० चि० च० १२६७ । ८. अभि० चि० च० १२६८ । १०. अभि० चि० च० १२६८ । १२. अभि० चि० च० १२६९ । १४. अभि० चि० च० १२७० । १६. अभि० चि० च० १२७० । Kap Page #101 -------------------------------------------------------------------------- ________________ | "गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वजे भूमिविषौ गिरि" इत्यनेकार्थसङ्ग्रहः । दशस्वर्थेषु स्त्रीपुंसाः । अन्ये तु "वागादौ स्त्रियाम्, स्वर्गादौ पुंसि, पशौ द्वयोर्जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा-'गावो वहन्ति विमला: शरदि स्रवन्त्याम्' । दृशि यथा 'गोजलाद्रितकपोलतलास्ताः' । स्वर्गे यथा-'स गोपतिर्वज्रविघट्टनेन' । दिशि यथा-'गोभ्यः । * संभृतसद्वित्तः' । पशौ यथा-'गावश्चरन्ति कमलानि सकेसराणि' । रश्मौ यथा-['गोस्वामिनि । स्फुरिततेजसि दृष्टमात्रे, चौरैरिवाशु पशवः प्रपलायमानैः ॥] (कल्याणमन्दिरे) । वजे और यथा-'गोघातेनैव शैलाः" । भूमौ यथा-[जुगोप गोरूपधरामिवोर्वीम्] । [रघौ सर्ग - २ । श्लो० ३] ॥ इषौ यथा-'गोभिः संभिन्नसन्नाहः' । गिरि यथा -[.....] ॥ गिरि-यथा आविष्कृताशेषपदार्थसार्था दोषानुषक्तं तिमिरं विधूय । गावः प्रथन्तेऽस्खलितप्रचारा यस्येह तं वीररविं प्रणम्य ॥१॥ ___इति जिनेश्वरसूरयोऽष्टकवृत्तौ । र अत्र वीरपक्षे वाणी रविपक्षे च किरणः इति । 'पा०'मते तु गच्छतीति 'गम्लँ-गतौ' धातोः । डोप्रत्यये गौः पुं० । "वृषभे, स्वर्गे, किरणे, वज्र, जले, पशौ, चन्द्रे, वायौ, सूर्ये, ऋषभनामौषधौ च, सौरभेय्याम्, दृष्टौ, बाणे, दिशि, मातरि, वाचि, भूमौ च स्त्री०" । अत्र र तु सौरभेयी । ___अथ गोशब्दस्य गच्छतीति गौरिति व्युत्पत्त्या गतिक्रियावत्येव सुरभिर्वाच्योऽर्थस्स्यात्तथा च स्थितायामुपविष्टायां वा गमनाभाववत्यां गवि गोशब्दप्रवृत्तिर्न स्यादिति र चेत् । ना व्युत्त्पत्तिमात्रमेवैतद्गच्छतीति गौरिति, न तु प्रवृत्तिनिमित्तम् । अन्यथा गमनक्रियावति । र पुरुषेऽपि गोशब्दप्रवृत्तिः स्याद्, न च सा भवतीति प्रवृत्तिनिमित्तबलादेव वाच्ये वाचकप्रवृत्तिः । - प्रवृत्तिनिमित्तत्वं च "वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्" । तस्यां । गवि-कामे(म)धेनौ । तस्थौ इति 'ष्ठां-गतिनिवृत्तौ' धातोः 'तत्र क्वसुकानौ तद्वत्' (५।२।२।।) इति । १. अनेकार्थसङ्ग्रहे प्र० ६। | | ९० po For Private Page #102 -------------------------------------------------------------------------- ________________ " श्रीसि०'सूत्रेण 'क्कसुश्च' [३।२।१०७||] इति 'पा०'सूत्रेण च क्वसौ 'घसेकस्वरातः क्वसोः' (४।२।८२।।) इति [ श्रीसि०'सूत्रेण] 'वस्वेकाजादघसाम्' [७।२।६७||] इति 'पा०'सूत्रेण व * च आदेरिटि क्वसुप्रत्यये तस्थिवान्, तं तस्थिवांसम्-स्थितम् । केसराः स्कन्धसटाः सन्त्यस्येति केसरशब्दादिनि केसरी-सिंहाः । “सिंहः कण्ठीरवो भी हरिः, हर्यक्षः केसरि(री)भारिः पञ्चास्यो नखरायुधः, महानादः पञ्चशिखः पारीन्द्रः पत्यरी * मृगात्श्वेतपिङ्गोऽपि" इति हैम: । सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभःक्रान्तो - गणेश्वरः शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेष: । "केसरी पुं० या सिंहे, अश्वे, पुंनागवृक्षे, नागकेसरवृक्षे, बीजकपूरवृक्षे, हनुमत्पितरि, वानरभेदे, च" । तंत्र | केसरिणं-सिंहम् । सनति मृगादीन् सनोति वा सुखमिति 'कृ-वा-पा-जि-स्विदि-साध्यशौ-दृ-स्नाA सनि-जा-निरहीणभ्य उण' ॥१॥ इति 'उणादिश्रीसि० 'सूत्रेण 'षण-भक्तौ"षणूयी-दाने' । वेति धातोः उणप्रत्यये, 'पा०' मते झुंप्रत्यये सानु:-पर्वतैकदेशः । "स्नुः प्रस्थं सानुः" । इति हैम: । पुंक्लीबलिङ्गः । "पर्वतस्थे समभूमिदेशे, प्रस्थे, वने, वातसमूहे, पथि, अग्रे, * कोविदे, अर्के, पल्लवे च" । अत्र पर्वतस्थसमभूमिप्रदेशार्थः । सानूनि सानवो वा सन्त्यस्येति सानुशब्दात् तदस्याऽस्तीति मतुपि सानुमान् पर्वतः । “शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्, ग्रावा पर्वतभूध्रभूधरधराहार्या नगः" इति हैम: । “गिरौ प(प्र)पाती कुट्टम(ट्टार) उर्वङ्गः कन्दराकरः" इति हैमशेष:५ । तस्य सानुमतः-अद्रेः । दधाति पीतत्वमिति 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसि-सच्यविभा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' ।।४(७)७३।।इति 'उणादि* श्रीसि०'-सूत्रेण 'डुधाङ्क्-धारणे च' इति धातो तुन्प्रत्यये धातुः-लोहादिः रसादिः - शब्दप्रकृतिश्च । “धातुस्तु गैरिकम्" इति हैमः । १. अभि० चि० च० १२८३-८४-८५ । ३. अभि० चि० च० १०३५ ।। ५. अभि० चि० हैमशेषे-१५८ । २. अभि० चि० हैमशेषे -१८४-८५ । ४. अभि० चि० च० १०२७ । ६. अभि० चि० च० १०३६ । २१ Page #103 -------------------------------------------------------------------------- ________________ धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियास्थनि ॥१७१।। इत्यनेकार्थसङ्ग्रहः । लोहानि 'स्वर्णादीनि' यदाह। ९ e on H 10 39। इन्द्रियं 'चक्षुरादि शुक्र वा' | * अस्थि पञ्चमो धातुः । रसादौ भ्वादौ श्लेष्मादौ लोहेषु च यथा अभ्यस्तरूपसिद्धिः सुविदितधातूपसर्गविनिपातः । योगी वैयाकरणो जयति भिषक्लार्तिकेन्द्रो वा (वार्तिकेन्द्रो वा) (yys. 4) ॥ ग्रावविकारे 'ME-1021' । शब्दादौ 'न धातूनपि गृह्णीयादुन्मनीभावमागतः' । इन्द्रिये 'धातुपाटवमवेक्ष्य तिष्ठतः' । अस्थिन "यस्येह भज्यते धातुर्भवेत्तस्यैव वेदना' । धातुः पुं० । धारणाद्धातवस्ते स्युर्वातपित्तकफास्त्रयः ॥' इत्युक्तेषु वातादिषु, 'रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः' । इत्युक्तेषु रसादिषु, 'सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाञ्जनकासीससीसलोहं सहिंगुलम् ॥ गन्धकोऽभ्रकमित्याद्या धातवो गिरिसंभवाः' । इत्युक्तेषु स्वर्णादिषु, 'हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम् । कांस्यकं कान्तलोहं च धातवो नव कीर्तिताः' ॥ इत्युक्तेषु हेमादिषु नवसु, 'हिरण्यं रजतं कांस्यं तानं सीसकमेव च । रङ्गमायसं रैत्यं च धातवोऽष्टौ प्रकीर्तिताः' ॥ इत्युक्तेषु अष्टसु, 'सुवर्णं रजतं तानं लौहं कुप्यं च पारदम् । रङ्गं च सीसकं चैव इत्यष्टौ देवसंभवाः' ॥ इत्युक्तेषु अष्टसु वस्तुषु । - लोकेषु सर्वसाधारणत्वात्परमेश्वरे ‘स एष चिद्धातुः' इति श्रुतिः, व्याकरणोक्ते । -गणपठिते क्रियावाचके भूप्रभृतौ, शब्दभेदे च । इह तु गैरिकाद्यर्थः । धातोविकार इति १. अनेकार्थसङ्ग्रहे द्वि० १७१ । PAN Page #104 -------------------------------------------------------------------------- ________________ धातुशब्दात् विकारार्थे मयटि 'दोरप्राणिनः' (६।२।४९।।) इति 'श्रीसि० 'सूत्रेण 'पा०' मते ते (तु) 'नित्यं वृद्धशरादिभ्यः' [४।३।१४४॥] इति सूत्रेण च 'अणमेयेकण्ननञ्टिताम्' । (२।४।२०।।) इति 'श्रीसि० 'सूत्रेण 'टिड्ढाणद्धयसज्दघ्नमात्रच्तयप्ठक्ठकञ्चरपः' पर [४।१।१५।।] इति 'पा० 'सूत्रेण च ङीपि धातुमयी । तस्यां धातुमय्यां-गैरिकादिधातुप्रचुरायाम्। पर्वतमधिरूढा ऊर्ध्वभूमिरिति 'उपत्यकाधित्यके' (७।१।१३१॥) इति 'श्रीसि०'सूत्रेणाऽधित्यकेति निपातः । “अधित्यकोर्ध्वभूमिः स्यात्" इति हैमः । 'पा० 'मते । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' [५।२।३४॥] इति सूत्रेण त्यकन्प्रत्यये अधित्यका । "उपत्यकानेरासन्ना भूमिरुर्ध्वमधित्यका" इत्यमरः । प्रफुल्लतीति 'फुल्ल्-विकासे' भ्वादिः । * पर० अक० सेट्धातोः अप्रत्यये, 'पा०'मते च पचाद्यचीति अच्प्रत्यये प्रफुल्लम्-विकसितम्। "प्रबुद्धोज्जृम्भफुल्लानि व्याकोशं विकचं स्मितम्; उन्मिषितं विकसितं दलितं स्फुटितं । स्फुटम्, प्रफुल्लोत्फुल्लसम्फुल्लोच्छसितानि विजृम्भितम्; स्मेरं विनिद्रमुन्निद्र-विमुद्रहसितानि । च" इति हैम: । 'त्रिफला-विशरणे' इति धातोः कर्तरि ते 'उत्पस्यातः' [७।४।८८1] - इति ‘पा० 'सूत्रेण उकारादेशे प्रफलतीति प्रफुल्लम् । ___रुणद्धि व्रणमिति रोध्रः, लत्वे लोध्रः । "लोधे तु गालवो रोध्र-तिल्व-शावरमार्जनाः" इति हैम:' । 'पा० 'मते तु रुध्धातोः रप्रत्यये रस्य लत्वे च लोध्रः । द्रुः पर ॐ शाखाऽस्त्यस्येति ‘धुद्रुभ्याम्' ।। ७४४।। इति 'उणादिश्रीसि०' सूत्रेण 'द्रु-गतौ' धातौः का * डिति उप्रत्यये दुः-वृक्षशाखा वृक्षश्च । “वृक्षोऽगः शिखरी च शाखिफलदावद्रिहरिद्रुर्दुमो, र जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः, नन्द्यावर्त-करालिको तरुवसू पर्णी पुलाक्यंहिपः, सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः" इति हैम:५ । वृक्षे तु "आरोहकः स्कन्धी सीमिको हरितच्छदः उरुः जन्तुः वह्निभूश्च" इति हैमशेषः । लोध्र इति, यद्वा 'रोहः शिर' इतिवदभेदषष्ठ्यां लोध्रस्य द्रुमः लोध्रद्रुमः, तं लोध्रद्रुमं लोध्राख्यं द्रुममिव । ददर्श* अवलोकयामास ॥ १. अभि० चि० च० १०३५ । ३. अभि० चि० च० ११२७-२८-२९ । ५. अभि० चि० च० १११४ । २. अम० द्वि० शैलवर्गे -८ । ४. अभि० चि० च० ११५९ । ६. अभि० चि० हैमशेषे-१७३-१७४ । | ९३ Page #105 -------------------------------------------------------------------------- ________________ वाच्यपरिवर्तनं त्वेवम्-धनुर्धरण तेन (राज्ञा) पाटलायां गवि तस्थिवान् केसरी धातुमय्याम् अधित्यंकायां सानुमतः प्रफुल्लः लोध्रद्रुम इव ददृशे ।। धनुर्धरः स दिलीपः रक्तवर्णायां गवि स्थितं सिंहं गैरिकादिधातुरक्तवर्णायां पर्वतोपरितनभूमौ विकसितं लोध्राख्यं वृक्षमिव अवलोकयामास इत्यर्थः, इति सरलार्थः । * ॥२९॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥३०॥ तत इति । तस्मादिति तच्छब्दात्पञ्चम्यर्थे 'किमद्वयादिसर्वाद्यवैपुल्यबहोः पित * तस्' (७।२।८९॥) इति 'श्रीसि० 'सूत्रेण तस्प्रत्यये ‘पञ्चम्यास्तसिल्' [५।३।७॥] इति । 'पा० 'सूत्रेण च तसिल्प्रत्यये ततः । ततः -सिंहदर्शनानन्तरम् । मृग्यन्ते व्याधैरिति 'मृग्, अन्वेषणे याचने च' अदादिः चुरादिः आ० सक० सेट् अस्ति, 'मृग्-अन्वेषणे' दिवादिः * पर० सक० सेट् अस्ति च । ततः कप्रत्यये मृगाः-हरिणाः । "मृगः कुरङ्गः सारङ्गो का | वातायुर्हरिणावपि" इति हैम: । 'मृगे तु अजिनयोनिः स्यात्' इति हैमशेषः । मृगो गजजातिभेदः । “भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः" इति हैम: । 'मृगो मृग इव हीनसत्त्वत्वा'दिति टीका । मृगो नक्षत्रभेदे । “मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः" इति । स, हैम: । षोडशजिनपतेः श्रीशान्तिनाथस्य भगवतो लाञ्छनं मृगः । "मृगः पशुमात्रे, * हरिणे, गजभेदे, अश्विन्यवधिके पञ्चमे नक्षत्रे, मृग् अदादिचुरादिः भावे अच्, अन्वेषणे कर 2. याचने यज्ञभेदे च अच्, मृगमदे मकरराशौ च पुं०" । अत्र हरिणः पशुमात्रत्वात् ।। मृगाणामिन्द्रः मृगः इन्द्र इव वा मृगेन्द्रः । गमिष्यतीति गामी । मृगेन्द्रं गामी मृगेन्द्रगामी। यद्वा मृगेन्द्र इव गच्छतीति 'कर्तुणिन्' (५।१।१५३।।) इति 'श्रीसि०'सूत्रेण, 'पा०' [मते] और 'कर्तर्युपमाने' [३।२।७९।।] इति 'पा०'सूत्रेण च णिनि, मृगेन्द्रे गामी सिंहगामी। शरणे साधुरिति 'तत्र साधौ' (७।१।१५।।) इति 'श्रीसि० 'सूत्रेण 'तत्र साधुः' व । [४।४।९८||] इति 'पा० 'सूत्रेण च यत्प्रत्यये शरण्यः । शीर्यते शीताद्यनेनेति शृधातो: ल्युटि १. अभि० चि० च० १२९३ । २. अभि० चि० हैमशेषे -१८६ । HT ३. अभि० चि० च० १२१८ । ४. अभि० चि० द्वि० १०९ । ९४ Page #106 -------------------------------------------------------------------------- ________________ - शरणम्-गृहम् । “गेहं तु गृहं वेश्म निकेतनम्; मन्दिरं सदनं सम निकाय्यो भवनं कुटः, आलयो निलयः शाला सभोदवसितं कुलम्; धिष्ण्यमावसथः स्थानं परस्त्यं संस्त्याय - आश्रयः, ओको निवास आवासो वसतिः शरणं क्षयः, धामाऽगारं निशान्तं च" इति और पर हैम: । "शरणं गृहरक्षित्रोः" इत्यमरः । "शरणं रक्षणे गृहे" इति यादवः । शरणं न० । * "गृहे, रक्षके, रक्षणे, वधे, घातके च; प्रसारण्यां स्त्री०; आप्-टाप् वा" । अत्र तु रक्षणम् । शरणे साधुरिति 'तत्र साधौ' इति 'श्रीसि० 'सूत्रेण शरणशब्दात् यप्रत्यये 'तत्र साधुः' इति 'पा० 'सूत्रेण च यत्प्रत्यये शरण्यः । शृ-अन्यश्च (अनः यश्च?) । "शरणागतत्राणकरणयोग्ये; दुर्गायां स्त्री०" । प्रगता सभा अत्रेति प्रसभम्-हठः । “बलात्कारस्तु प्रसभं हठः" इति हैम: । सभया हि युक्तायुक्तविचारो लक्ष्यते । क्लीबलिङ्गोऽयमिति वृत्तिः । "प्रसभोऽस्त्री बलात्कारः" । इति वैजयन्ती पुंस्यप्याह । अन्ये तु "प्रसभं त्रिलिङ्गः" । प्रगता सभा सभाधिकारो यस्मात् । बलात्कारे । उद्धियन्ते स्मेति उत्पूर्वात् हधातोः धृधातोर्वा कर्मणि क्ते उद्धृताः उन्मीलिताः । । "उन्मूलितमाबर्हितं स्यादुत्पाटितमुद्धृतम्" इति हैम: । "उद्धृतः त्रि० उत्क्षिप्तो(से), भुक्तोझितो(ते), कृतोद्धारो(रे), पृथक्कृते, उच्छेदिते च" । अत्र तु उत्क्षिप्तार्थः । इयर्तीति । 'स्वरेभ्य हः' ॥ ६०६॥ इति 'उणादिश्रीसि०'सूत्रेण 'ऋक्-गतौ' धातोः इप्रत्यये, 'पा०'* मते इत्प्रत्यये च अरिः शत्रुः । "शत्रौ प्रतिपक्षः परो रिपुः, शात्रवः प्रत्यवस्थाता - प्रत्यनीकोऽभियात्यरी; दस्युः सपनोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः, दुर्हत ) परेः पन्थक-पन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभिमात्यराती" इति हैम: । अराः सन्त्यस्मिन्निति वाऽरि:-चक्रम् । “रथाङ्गं रथ(क्ष)पादोऽरि चक्रम्" इति हैम:६ | "अरिः पुं० शत्रौ, रथाङ्गे, और चक्रे, विट्खदिरे, षट्सु कामक्रोधादिषु, तत्सङ्ख्यासाम्यात् षट्सङ्ख्यायाम्, ज्योतिष्प्रसिद्ध लग्नावधिके, षष्ठस्थाने, ईश्वरे (शिवे) तन्त्रोक्तमन्त्रभेदे, राज्ञो विषयान्तरस्थिते नृपतौ, प्रेरके र त्रिलिङ्गः" । अत्र तु शत्रुः । प्रसभेन बलात्कारेण उद्धृता-उन्मूलिता अरयः शत्रवो येनसः प्रसभोद्धृतारिः। १. अभि० चि० च० ९८९-९०-९१-९२ । २. अम० त० नानार्थवर्गे -५९ । ३. अभि० चि० तृ० ८०४ ।। ४. अभि० चि० ष० १४८० । * ५. अभि० चि० तृ० ७२८-२९ । ६. अभि० चि० तृ० ७५५ । Page #107 -------------------------------------------------------------------------- ________________ नयतीति 'नियो डित्' ।।८५४।। इति 'उणादिश्रीसि०'सूत्रेण ‘णींग्-प्रापणे' धातोः डिति ऋप्रत्यये, 'पा० 'मते च डिति ऋन्प्रत्यये ना-पुरुषः पुं० । “मर्त्यः पञ्चजनो भूस्पृक * पुरुषः पूरुषो नरः, मनुष्यो मनुषो ना विद् मनुजो मानवः पुमान्" इति हैम: । "नृ पुं० कि मनुष्ये, पुरुषे च, जातौ ङीपि नारी" । पातीति ‘पातेर्वा' ॥६५९।। इति 'उणादिश्रीसि०'* सूत्रेण 'पांक्-रक्षणे' धातोः किदति प्रत्यये 'पा० 'मते च डति प्रत्यये "पति: भर्ता, रक्षिता, प्रभुश्च" । "अधिपस्त्वीशो नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरोको स, विभुः, ईशितेनो नायकश्च" इति हैम:२ । पतिः वरः । "प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता * पतिर्वरः, विवोढा रमणो भोक्ता रुच्यो वरयिता धवः" इति हैम: । "पतिः पुं०, भर्तरि, र मूले, अधिपतौ त्रिलिङ्गः, स्त्रियां वा ङीप्" नृणां पतिः नृपतिः "कुबेरे, राजनि च" | अत्र राजार्थः । नृपतिः-राजा, दिलीपः । जायते स्मेति जातः । 'जन्-प्रादुर्भावे' धातोः क्तप्रत्यये "जातं-समूहः न० जातम्, त्रिलिङ्गः उत्पन्नम्" । “सङ्घाते प्रकरौघ-वार-निकर-व्यूहाः समूहश्चयः सन्दोहः समुदायराशि-विसर-वाताः कलापो व्रजः कूटं मण्डल-चक्रवाल-पटल-स्तोमा गणः पेटकं वृन्दं चक्र-कदम्बके समुदयः पुञ्जोत्करौ संहतिः, समवायो निकुरम्बं जालं निवह-सञ्चयौ जातम्" इति हैम: । "जातं जात्योघजनिषु" इत्यनेकार्थसङ्ग्रहः५ । जाति:-सामान्यं यथा 'रत्नं न . सुजातं कनकावदातम्' । ओघे यथा 'नि:शेषविश्राणितकोशजातम्' । जनिर्जन्म । संपन्नेऽपि न द्वयोर्यथा 'जाते पुत्रस्य जाते समजनि वनिता वल्लभा भूमिभर्तुः' । पुत्रेऽपीति मङ्खः। यथा 'जातलक्ष्मणपवित्रितं त्वया' इति तद्वृत्तिः । “जातं नपुं० समूहे, व्यक्ते, जन्मनि च; उत्पन्ने । प्रशस्ते च त्रिलिङ्गः" । अत्र तूत्पन्नार्थः । अभिपूर्वात् सञ्धातोर्घबि अभिसञ्जनम् । र "अभिषङ्गः पुं० पराभवे, आक्रोशे, शपथे, व्यसने च" । "अभिषङ्गं जडं विजज्ञिवान्" * इत्यग्रे रघुः । जातः अभिषङ्गः पराभवो यस्य स जाताभिषङ्गः-जातपराभवः सः । यी "अभिषङ्गः पराभवे" इत्यमरः । * १. अभि० चि० तृ० ३३७ । ३. अभि० चि० तृ० ५१६-१७ । ५. अनेकार्थसाहे द्वि० १६६ । २. अभि० चि० तृ० ३५८-५९ । ४. अभि० चि० ष० १४११-१२ । ६. अम० तृ० नानार्थवर्गे -२९ । ९६ Page #108 -------------------------------------------------------------------------- ________________ वधमर्हतीति 'दण्डादेर्यः' ।६।४।१७८॥ इति श्रीसि०' सूत्रेण 'दण्डादिभ्य(भ्यो) 1 यत्' ५।१।६६।।] इति 'पा० 'सूत्रेण च वधशब्दात् यप्रत्यये वध्यः, तस्य वध्यस्य । वधार्हस्यमृगाणामिन्द्रः मृगेन्द्रः, तस्य मृगेन्द्रस्य-सिंहस्य । हननमिति ‘हनो वा वध् च' (५।३।४६।।) इति 'श्रीसि० 'सूत्रेण हन्धातोः अल्प्रत्यये वधादेशे च वधः-व्यापादनम् । का * "व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम्, निस्तहणं विशसनं या क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रतिघातनं वधः; प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिके निशुम्भहिंसाः, निर्वापणालम्भनिषूदनानि निर्यातनोन्मन्यसमापनानि; अपासनं वर्जनमारपिञ्जा लामा निष्कारणक्राथ विशारणानि" इति हैम: । "वधो हिंसकहिंसयोः" इत्यनेकार्थसङ्ग्रहः । । तस्मै वधाय-हिंसायै ।। जैनमते "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" । मुनीनां सा सर्वतो मनोवाक्कायैः । * करणकारणानुमतिभिः सर्वथा त्रसस्थावराणां सर्वेषामपि त्याज्या, अत एव तेषां विंशति विंशोपकरूपाऽहिंसा । गृहस्थानां तु देशतः सा, अत एव तेषां सपादविंशोपकलक्षणाऽहिंसा । यथा हिंसाहिंसास्वरूपं जैनमते तथा न बौद्धमते वेदान्त्यादिमते च । यथा च ते आहुः प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ।। इति बौद्धाः । मनुरप्याह यज्ञार्थं पशवः सृष्टा स्वयमेव स्वयम्भुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥१॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥२॥ एष्वर्थेषु पशून् हिंसन्वेदतत्त्वार्थविद् द्विजः । आत्मानं च पशुंश्चैव गमयत्युत्तमां गतिम् ॥३॥ 29 १. अभि० चि० तृ० ३७०-७१-७२ । २. अनेकार्थसंग्रहे द्वि० २४३ । ९७ Page #109 -------------------------------------------------------------------------- ________________ सर्वमेतदसमञ्जसम्, 'मा हिंस्यात् सर्वभूतानि' इत्यस्यैव सर्वैरप्युद्घाषितत्वात् । मांसस्याऽपि हिंसामन्तरेण नोपपत्तिः, अतो मांसभक्षकोऽपि हिंसक एव । यत उक्तम्अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥१॥ तथा च नियुक्तस्तु यथान्यायं यो मांसं नाऽत्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥१॥ या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥२॥ इति । मांसभक्षणस्वारसिकत्वेन यत्तैरुक्तम् न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ १ ॥ अस्य श्लोकस्य व्याख्यानं केचिदेवं कुर्वन्ति यज्ञे मांसभक्षणकरणेन, सौत्रामणियज्ञे - मद्यपानकरणेन, ऋतुसमये धर्मपत्नीसमागमनेन दोषो नाऽस्ति, प्राणिनां प्रवृत्तिरेवैषेति कृत्वा, तथाऽपि निवृत्तेर्महाफलवत्त्वम् । अयं भावः - यज्ञ - सौत्रामणियज्ञ - ऋतुसमयातिरिक्ते सर्वत्राऽपि स्थले दोषः । केचित्त्वेवं व्याख्यान्ति यज्ञे उच्छिष्टमांसभक्षणेन, सौत्रामणियागे मद्यपानेन, ऋतुं - विनाऽपि स्वस्त्रियं प्रति गमनेन दोषो नाऽस्ति, तथाऽपि तन्निवृत्तेः महत्पुण्यम् । यज्ञेऽपि मांसभक्षणाकरणेन सौत्रामणियागेऽपि सुरापानाकरणेन ऋतुं विना स्वस्त्रियं प्रत्यप्यगमनेन • महत्फलमिति तात्पर्यम् । एवं बहुविधानि तद्व्याख्यानान्युपलभ्यन्ते, न तानि समीचीनानि । सम्यग्दृष्टिस्तु मिथ्यावाक्यमपि तत् सम्यक् परिणमय्यैवं व्याख्याति - भूतानामनादिमिथ्या- वासनाग्रस्तप्रवृत्तिमत्त्वाद्यद्यपि प्रवृत्तिर्भवति, तथाऽपि अकारप्रश्लेषात् मांसभक्षणेऽदोषो न, किन्तु द्वौ नञौ प्रकृतमर्थं दृढयतः इति दोष एव । एवं मद्येऽदोषो न, किन्तु दोष एव । निवृत्तेर्महाफलवत्वेन वर्णितत्वात्प्रवृत्तेर्दोषवत्त्वं सुज्ञानमेवेति अकारप्रश्लेषेण व्याख्यानं युक्तम् । ९८ Page #110 -------------------------------------------------------------------------- ________________ SY 'निवृत्तिस्तु महाफला' इत्यस्य तु यथाश्रुतमेवाऽर्थः । मांसशब्दार्थोऽपि मांसभक्षणं निषेधयति । तथा चाऽऽह मां स भक्षयित्वाऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ इति । 9 एवमेव श्रुतिवचनान्यप्यसमञ्जसानि । “वायव्यं पशुमालभेत भूतिकामः, स्थूलपृषतीमाग्नि* वारुणीमनड्वाहीमालभेत" इति पतञ्जलिप्रणीतमहाभाष्योद्धृतश्रुतिवाक्यम् । एवं बहुशो में - वेदे सर्वत्र स्थाने स्थाने हिंसाप्रतिपादकानि वचांसि श्रूयन्ते । ननु कथं वेदात्मके शास्त्रे एवं प्राणिव्यापादनस्वरूपं श्रूयते इति चेत् । * प्राचीनानामहिंसाप्रधानानां भरतप्रणीतानामार्यवेदानां लोपे मांसलुब्धादिभिस्तन्नाम्नैव तस्य । SP प्रणीतत्वात् । संभाव्यते चैतत् यत् अत एव श्रुति'रिति तस्य नाम । श्रुतिशब्दः श्रवणश्रुतिरिति । शब्दशक्तिबलादेव ज्ञापयति । पूर्वमार्या अहिंसापरायणास्तत्तद् हिंसासूचकं वचोऽभिगम्य तान्प्रपच्छुर्यदुत ‘मा हिंस्यात् सर्वभूतानि' इति सर्वजनविदितमहावाक्यविरोधिवाक्यानि हो 2 हिंसात्मकानि उपदिश्यन्ते तत्र किं प्रमाणम् ? तदा ते उत्तरदानाक्षमा ऊचुः-"अस्मा* भिरेतच्छ्रुतमेतच्छुत''मतस्तस्य श्रुतिरिति नाम संवृत्तम् । कथं तत्प्रमाणीक्रियेत? __ अथाऽस्त्वेतत् । किन्तु मन्वादिभिस्तु मांसभक्षणबहुला प्रजामुपलभ्य तां नियमितुमेवमुक्तं यद्, 'मांसं चेत् भक्षयतु तदा यज्ञ एव नियुक्तीभूय नेतरथा' इति नियम सूचयति । तदप्यसाम्प्रतम् । मांसभक्षणाकरणे प्रत्यवायस्य नियुक्त स्त्वित्यादिवाक्येनाऽप्रतिपादनान्न मनुवचनानि निषेधैदम्पर्याणि किन्तु मांसभक्षणप्रवर्तकानि । तद्वचनानामपि . स्मृत्यभिधात्वेन प्रमाणाभाववन्त्येव शब्दशक्तिबलादेव नाङ्गीकारार्हाणि च । यत् तत्राऽपि या A पूर्ववत् आर्याणां प्रश्ने मन्वादिरेवमाचख्यौ यद् ‘एवं मे स्मृतम् एवं मे स्मृतम्' इति । और ततः सर्वत्र स्मृतिनाम्ना तत्प्रसिद्धिः । किञ्च हिंसाविधीनुक्त्वैव न ते विरताः, अपि तु पशुमारणप्रकारानपि अधिकरणर' त्नमालादिषूक्तवन्तो यत् सदयानामार्याणां श्रवणेऽप्यनर्हाणि तद्वचनानि । 'मा हिंस्यात् और | सर्वभूतानि' इत्येतन्महावाक्यमादौ यदुक्तम्, तदपि दयाविरोधिवचनश्रवणावगणयन्ती| मार्यप्रजामुपलभ्य तस्या विप्रलम्भनाय, यद्वयमपि 'अहिंसां प्रथमतयैवमनुमन्यामहे' इति । HOBH Page #111 -------------------------------------------------------------------------- ________________ - विप्रलम्भवचनमिषात् भद्रस्वरूपां दयैकरसिकां करणानुरञ्जितमानसामार्यप्रजां प्रवञ्चयितुमिव । यथा कश्चिदुपरिभागेन शुभत्वेनेक्ष्यमाणमाधारस्वरूपं प्रदर्श्य धूर्तयति भद्रप्रकृतीन् । * किञ्च शुभमङ्गलाचरणाधो न कोऽपि मृत्यादिशोकोदन्तं ल(लि)खति अपि तु र विवाहादिमाङ्गलिकं, एवं यदीदं वास्तवं ‘मा हिंस्यात्' इति मङ्गलाचरणमभविष्यत्, तदा न श्रुतिस्मृतिषु दारुणहिंसाप्रचुरा यज्ञादिविचारा आगमिष्यन् । अत एव पूज्यपादाः । कलिकालसर्वज्ञबिरुदधारिणः श्रीहेमचन्द्रसूरिभगवन्तो यथातथमुक्तवन्त: 'वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । छन्नरक्षो न जैमिनिः' । किञ्च यदि 'यज्ञे हताः पशव उत्तमां गतिमाप्नुवन्ती'ति चेद् युष्मत्सिद्धान्तस्तदा । स्वपितृपितामहमातृमातामहादीन् हत्वैव यज्ञं विधत्त । किं ते सद्गतिमाप्नुवीरन् तत्तेऽनभीष्टम्? । न तेषु ते भक्तिः । अपि च, यज्ञे हता घातकाश्च यदि स्वर्गं प्राप्नुयुस्तदा नरके कैः गम्यते ? आकर्णयताऽवधानतयाऽस्माकं जैनानामात्मैव दयारसानुस्यूत इति । येषु केषुचिदन्यदृशांक ॐ शास्त्रेषु दयाप्रतिपादकवचांसि मांसनिषेधपराणि हिंसामययज्ञान् प्रति आर्याणां तिरस्करणीयताHदर्शकानि वचनानि तानि कतिचिदुद्धियन्ते । महाभारतानुशासनपर्वणि न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे ।। इति । शान्तिपर्वण्यपि अहिंसा सर्वजीवानां सर्वजैः परिभाषिता । इदं हि मूलं धर्मस्य शेषस्तस्याऽस्ति विस्तरः ।।१।। यथा मम प्रियाः प्राणास्तथा तस्याऽपि देहिनाम् । इति मत्वा प्रयत्नेन त्याज्यः प्राणिवधो बुधैः ॥२॥ भागवतचतुर्थस्कन्धपञ्चविंशाध्ययने यथा हि पूर्वं बर्हिराजेन स्वेच्छापूर्तये | वेदानुसरणेन सहस्रशः पशुवधयुता यज्ञा विहितास्तथा पुनः स न कुर्यादिति नारदस्तमुपदिदेश । NeAE - १०० Page #112 -------------------------------------------------------------------------- ________________ भो भोः प्रजापते राजन् ! पशून् पश्य त्वयाऽध्वरे । संज्ञापितान् जीवसङ्घान् निघृणेन सहस्रशः ।।१।। एते त्वां संप्रतीक्षन्तो स्मरन्तो वैशसं तव । सम्परेतमयःकूटैः छिन्दन्त्युत्कटमन्यवः ॥२।। शिवपुराणादिष्वपि एवमेव यज्ञीयाया अपि हिंसाया मांसभक्षणस्य च निषेधो * दरीदृश्यते । ग्रन्थगौरवभयान्नाऽत्र लिखितः । विशेषजिज्ञासुना तत एवाऽवसेयम् । __ यवनशास्त्रेऽपि कुत्र कुत्रचिज्जीवहिंसानिषेधः प्रतिपाद्यते । तथा हि जरथोस्तिधर्ममान्ये शाहनामा इति विदिते ग्रन्थे एवं प्रतिपादितम्-'अस्माकं जरथोस्तिधर्म एवं पावनः (नेक) यत्पशून् हत्वा न तद्भक्षणं विधेयम्, न च तन्मृगया कर्तव्या' । तथा च । ( तद्वचांसि तदीयशब्दैः - "नीस्त झंद खुरोने जानवरजू, चनीन अस्तदीने झरदूस्तनेक" । पारसिकानां 'इजस्ने'नामकधर्मपुस्तकस्य द्वात्रिंशे त्रयस्त्रिंशे चेहानामके विभाग की अवस्ताभिधया तदीयभाषया प्रोक्तम् "मजदाओ अकामरो दईओ गेओइ । मरेंदान ओरु ओखश ओखती जीओ तुम। - अएरीअ मनश् च । नदेंनतो गेओश् चा वाशतराद् अवेशतम । मन तू ईअशते वीशपे का म जेशतेम शराशेम जवीया अउ अंबानो" । अस्याऽर्थः - 'ये चतुष्पदानां पशूनां मारणे सन्तुष्टं जीवनं मन्यन्ते, ये वा तान WE छित्त्वा भक्षणायाऽऽदिशति(न्ति) ते होरमजदेनाम्ना पारसिकपरमेश्वरेण वध्या' इति कथितम् ।। ( यद्वा ते दुष्टा दूरीकर्तव्या इति कथितम् । 'ये जनाः पवित्र(नेक)निर्देशानवगणय्य ‘पशून, छित्त्वा भक्षणं विधास्याम' इति दुष्टविचारणया चतुष्पदान् तृणजलादिभिः पोषयन्ति ते जनाः क्यामत इति नाम्ना विदिते तदीयमान्ये पुण्यपापन्यायदिवसे पापान् मोचयितुंग अशोमरदोनामकं तदीयपरमेश्वरं प्रार्थयिष्यन्ते, न तु प्रार्थना स्वीकरिष्यते' । अन्यदपि जमीयादयस्तनामकस्याऽष्टपञ्चाशे आलापे(फकरो) जरथोस्तप्रभृतिषु र IS तदीयधर्मपुस्तकेषु च पशुहिंसाया मांसभक्षणस्य च दृढतया निषेधो वरीवति । किञ्च ते १०१ Page #113 -------------------------------------------------------------------------- ________________ * V पारसिकाः स्वकीयं पूज्यं (परवरदीगारं) 'पशुपालकः पशुप्रेमी'त्यादिसंज्ञयाऽद्याऽपि स्मरन्तः । श्रूयन्ते । फुट्स एण्ड फेरीनेशीयानामके पुस्तकेऽपि लिखितमस्ति यत्, 'पारसिकानां प्राचीना धर्मगुरुव: सदैव फलपुष्पादीन् भक्षयन्तौ(न्तो) बभूवुः' । प्लेनीनामकः प्रसिद्धस्तत्त्ववेत्ता स्वकीये एकादशे पुस्तके लिखति यत्, 'जरथोस्तः । अलबरुझपर्वतगुहायां (खुदाताला) परमेश्वरप्रार्थनायै मोनाजातये च विंशति वर्षाणि लीन र आसीत् । शरीरपोषणं स्वनिर्वाहं केवलं पनीरफलदुग्धभक्षणेनाऽकार्षीत्', इत्यादि । - __ अपि च रावजीवोराजातीया ये प्रसिद्ध्या लोटीयावोरा उच्यन्ते । तेऽपि । मांसादनस्याऽतिनिन्दितत्वात् कदाऽपि मांसं नाऽदन्ति । अत एव तेषां 'नगोसीया (न मांसादाः) नमांसीया इति वा' इति प्रसिद्धिः । तदीयधर्मपुस्तकेष्वप्युक्तं तद्भाषया "फला तज अलू बुतून कुम मकावरल हयवानात" ।। अयमर्थः-पशुपक्षिकलेवराश्रयत्वं तवोदरं न कुर्याः । अयमाशयः-तान् हत्वा या नाऽत्स्यसीति । महम्मदीयानामपि कुरानेशरीफनामकधर्मपुस्तकस्थसूराअनआमविभागस्य । आयतनामके एकशतद्विचत्वारिंशे प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेण स्पष्टं निर्दिष्टं ना "व मिनल अनआमे हम् लतं व फर्शा । कुलूमिम्मारजककुमुल्लहो" ।। अयं भाव-अल्लानामेश्वरेण चतुष्पदेषु कतिचिद्भारोद्वहनाय सृष्टाः । भक्षणाय च मे M भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद्यूयमद्यात । अपि च तस्मिन्नेव सूरा-अन-आमप्रकरणे रुधिरमांसभक्षणनिषेध उक्तः । बकरी इद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः हुशनग्रन्थस्य सुराहज्ज-विभागस्य । षट्त्रिशे आयातनामके प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेणोक्तः । तेन स्वयं तत्र । प्रतिपादितं-मांसं शोणितं वा न मां मिलिष्यति, अपि तु निवृत्त्या प्रार्थनयैव वाऽहं तुष्टो । भविष्यामि । अपि चाऽद्याऽपि यदा कोऽपि महम्मदीयः शालेका कः) शरीरयतप्रदेशात् । टरपीटप्रदेशं प्रविशति तदा सोऽपि मांसादनस्य दूषितत्वात् मांसभक्षणात् त्वरितमेव निवर्तते । 04 १०२ Page #114 -------------------------------------------------------------------------- ________________ आङ्ग्लभूमिजानामपि बाइबलनामकधर्मपुस्तकस्य विंशतितमे प्रकरणे कथितं, यत्-‘Thou shalt not kill (Advice to Moses) | | अयं भावः-त्वं न कमपि जीवं हन्याः । पुनरपि तस्यै [व] द्वाविंशे प्रकरणे प्रोक्तं यत्- 'And ye shall be holy-man untome neither shall ye eat any flesh that is torn of beasts in the fields. अयं भावः-त्वं मां प्रति पवित्रतया वर्तेथाः । वन्यान् पशून् हत्वा तदीयं मांसं नाऽद्याः । बाइबलात् पुरातने जेनीसीसपुस्तकेऽप्युक्तं यत् 'The Primitive injunction of God to man at the creation was Behold I have given you every herb bearing Beed, which is upon the face of all the earth. and every tree in which is the fruit of a tree yielding seed to you it shall be for meat (Gen. I-29) अयं भावः - परमेश्वरेण मनुजोत्पत्तेरेवं खल्वादावेवाऽऽदिष्टं यत्, "अवहितव्यं' भवद्भिः, यदुत मया भवद्भ्यः पृथ्वीतलोपर्युद्गच्छन्तः सबीजा: वल्ल्यादय: सबीजफला वृक्षाश्चाऽर्पितास्तदेव भवद्भक्षणायाऽलम् भवद्भिरेतदेव भक्षणीयं नाऽन्यदिति" तदाशयः । तथैव हुसीयानामक पुस्तकस्याऽष्टमाध्याये पञ्चदशे आयातनामके प्रकरणे - And When ye spread forth your hands, I will hide my eyes from you. yes, when. ye make many prayers. I will not hear. your hands are full of blood. अयं भावः - (ईश्वरो वक्ति) “यदा यूयं भवद्धस्तौ प्रार्थनायै लम्बयिष्यथ तदाऽहंनेत्रे भवतोऽन्यतो निवर्स्यामि भूरिप्रार्थनायामपि वाऽहमीक्षिष्ये । यतः प्राणिहिंसातो भवद्धत शोणितलिप्तौ वर्तेते । एभिः पूर्वोदितैस्तत्तद्धर्मपुस्तकपाठैः हिंसाया मांसभक्षणस्य च निषेधः स्पष्ट एव ॥ १०३ Page #115 -------------------------------------------------------------------------- ________________ चिन्तनधारा (आस्वाद मुनिरत्नकीर्तिविजयः एक: सत्यप्रसङ्गः पठितः । "एकदा मन्नरकाडनामके ग्रामे एकस्य मुसल्मीनस्य गृहेऽग्निः प्रज्वलितः । NY Sh तत्समीपस्थे गृहे निवसता कृष्णनेनैतज्ज्ञातम् । झटित्युत्थाय स तत्र गतवान् । प्राणानपिन in पणीकृत्य दह्यमाने गृहे स उत्प्लुत्याऽन्तः प्रविष्टवान् । स्वकीयजीवनस्य, स्वपत्न्याः, द्वयोः sy पुत्रयोः, वृद्धायाश्च मातुरपि विचारस्तदा तं न पीडितवान् । शनैः शनैरग्निर्भयावहं स्वरूपं धृतवानासीत् । तथाऽप्यन्तर्गत्वा प्रतिवेशिनो द्वौ बालकौ यथाकथञ्चिदपि बहिः प्रापय्य ATM करालाभ्योऽग्निज्वालाभ्यो रक्षितवान् । किन्तु बहिरागच्छन् स स्वयमग्निज्वालाभिर्वेष्टितोऽभूत् । र क्षणेनैव च सर्वेषु पश्यस्त्वेव सोऽग्निसाज्जातः । सर्वत्र हाहारवः प्रसृतः । तस्य कुटुम्बं निराधारतां प्राप्तम् । एक एवाऽऽधारः स आसीत् तेषाम् । अथ किम् ? तदा कालीकटनगरात् प्रकाश्यमाने 'मातृभूमि'नामके दैनिकवृत्तपत्रे एषा घटना प्रकाशिता । तत्र च 'निराधारं जातमिदं कुटुम्बकम्, अतस्तदर्थं किमपि करणीयमिति समाजस्य दायित्वम्' - एवंरूपेण याचिकाऽपि तत्र पत्रकारेण दत्ताऽऽसीत् । तत्प्रत्युत्तरूपेण स्वल्पेनैव कालेन रूप्यकाणां चतुर्विंशतिसहस्रं सञ्चितमभवत् । हिन्दुजना मुसल्मीनजनाश्च सम्मील्य तत्र साहाय्यं कृतवन्तः । अथ 'प्रथमं तावदेतद् धनं कुत्रोपयोज्य'मिति तत्रस्थैर्महाजनैः कृष्णनस्य पत्नी पृष्टा । तदा सा विधवा रुदती सती करुणस्वरेणैतदुक्तवती यद्- 'भवन्तो यथारुच्येतदुपयुञ्जन्तु, किन्तु ममैकैव मनीषाऽस्ति यत् प्रथमं तु निराधारतां प्राप्तवतां मम प्रतिवेशिनां कृतेऽस्माद र धनाद् गृहमेकं शीघ्रं निर्मापयन्तु' इति ।" उदात्तमेनं प्रसङ्ग पठित्वा हृदयं गद्गदं जातम्, अक्षिणी आर्द्र संवृत्ते, आपादतलं च रोमोद्गमः सञ्जातः । एत आसन्नस्माकं संस्कारा औदार्यस्य भ्रातृभावस्य मैत्रीभावस्य वा, ये पारिवारिकात् सामाजिकाद् वा वातावरणात् सहजतयैव सिच्यमानाः पुष्टिं वृद्धिं च १०४ Page #116 -------------------------------------------------------------------------- ________________ 1 प्राप्यमाणा आसन् । एते संस्कारा एवाऽस्माकं सम्पदार्यत्वस्य च परिचय आसन् । 'आर्य' - इति शब्दो यत्र प्रयुज्यते तत्र सर्वेऽप्यन्ये हिन्दु-मुसल्मीनादयः परिचया गौणा एव जायन्ते । सो My अन्यसत्कानि सुखदुःखानि स्वकीयानीति कृत्वा य: संवेदयति स आर्यः । एतादृशं । तेजोमयमार्यत्वं यत्र विद्यते तत्र हीश्वरः स्वयमेवाऽऽवसति, तस्य सहायार्थं च सदोपस्थितो - स भवति । ईशश्रद्धाया अतोऽप्युत्तमोऽन्यः परिपाकः किं नाम भवितुमर्हेत् ? एतादृशा उदात्ता । 15 ईश्वरीया अंशा यदि नोद्धटेरन् तींशश्रद्धाऽपि केवलं विडम्बनरूपा भवति । आस्तिक्यं तु MY न केवलमीश्वरस्य स्वीकारे पर्यवसति किन्त्वन्तःस्थितानि सुषुप्तानीशतत्त्वानि शनैः शनैरुद्घाट्य स्वकीयमीश्वरत्वं प्रत्यग्रेसरीभवने तत् सार्थक्यं भजति । किञ्च, अत्र किमपि प्रतिफलं प्रत्युपकारं वाऽपेक्षितं न दृश्यते । अन्तःपरितोष एव । 1 फलं नाऽन्यद् बाह्यं किमपि । एतादृशस्य प्रसङ्गस्य पठनेनैका श्रद्धा दृढा भवति यन्मनुष्य स एवेश्वरो भवितुमर्हति । अत्र प्रसङ्गे यत् सत्तत्त्वं दृश्यते तदीश्वरस्यैवांऽशः खलु ? TH 1 एतादृशमेकमंशं दृष्ट्वा ज्ञात्वा चाऽपि यदि नेत्रे क्लिन्ने भवतः, शीर्षं नमति, हृदयं च । MAY पुलकितं भवति तर्हि तादृशा ईश्वरीया सर्वेऽप्यन्तःस्था अंशा यदोद्घटिता भवेयुस्तदा तु का Viar वार्ता ? एतादृशस्त्वीश्वर एव भवति । अपरं च सत्तत्त्वं दृष्ट्वा यन्नेत्रक्लेदादिरूपेणाऽहोभावो जायते तदपीश्वरं प्रति पक्षपात एव खलु । एषोदात्ता वृत्तिरीश्वरत्वाविर्भावस्य मार्गोऽस्ति, - अहोभावश्चेश्वरसामीप्यस्य मार्गोऽस्ति । अस्या घटनायाः स्रवन्त्युदारता परमात्मनि विद्यमानाया । अनन्तायाः करुणाया बीजमस्ति । किन्तु, कुत्र गतास्ते दिवसाः ? कुत्र लुप्ता साऽऽत्मौपम्यवृत्तिर्मानवता वा ? क्व विलीनः स गुणवैभवो योऽस्मान् प्रमाणीकुर्वन्नासीत् ? येन च वयमुन्नतमस्तका आसन् ? अस्माभिविस्मृतोऽयं वैभवः । अन्तःस्फूर्तादेतादृशाद् वैभवादपि बाह्यो वैभवो महत्त्वपूर्णः प्रतिभासते । आत्मीयतायाः स्थानं स्वार्थेन गृहीतमस्ति । आत्मसम्माननस्य आत्मगौरवस्य वा स्थाने मिथ्याभिमानो जागृतोऽस्ति । यत्राऽऽत्मतृप्तिरेव सुखस्य मानदण्ड आसीत्तत्र पराभिप्राय एवाऽधुना मानदण्डायते । प्रभूतो बाह्यो वैज्ञानिको वा विकासो जातोऽस्ति किन्तु तदर्थं तादृशानामुदात्तानां परिस्थितीनां वातावरणानां विचारसरणीनां यो हासः सम्पादितस्तस्य पूर्तिस्त्वेतादृग्भिर्विकाससहरैरपि न कर्तुं शक्या । काचसहस्राण्यपि १०५ Page #117 -------------------------------------------------------------------------- ________________ किमेकस्याऽपि रत्नस्य स्थानं ग्रहीतुमलम् ? गर्तसहस्राणि किं समुद्रो भवितुमर्हन्ति ? TAY बाह्यदृष्ट्या कदाचिदस्माभिः प्रभूतमुपलब्धं स्यात् किन्तु स्वत्वं त्वस्माकं नाशितमेव । अत A) एव चेयान् भौतिको विकासः साधितः सन्नप्यस्माकमास्ये हास्यं, तेजः, ओजः, उल्लासः, MAA तृप्तिर्वा न दृश्यते एव । निरन्तरमस्माकं सत्त्वं सुखं वा म्लानं मलिनं च भवति । यच्च HD मुखे दृश्यते तन्न तृप्तेस्तेजोऽपि तु मिथ्यादर्पस्योपलेप एवाऽस्ति । ___ उपर्युक्ता घटना ह्यस्माकमेव भूतकालोऽस्ति । ततो झरत् सत्यमस्माकमेव जीवनसत्यमस्ति । केवलं तिरोभूतमधुना तत् । यत्स्वरूपं वर्तमानकाले दृश्यतेऽस्माकं तन्न an वास्तविकम् । अस्यां घटनायामभिव्यज्यमानं स्वरूपमेवाऽस्माकं वास्तवं स्वरूपं स्वत्वं । N वाऽस्ति । सत्यमेतद् यद् वयं मूलस्थितितो दूरमागताः स्मः किन्तु प्रतिनिवर्तनं न शक्यमिति तु न । प्रजानां मूलभूतं सत्त्वं त्याग-समर्पण-भ्रातृत्व-सदाचारादिरूपेणाऽस्ति । य एष र विपर्यासो विपर्ययो वा दृश्यते स त्वारोपितः । प्रजानामज्ञानमुपयुज्य तच्चित्ते वैर। वैमनस्य-पारस्परिकाविश्वास-गुरुतादिभावानां बीजान्युप्तानि सन्ति । यद्यद्याऽपि वयं जागृता . - न भविष्यामस्तर्हि बहुविलम्बो भविष्यति । पश्चादास्तां ततः प्रतिनिवर्तनस्य वार्ता परं NAL तादृशो विचारोऽपि दुःशको भविष्यति । आत्मनिरीक्षणस्य समयोऽधुना परिपक्वो जातोऽस्ति । - र कुत्र स्खलिता वयम् ? कियत् किं किं च नाशितम् ? अवसरोऽयमस्ति जागरुकतायाः । Song यावच्चित्ते सत्त्वस्यैकोऽपि तेजःकणः प्रज्वलितोऽस्ति तावज्जागृतैर्भवितव्यमस्माभिः । Mad CM एवमेव वयमस्माकं विनष्टं म्लानं सत्त्वं पुनर्जागृतं तेजस्वि च कर्तुं शक्ष्यामः । - स्वस्थमात्मनिरीक्षणमेवाऽत्रोपायः । तदेवाऽस्माकमार्यत्वं पुनः प्रस्थापितं करिष्यति तेजोन्वितं . निशितं प्रभावि च निष्पादयिष्यति। गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ।। १०६ Page #118 -------------------------------------------------------------------------- ________________ आत्मीयबन्धो ! चेतन ! TRI पत्रम् नमो नमः श्रीगुरुनेमिसूरये ॥ धर्मलाभोऽस्तु । HIV PARSHWANTIITS तव कुशलं कामये । मया ह्य एवैकः प्रसङ्गो दृष्टः । तत्र स्वास्याऽपराधे सत्यपि प्रसिद्धजनानां स्वरक्षणार्थं कृतं लज्जास्पदं सधाष्ट्र्र्यं निष्ठुरं च वर्तनं वीक्ष्यैका लोकोक्तिः स्मृतिपथमागता । "ख्यातस्याऽऽचरणं लीला । तदेवाऽन्यस्य विटचेष्टा" ॥ मुनिधर्मकीर्तिविजयः केनचिदपि वास्तवदर्शिना एषा पङ्क्तिलिखिता । एषा पङ्क्तिरात्यन्तिकी मार्मिकी गभीराऽपि सत्याऽस्ति । अस्यां च वर्तमानकालीनस्थितेः साङ्गोपाङ्गं वास्तविकचित्रं दृग्गोचरीभवति । हृदये दुष्टवृत्त्यां सत्यामपि जगति सज्जनत्वेन प्रतिष्ठितानां जनप्रियाणां प्रसिद्धानां च जनानां पैशाचिकीं मनोवृत्तिं धृष्टतां च निरूपयति; तथा वस्तुतः सज्जना निर्मलचित्ताः सरलाश्च सन्तोऽपि ये समाजे न जनप्रियाः प्रसिद्धाश्च तेषामल्पापराधोऽपि महान् अपराधः कथ्यते इति । अद्यतनकालीन्या राजकीय-सामाजिकीय- धार्मिकीय-कौटुम्बिकस्थितेर्वैचित्र्यं कण्टकवन्मे मनः पीडयति । साम्प्रतं गड्डरिकायूथप्रवाह इव सर्वेऽपि जनाः प्रवर्तन्ते । न कुत्रचिदपि स्वकीया विचारधारा, बुद्धेः कौशल्यं चातुर्यं च स्वमनीषाया विनियोगश्च दृश्यन्ते, प्रत्युताऽज्ञानोपहतचित्ता मोहतमसाऽऽवृताश्च सर्वेऽपि परधिषणाधीना मूर्खप्रायाश्चैव दृश्यते । स्वमतिः परस्मै प्रदत्तैव, इति प्रतिभाति खलु । अत्यौदार्यभृतहृदयानां तेषां जनानां स्वबुद्धेरेतादृशमनुपमं समर्पणमवलोक्य मच्चित्ते कुतूकमपि संजायते । अद्य सर्वत्रैतादृश्येव स्थितिः प्रवर्तते यद्, यदि नाम लोके पञ्चदशभिर्जनैरेष सज्जनो ज्ञानी १०७ Page #119 -------------------------------------------------------------------------- ________________ * सच्चारित्री प्रवक्ता तपस्वी प्रशान्तः त्यागी चेति वर्येत तदाऽन्यधिया प्रवर्तमानैः सर्वैर्जनैः तस्याऽऽभ्यन्तरवृत्तिं सहजं स्वरूपं चाऽनुपलक्ष्य तथा वास्तविकतामवगणय्यैवेष सज्जनो ज्ञानी त्यागी चेत्युच्यते । तथैव यदि केनचिदेकेनाऽप्येष दुष्टो दुराचारी क्रोधी मिथ्याभिमानी । चेति गद्येत तदा सर्वैर्जनैरपि तथैव तेन सह व्यवह्रियते । नाऽत्र स्वकीयस्य विचारस्य । * कोऽप्यवकाशोऽस्ति । एवं सर्वे जना गतानुगतिकतयैव प्रवर्तन्ते । तदैते बुद्धेब्रह्मचारिणः १ - (मूर्खा:) इति किं नाऽऽभाति ? । बन्धो ! एतादृस्थितेः प्रभावादिदानी देशे समाजे कुटुम्बे धर्मस्थाने चा वास्तविकदृष्ट्याऽतीव निकृष्टा दुःशीलाश्च जना लोके सज्जनरूपेण प्रतिष्ठिताः, देशस्य । समाजस्य चाऽग्रणीत्वेन स्थापिताः । कदाचित्तु कमलस्य 'क' कीदृशः ? इत्यपि न # R जानन्ति ये तेऽपि महाज्ञानित्वेन विख्याताः । येषां देहे प्रतिरोमं कामवासनाग्निः प्रज्वलति । तादृशा अपि चारित्रचूडामणि-अखण्डब्रह्मचर्यपालकत्वेन वर्णिताः । कदाचित् कैश्चित् । धनेन सत्तया वाक्चातुर्येण चैवं येन केन प्रकारेण समाजे लोके च सन्मान-पद-प्रतिष्ठादिकं in प्राप्तम् । एवं ये जना लोके प्रसिद्धा लोकप्रियाश्च स्युः ते 'वयं किमपि कर्तुमधिकारिण' इति मन्वते । पश्चात् यथा "प्रसिद्धेन यत् क्रियते सा लीला" प्ररूप्यते तथैव तादृशै १ःशीलैरज्ञानिमूर्धन्यैरपि लोकप्रसिद्धत्वादिबिरुदधारिभिः तैर्जनैर्यत् किमपि विधीयते तत् EN सर्वं लीलात्वेन स्वीक्रियेत । वस्तुत एतादृशैस्तुच्छजनैः स्वमनीषिकयैव शास्त्रनिरपेक्ष धर्महानिकर जनविरुद्धं कलङ्करूपं वा यत् किमपि कथ्यते आचर्यते च तत् सर्वं । - श्लाघनीयमाचरणीयं वन्दनीयं वाऽपि भवति । अत्राऽप्याश्चर्यं त्वेतद् यद्, जनप्रियैर्यदाचरितं - गदितं वा तदेव यदि नाम सामान्यजनैः क्रियेत तर्हि तन्निन्दनीयं स्यात् । अहो ! प्रसिद्धजनानां 1 लीला वर्णनीयैव खलु । बन्धो ! तेषां माहात्म्यं (?) कथं वर्णयानि ? तेषामसत्यवागपि सत्यरूपेण 0 प्रतिष्ठाप्यते, तथा ते सत्यवादिहरिश्चन्द्रस्याऽवतारा मन्यन्ते । कामवासनातिरेको दुराचारश्चाऽपि Eva वात्सल्यत्वेन निरूप्येते । अभिमानिन उद्धता वा सन्तोऽपि ते विनयिनो गण्यन्ते । प्रतिपदं व माया-प्रपञ्चादिकमनुसरन्तोऽपि सरलहृदयत्वेन प्रसिद्ध्यन्ते । कृपणधियोऽपि दानवीरत्वेनाऽ ५ भिनन्द्यन्ते । स्खलन्तो भाषमाणा अपि वाक्पटुत्वेन मन्यन्ते । आशुकोपना अपि प्रशान्ताः । | ( कथ्यन्ते । अहो ! खलु तेषां लीला ! । १०८ Page #120 -------------------------------------------------------------------------- ________________ NEWS किञ्च-वास्तविकदृष्ट्या ये जना अतीव सज्जनाः प्रशान्ता निर्मलचित्ता निरभिमानिनः । सदाचारिण एव सन्ति, तथाऽपि यदि ते समाजे न प्रसिद्धाः, न च जनप्रियाः स्युः तर्हि EN तैः कृतं प्रशंसनीयमादरणीयं चाऽपि कार्यं निन्दनीयं भवति । एवं चाऽन्ये जना तान् जनान तिरस्कुर्वन्ति, तेषामवर्णवादं कुर्वते, सदा तानुपेक्षन्तेऽपि । १ हन्त ! इदानीं राज्यस्थाने धर्मस्थाने चैवं सर्वत्र सर्वैर्जनैरेवमेव व्यवहियते । सर्वेष्वपि क्षेत्रेषु ये येऽग्रण्यः प्रमुखाधिकारिणश्च सन्ति, ते ते स्वाधिकारवशात् पदप्रतिष्ठाया । बलात् सत्ताया बलाच्च स्वेच्छापूर्त्यर्थं महत्त्वाकाङ्क्षायाः पोषणार्थं चाऽत्यन्तं निन्दनीयं । जुगुप्सनीयं च कार्यं कुर्वन्ति, कारयन्ति च, तथाऽपि ते वन्दनीया महान्तश्च कथ्यन्ते, यतः ६ ते प्रसिद्धा जनप्रियाश्च सन्ति । बन्धो ! पूर्वं ग्रामेषु बहुरूपिणोऽटन्ति स्म । ते चाऽऽजीविकार्थं विविधानि । रूपाणि विरचय्य जनानां मनोरञ्जनमकुर्वन् । कदाचित् ते रामस्य हनुमतः शङ्करस्य । ) रावणस्य चैवं विविधं रूपं भजन्ते स्म । किन्तु तत्तद्रूपस्य धारणमात्रत्वात् न ते तादृशा र भवन्ति । केवलं बाह्यवेषस्य बाह्यवर्तनस्य च परिवर्तनान्नाऽऽभ्यन्तरवृत्तिः परिवर्तते । अतो न कदाऽपि बाह्याचरणं निरीक्ष्यैवैष ज्ञानी सदाचारीत्येवं तत्तद्व्यक्तेर्मूल्याङ्कनं करणीयम् । तथैवैते प्रसिद्धजना अपि यथाकालं नानाविधं रूपं निर्मान्ति । नाऽत्र तच्चित्ते गुणलेशोऽपि विद्यते, न च गुणप्राप्त्यर्थं भावोऽप्यस्ति, किन्तु हृदये तु दुष्टवृत्तय एव प्रवर्तन्ते । तथाऽप्यहो ! ते जनप्रसिद्धाः सन्ति, अतः तेषां निन्दनीयमकृत्यं च कार्यमपि प्रशंसनीयमादरणीयं च । भवति । किन्तु हन्त ! एषा रीतिर्दयनीयाऽस्ति, यत एतन्नीतेर्वशात् देशे समाजे धर्मस्थाने । प्रतिगृहं च क्लेशोऽशान्तिः सङ्घर्षश्च प्रवर्तन्ते, तथा च जना अप्यन्ततो निस्तेजसो निर्माल्याश्च भवन्ति । भ्रातः ! सूक्ष्मदृष्ट्या निरीक्षणे कृते एवमाभाति यद्, अस्याः स्थितेर्मूलं महत्त्वाकाङ्क्षाऽस्ति । अद्य बालकादारभ्य वृद्धपर्यन्ताः सर्वेऽपि जना महत्त्वाकाङ्क्षिणो विद्यन्ते । र RO आस्तामज्ञानिनः संसारिणश्च, अपि तु ज्ञानिनः साधवोऽपि महत्त्वाकाङ्क्षया पीडिता दृश्यन्ते । जलार्थं रणेऽटन्तो हरिणा इवैते जना अपि महत्ताप्राप्त्यर्थमटन्ति । "अहं श्रेष्ठो महान् ज्ञानी चाऽस्मि, न कदाऽपि मे कार्य स्खलना न्यूनता च स्या"दिति सर्वेषां चित्ते मिथ्याभिमानं C) रंरम्यते । अत्र केषाञ्चिदपि न तादृशी महत्तां प्राप्तुं शक्तिरस्ति, न च कदाऽपि तत्प्राप्त्यर्थं । १०९ Page #121 -------------------------------------------------------------------------- ________________ I प्रयत्नः क्रियते तैः । तथाऽपि ते जनाः स्वान् पण्डितान् महतश्च मन्वते । ततोऽपि महदाश्चर्यं त्वेतद् यद्, नैतावान् तेषां महेच्छाया अवधिः, अपि त्वन्ये सर्वेऽपि जना अस्मान् “एते ज्ञानिनो महान्तः पण्डिताश्चेति कथयेयुः, सर्वेऽस्मदधीनाः स्यु" रिति महन्तीमभिलाषां सेवन्ते ते । किन्त्वायासमकृत्वैवैतादृशी महेच्छाऽऽसेवनीया, सा तु महामूर्खताऽस्ति । हन्त ! मूढोऽपि जनः पण्डितंमन्य इव चेष्टते । अतो द्वयोर्मध्ये किमन्तरम् ? । न कदाचिदपि कोऽपि जनो जन्मत इच्छातश्च महानस्ति, अपि तु पुरुषार्थेनैव महान् भवति । वस्तुतो यो महान् ज्ञानी चाऽस्ति स न हि स्वं महान्तं दर्शयितुं प्रयतते यश्च प्रयतते स कदाऽपि महान्न स्यात् । कृत्रिमताया आवरणमपाकृत्य वास्तविकताया उद्घाटने एव यथार्था महत्ता विद्वत्ता च स्तः । तथाऽप्यद्य सर्वेऽपि जनाः स्वशक्तिमज्ञात्वैव वास्तविकतां निरुध्य च केवलं महत्तामभिलषन्ते, न तु प्रयतन्ते । किञ्च - इदमपि ज्ञेयं यद्, यथा रसायनस्योचितोपयोगः शक्तिवर्धकः, एवं च । यथेच्छं तदुपयोगः शक्तिनाशको भवति । तथैव महत्त्वाकाङ्क्षाप्येकमुत्तमं जीवनरसायनं विद्यते । सा कांश्चन् जीवान् तारयति, कदाचित् सैव महत्त्वाकाङ्क्षा जीवान् मारयेदपि । अतो महत्त्वाकाङ्क्षाऽपि स्वशक्त्यनुरूपैवाऽऽ सेवनीया । किं पङ्गुर्मेरुगिरिमारोढुं शक्तो भवेत् ? किं भिक्षुको भूमीशो भवितुं शक्नुयात् ? नैतच्छक्यम् । तथैव न शक्तिशून्या जीवा महत्तां प्राप्तुमर्हाः सन्ति । एते पूर्वव्यावर्णिताः प्रसिद्धजनाः शक्तिशून्याः सन्ति, तथाऽपि ते महत्त्वाकाङ्क्षिणः सन्ति । अतो येन केन प्रकारेण महत्तामवाप्तुं प्रयतन्ते ते । तदा च तुच्छा वराकाश्च ते जीवा अत्यन्तं निकृष्टं जुगुप्सनीयं च मार्गं स्वीकुर्वन्ति । " एषाऽन्यस्य रेखां लघ्वीं कृत्वा स्वस्य रेखाया वृद्धे च्छाऽस्ति यद् अन्यस्य सद्गुणा अपि दुर्गुणत्वेन कथनीयाः, तथाऽऽत्मनो दुर्गुणा अपि सगुणरूपेण वर्णनीया" इति । अत्राऽन्यस्य रेखां लघ्वीं कृत्वा स्वरेखाया वृद्धिकरणे न पौरुषम् । एतद्द्वारेण तु तादृशा जीवा आत्मनो दुर्बलतां नपुंसकत्वं चैव प्रमाणीकुर्वन्ति । हन्त ! एतादृशा जीवाः पुंस्त्वशून्याः सन्तोऽपि महत्त्वाकाङ्क्षाया बलादेतादृशीं म्लानरीतिमनुसरन्ति, अनुसृत्य तुच्छप्रसिद्ध्या स्वप्रशंसार्थं निरन्तरं प्रयतन्ते । यतो "यदि नामैकदैवंरीत्या समाजे ग्रामे देशे च प्रसिद्धा जनप्रियाश्च भवेम तर्हि का चिन्ता ? पश्चात्तु किमपि कर्तुं स्वतन्त्रा वयं भवामः । तथा च वयं स्वेच्छया कार्यं कर्तुं कारयितुं च शक्नुमः । वयं यत् ११० Page #122 -------------------------------------------------------------------------- ________________ at किमपि कथयेम. आचरेम च तत सर्वं हि निराबाधतया शास्त्रं जनसम्मतमाप्तवचन मागमप्रमाणितं च भवेत् । तदा तु सर्वेषां मुग्धजनानां वञ्चने का बाधा स्यात् ?" इति । SMS जानन्ति ते । कथितं च - स्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुद्रैः । नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥ सर्वत्रैषैव रीतिः प्रवर्तमानाऽस्ति । अत्र नाऽन्यत् किमपि प्रमाणमावश्यकम्, यतो छ वयं सर्वेऽपि प्रतिदिनमेतां रीतिमनुभवामः । बन्धो ! प्रवर्तमानयैतद्पद्धत्या द्वावलाभौ भवतः । एकतः सज्जना बुधजनाश्च देशसमाजयोः सत्कार्येभ्यः शनैः शनैर्दूरीभवन्ति । यत एते प्रसिद्धजनाः सदाऽस्माकं विना कारणमवहेलनां निन्दां च विधास्यन्ति, तथा स्वप्रतिष्ठार्थमस्माकं प्रतिष्ठां म्लानीकरिष्यन्तीति BE जानन्ति ते प्राज्ञजनाः । एवं देशे समाजे च सज्जनानां गुणिजनानां च सङ्ख्याऽल्पीभविष्यति, तथा च दुर्जनानामुद्धतजनानां च वृद्धिर्भविष्यति । प्रान्ते केवलं दुर्जनानां दुर्गुणानां चैवाऽस्तित्वं ह भविष्यति । अहो ! पश्यतु, अद्याऽपि मुख्यस्थानानां मुख्याधिकारिणः कीदृशाः सन्ति ! a अपरतोऽसदाचरणं दुर्नीतिविरुद्धरीतिश्चैव देशे समाजे कुटुम्बे धर्मस्थाने च परम्परा भविष्यति, यतोऽग्रण्यो यत् कुर्वन्ति तदेव तदाश्रिता जना अनुकुर्वन्ति । कथितं च - यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ (गीता - ३-२१) ६ ___ एवं यदाऽग्रगण्या मुख्याधिकारिणश्चैव स्वेच्छापूर्त्यर्थं सुखभोगार्थं चाऽसदाचरणं विपरीतवर्तनं च कुर्युः तदा तदाश्रयिणो मुग्धजनाः "एतदेवोचितं मान्यं च तथैषैवाऽस्माकं . कुलरीति"रिति मत्वाऽनुसरेयुः । समाजे जीवने चाऽधर्मस्याऽनीतेश्च प्रवेशः स्वकीयानामग्रणीनां प्रमादवशादेव भवति । एवं सति गच्छति काले मूलपरम्परा विलुप्स्यते तथाऽशुद्धचेष्टेव ER रीतित्वेन स्थास्यति । ततो न कदाऽपि लोकविरुद्धमाचारविरुद्धं च करणीयमग्रणीभि न्यजनैश्च, यत् एते मान्यजना अनेकेषां जीवानामाधारभूताः, केषाञ्चिज्जीवानां श्रद्धास्पदरूपाः सन्ति । अतो यदा ते एव प्रतिकूलमाचरेयुः तदा नैकेषां जीवानां श्रद्धाभङ्गो भवति, कदाचिदनेके जीवा धर्मविमुखा नीतिविमुखाश्चाऽपि भवन्ति । ततः प्रसिद्धजनैरत्यन्तं १११ Page #123 -------------------------------------------------------------------------- ________________ सावधानैर्भाव्यम् । प्रमादतोऽपि स्वपरो भयोर्हानिर्यथा न स्यात्तथा वर्तितव्यम् । एकैकस्य व्यक्तेरनिष्टाचरणं तत्तद्व्यक्तेरेवाऽहितं करोति, किन्तु मान्यजनानामग्रणीजनानां च विपरीतवर्तनं तु बहुजनानां कृते हानिकारकं भवति, अनर्थपरम्पराया निदानमपि भवति । अतः तेषामाचरणमेवैतादृशं स्याद् येनाऽन्ये जीवा तन्निरीक्ष्य स्वयमेव गभीराः शान्ताः स्थिराश्च 19 भवेयुः । तथा समाधिमवाप्य स्वजीवनं कृतकृत्यं कुर्युः । ते प्रसिद्धजनास्तु मध्यस्थाः स्युः । कस्यचिद् लघुगुणोऽपि प्रशंसनीयः तथाऽऽत्मनो लघुदोषोऽपि निन्दनीयः । किं त्वं जानासि ? ज्ञातत्रिलोकान्तर्गतसमस्तवस्तुस्वरूपाः श्रीकेवलिभगवन्तोऽपि परम्परायाः पालनार्थं परीषहोपसर्गान् सहन्ते । "पंचेहिं ठाणेहिं केवली उदिने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं चणं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्म सहिस्संति, जाव अहियासिस्संति" इत्युक्तं श्रीआचाराङ्गसूत्रस्य टीकायाम् । एवं केवलिभगवन्तः सर्वशक्तिलब्धिसंपन्नाः सन्ति । तेषां समक्षं सर्वेऽपि जीवाः तुच्छा:- वराकाः सन्ति । तथाऽपि यदि ते केवलिनः परम्परारक्षणार्थं परीषहादीन् विषह्य स्वरीत्याः पालनं कुर्युः तर्ह्यस्माकं का वार्ता ? अतः स्वमनोरथपूर्त्यर्थं न कदाऽपि मनोनुकूलं करणीयं मान्यजनैः । अन्ते, "ख्यातस्याऽऽचरणं लीला, तदेवाऽन्यस्य विटचेष्टा" इति नीत्या जायमानानलाभानवेत्य स्वार्थ- महत्त्वाकाङ्क्षा-लोभ-तृष्णादिकं विहाय निःस्वार्थतयैव वर्तितव्यं प्रसिद्धजनैर्मान्यजनैश्च । तथा च तद्द्वारेण वयं सर्वे वस्तुतः प्रसिद्धरूपा भवेम, इत्याशासे । १. पञ्चभि: स्थानैः केवल्युदीर्णान् परीषहानुपसर्गान् यावदध्यासयेत्, यावन्मम च अध्यासयतो बहवः छद्मस्थाः श्रमणा निर्मन्था उदीर्णान् परीषहोपसर्गान् सम्यक् सहिष्यन्ते, यावदध्यासिष्यन्ते । ११२ Page #124 -------------------------------------------------------------------------- ________________ अनुवादः || कर्तव्यग्रहणम् मुनिकल्याणकीर्तिविजयः स Aameshweshawarisekese सायंकालो जातः । अस्ताचलं प्रस्थितो रविरवनि चिन्ताकुलतया पृच्छति स्म'को मम कर्तव्यानि पारयिष्यति ? कः शून्यावकाशं पूरयिष्यति ?' श्रुत्वेमं प्रश्न विच्छायवदनाः सर्वे स्तब्धाश्व; तावता एकस्मात् कोणात् क्षुल्लक: मृत्तिकाशरावोऽकूजत्'चिन्ता माऽस्तु प्रभो ! अत्यल्पमस्ति मे सामर्थ्य तथाऽपि तत्राऽहं यथाशक्ति यतिष्ये' प्रसन्नः सूर्योऽवदत्'चिरायुर्भव !!' BIHAR PARAN ११३ Page #125 -------------------------------------------------------------------------- ________________ ON अनुवादः > हृदयवेधः एकः शरः एका च गदा । द्वावपि सोदरौ भ्रातृभगिन्यौ। शरो दुर्बलो लघुकश्च । गदा स्थूला गुर्वी च । सा निजशारीरिकसामर्थ्येन गर्वोत्रताऽऽसीत् । अत एकदा सा शरं कथितवती भोः शर ! यद्यपि त्वं मे भ्राताऽसि तथाऽपि तव भ्रातृत्वप्रभावाद् मम शोभा न्यूनीभवति । त्वमसि निर्बलः शुष्कशरीरश्च । अहं तु बृहत्काया बलवती च । मम भार गौरवपूर्णां मूर्ति दृष्ट्वा सर्वेऽपि मां नमस्यन्ति । अन्यथाऽहं तेषां मस्तकं स्फोटयिष्यामीति का ते जानन्ति । एतद्वैपरीत्येन त्वं तु नितरामकिञ्चित्करोऽसि । तव यत्किञ्चिदपि सम्माननं में भवति तद् ममैव प्रभावाद् भवति । अतस्तव जीवनं सर्वथा निष्फलं निरर्थकं च । त्वं का तु पद्यमिव तपस्वी लघुश्च । अहं तु गद्यमिव महत्त्वयुता गुर्वी च । अतो ममैव जीवनं । सफलं सार्थकं च । श्रुत्वैतत् सर्वं शरोऽवदत् भगिनि ! सत्यमेतद् यत् त्वं गुर्वी अहं तु लघुकः, त्वं बलवती शिरोभञ्जनी चाऽहं की तु दुर्बलः शुष्कदेहश्च । किन्त्वेतावन्मात्रेणैव त्वं महत्त्वयुता सप्रयोजना च, अहं तु अकिञ्चित्करो निष्प्रयोजनश्च; तव जीवनं सार्थकं मम तु व्यर्थं निष्फलं चेत्यादि सिद्धं न भवति । - यदि त्वं मामतिशयितुमेवाऽभिलषसि तर्हि यत् कार्यमहं करोमि तत् कृत्वा कर SL दर्शय। अहं हृदयवेधं करोमि । त्वमपि मस्तकस्फोटनाद् निवृत्य हृदयवेधे प्रवर्तस्व । तदाऽहं त्वां महत्त्वशालिनी मंस्ये । एतच्छ्रुत्वा गदा तूष्णीं जाता । सा मस्तकस्फोटने दक्षाऽऽसीत् किन्तु हृदयावित् तु शर एव । पद्यकार्यं साधयितुं गद्यं नाऽलं खलु !! [मूलकर्ता : बांग्लाभाषायां महाकवि श्रीरवीन्द्रनाथ टागोरः, कणिकानाम्नि मुक्तक-कवितिकासंग्रहे । तस्य गूर्जरानुवादः का रविप्रसादे श्रीरमणलालसोनीकृतः] Bra.Com ANATAANRASAIRAL ११४ Page #126 -------------------------------------------------------------------------- ________________ अनुवादः जैनाचार्यश्रीसिद्धसेनदिवाकरसूरिः ____ (संक्षिपपरिचयः प्रदानं च) 600- ... गूर्जरभाषायां मुक्तभावानुवादः मू.ले. श्रीमावजीभाई सावला मधुसूदन-व्यासः संस्कृतविभागाध्यक्षः आर्ट्स कोलेज, है पो. शामलाजी. ३८३३५५ (गूज.) ___ परिचय :- वि.सं. १३३४ तमे वर्षे श्रीप्रभावचन्द्रसूरिभी रचितः 'प्रभावकचरित्रम्' नाम ग्रन्थः समुपलभ्यते । तत्राऽऽचार्यश्रीसिद्धसेनदिवाकरसूरे वनवृत्तमस्ति । तदनुसारेण Hars तस्य जन्मस्थलम् ‘उज्जयिनी'नगरमासीत् । 'सिद्धसेन' इति तस्य नामाऽऽसीत् । तस्य पिता च कात्यायनगोत्रीयो देवर्षिनामा ब्राह्मण आसीत् । सकलवेदविद्यापारगामित्वं तेन प्राप्तमासीत् । वादकलानैपुण्यं प्राप्तवतः सिद्धसेनस्य मनस्यहङ्कार आसीद् यद्, 'मां न कोऽपि वादे पराभवितुं शक्नोति' । अतस्तेन सङ्कल्पितं यद्, यदि नाम मां कोऽपि वादे ०६, पराजयेत्तदा तस्य शिष्यत्वमहमङ्गीकरिष्ये । जैनाचार्यश्रीवृद्धवादिसूरिभिः पराजितः स . स्वप्रतिज्ञानुसारेण तेषां शिष्यत्वमङ्गीचकार । पश्चाच्च जैनसाधुर्भूत्वा तेन जिनशासनोन्नतेरनेकानि ". कार्याणि कृतानि । तस्य योग्यत्वं विज्ञाय गुरुभिराचार्यपदे स्थापितः सः । तदनन्तरं स ॐ सिद्धसेनदिवाकरसूरिरित्याख्यया विश्रुतो जातः । यद्यपि तस्य समयो न सुस्पष्टतया निर्णीतः, तथाऽपि विक्रमस्य पञ्चमषष्ठशताब्द्योः तस्य विद्यमानताऽऽसीदिति विदुषां मतम् । 'सिद्धसेनशतक'नामके पुस्तके तत्सम्पादकेन । - मुनिश्रीभुवनचन्द्रेणैवं तर्कितं यद्, 'वि.सं. ६६६तमवर्षे श्रीजिनभ्रद्रगणिक्षमाश्रमणेन रचिते * 'विशेषावश्यकभाष्य'नामके ग्रन्थे श्रीसिद्धसेनदिवाकरसूरेः समुल्लेखः प्राप्यते । अत एतत् . सिद्धं भवति यत् सप्तमशताब्दीपूर्वमेव स सञ्जातः" । ११५ Page #127 -------------------------------------------------------------------------- ________________ प्रदानम् - तेन सूरिणाऽर्थगभीरा विविधविषयका अनेके ग्रन्था रचिताः । तत्र ॐ... - प्राकृतगाथानिबद्धः 'श्रीसन्मतितर्कप्रकरण' नामको ग्रन्थोऽग्रेसरत्वं भजति । तत्र ग्रन्थे कर, स्याद्वादस्याऽन्येषां वादानां च गभीरा चर्चा कृताऽस्ति । अस्योपरि श्रीअभयदेवसूरिभिवृहद . ॐ विवरणं कृतमस्ति । अस्य ग्रन्थरत्नस्य सम्पादनं पं. सुखलालजीमहोदय-पं. बेचरदासजीमहोदयाभ्यां महता परिश्रमेण विहितमस्ति । तेषामपरा कृतिरस्ति द्वात्रिंशद्वात्रिंशकेति । ताभ्यो द्वात्रिंशकाभ्य एकविंशतिद्वात्रिंशिका एव समुपलभ्यन्ते । शेषा द्वात्रिंशिकास्तु कथमपि कुत्राऽपि विनष्टा इति प्रतिभाति । एतासु द्वात्रिंशिकासु भगवतो महावीरस्य मार्गस्य लोकोत्तरता, तद्गुणानां वैशिष्ट्यम्, तत्त्वज्ञानम्, वादोपनिषद्, वादविवादस्य नैरर्थक्यम्, ब्रह्मतत्त्वम्, साङ्ख्यमतम्, वैशेषिकदर्शनम्, बौद्धदर्शनम्, नियतिवादः (अस्या द्वात्रिंशिकायाः संशोधनपूर्वकः सविवेचनो का गूर्जरानुवादो मुनिश्रीभुवनचन्द्रजीमहाराजेन कृतोऽस्ति), मोक्षमार्गः, न्यायावतारः (अस्या . * अपि द्वात्रिंशिकाया बृहट्टीकोपलब्धाऽस्ति), इत्यादयो विविधा विषया निरूपिताः सन्ति । म श्रीसिद्धसेनदिवाकरसूरिणा स्वजीवनवृत्तं कुत्राऽप्युल्लेखितं न दृश्यते किन्तु विभिन्नेषु । र प्राचीनग्रन्थेषु तत् किञ्चित् प्राप्यते । तत्सर्वमवलोक्य पं. श्रीसुखलालजीमहोदय-पं. १०... - श्रीबेचरदासजीमहोदयाभ्यां 'सन्मतितर्कप्रकरण'- ग्रन्थस्य प्रास्ताविके विशदतया वर्णितमस्ति। अतो विशेषार्थिभिस्तत एवाऽवलोकनीयम् । जात: कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहं चिन्तारतमुपस्थितं करतले प्राप्तो निधि: सन्निधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये सन्तोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ।। (सोमप्रभाचार्यरचिता सूक्तमुक्तावली ॥) 1987 ११६ Page #128 -------------------------------------------------------------------------- ________________ C (समीक्षक: डॉ. रूपनारायण पाण्डेयः ग्रन्थसमीक्षा लेखक: पद्मश्री डॉ. कपिलदेव द्विवेदी गीताञ्जलिः एस. २, ३३०, राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः, उ.प्र. २११००२) प्रकाशकः विश्वभारती अनुसन्धान परिषद्, ज्ञानपुर (भदोही) उ.प्र. २२१३०४ प्र. सं. २००४ ई. । पृ.सं. १० + ११२ । मू. ७५-०० - विद्यन्ते विविधा ऋचो वेदेषु गेयाः । ता एव लौकिकगीतानामुत्सोऽस्तीति वक्तुं शक्यते । वेदोद्भूता गीत-काव्यधारा शङ्कराचार्य-कालिदास - घटकर्पर-भर्तृहरि - बाण - मयूरविजयाङ्का - अमरुकक - दामोदरगुप्त-मल्लट - शीला भट्टारिका - क्षेमेन्द्र-हेमचन्द्र - गोवर्धनाचार्य'जयदेव - विल्हण - पण्डितराजजगन्नाथप्रभृतिभिः कविप्रवरै: प्रवाहिता सम्वधिता चाऽद्य विविध - धारासु संशोभते । वर्तमानकालेऽनेकैः कविवरैर्गीतानि प्रणीतानि, प्रणीयन्ते च । तेषु पद्मश्री डा. कपिलदेव द्विवेदी महोदयेन 'गीताञ्जलिः' इति ग्रन्थः प्राणायि । ग्रन्थेऽस्मिन् सप्त भागाः सन्ति । प्रथमे भागे हे ज्योतिर्मय हे विश्वमूर्ते, सहस्रशीर्षा पुरुषः, तदेवाग्निस्तदादित्यः, केतपू: केतं नः पुनातु, ईशप्रार्थना, उद्धर पापमिति • सप्त प्रभुभक्तिगीतानि विद्यन्ते; द्वितीयभागे वरदा वेदमाता, गायत्री नः प्रचोदयात्, सरस्वती, शारदा, अदितिरिति चत्वारि मातृवन्दनोपेतानि गीतानि राजन्ते तृतीये भागे वेदमातः, वेदाविद्या, सत्यार्थप्रकाशगौरवमिति त्रीणि धार्मिकगीतानि विलसन्ति; चतुर्थे भागे भारतं तं नुमो भारतं तं नुमः, भारतराष्ट्रवन्दनम्, देशानुरागः परमानुरागः, स्वातन्त्र्य- - गौरवम्, वसुधैव कुटुम्बकम्, लोकतन्त्रम्, स्वाधीनता, राष्ट्रकुसुमाञ्जलिः, * हुतात्मज्योतिः, हुतात्मानः, सर्वोदयः, दशवर्षीयः स्वर्णिमकालः, विंशतिसूत्री कार्यक्रमः, - - ११७ Page #129 -------------------------------------------------------------------------- ________________ * कागिल-हुतात्मभ्यः श्रद्धाञ्जलिः, प्रदूषणसमस्या, आतङ्कवादः - इति षोडश राष्ट्रीयगीतानि * विराजन्ते; पञ्चमे विभागे - महर्षिर्वाल्मीकिः, गणिताचार्यः श्रीआर्यभट्टः, दयानन्दस्तवः, , दयानन्दस्वामी, दयानन्दं वन्दे, हे ऋषिवर्य, महर्षिमहिमा, महर्षिः दयानन्दः, श्रीदर्शनानन्दस्तवः, दर्शनानन्दगुणगरिमा, दर्शनानन्दगौरवम्, यतिः श्रद्धानन्दो, हुतात्मा महात्मा * गान्धिः, पूतात्मा सुकृती, प्रधीर्गोपीनाथो, विराजतेऽयं., श्रीअरविन्दो विजयते, इन्दिरागौरवम्, * - काशिराजो विजयते, श्रीडा.रघुवीराणां., पं.वासुदेवविष्णुदयालः, श्रीरामवृक्षबेनीपुरी०, . र आचार्यालक्ष्मीदेवी, जीव्यात् चिरं., सुश्रीशार्लोटक्राउजे, जयतु क्षितीशः, डा.प्रज्ञादेव्याः , कीर्तिकौमुदी - इति सप्तविंशतिर्गीतानि महापुरुषाणां गरिमाणं गायन्ति; षष्ठे विभागे - * प्रभातवर्णनम्, प्रकृतिसौन्दर्यम्, वसन्तवैभवम्, विभाति दीपमालिका, विन्ध्यवैभवम्, * * नववर्षाभिनन्दनम् इति अष्ट गीतानि प्रकृति वर्णयन्ति; सप्तमे च भागे - संस्कृतभाषागौरवम्, * संस्कृतभाषामहिमा, मारीशसप्रशस्तिश्च - इति त्रीणि गीतानि सुरभारती मारीशसदेशं च । - प्रशंसन्ति । अत्र संकलितेषु गीतेषु कानिचन गीतानि आकाशवाणी-दूरदर्शनादिभ्यः प्रसारितानि सन्ति, कानिचिच्च पत्रपत्रिकासु अपि प्रकाशितानि ।। * विविधान् विषयानधिकृत्य विरचितान्येतानि गीतानि नितरां रम्याणि समुज्ज्वलभावa विलसितानि च सहृदयहृदयं स्पृशन्ति । साम्प्रतमातङ्कवादस्य समस्या निखिलं लोकं 6. निपीडयति । तमधिकृत्य डा. द्विवेदिनो वाणी श्रूयेत । इमे पिशाचाः पिशिताशनाश्च विनाशनीया बहु दण्डपातैः । आतङ्कवादस्य विनाशनाय रुद्रस्वरूपं वरणीयमेव ।। देशद्रुहां नाशनमेव धर्मः, दुरात्मनाशः परमेशभक्तिः । यथायथं संक्ष तथाविधं कार्यमभीष्टमेव ॥ (गीता०, पृ. ५५) * कविवरेण्यस्य राष्ट्रभक्तिरभिनन्द्या विद्यते । स्वक्षेत्रहितप्रधाने युगेऽस्मिन् समग्रराष्ट्रस्य |F कृते बलिदानं ध्रुवं स्पृहणीयमस्ति । ११८ Page #130 -------------------------------------------------------------------------- ________________ 'राष्ट्रस्य हेतोर्बलिदानभावो . राष्ट्रस्य कल्याणविधौ प्रयत्नः । रात्रिन्दिवं राष्ट्रसमृद्धिचिन्ता, स्याज्जीवनस्य प्रथमोऽभिलाषः ॥' (तत्रैव, पृ. २९) राष्ट्रेऽस्मिन् प्राचीनकालादनेके महापुरुषाः सञ्जाताः, किन्तु तेषु स्वामिवर्ये दयानन्दे * तस्य विशिष्टा निष्ठा तत्सम्बद्धैरनेकगीतैर्ज्ञातुं शक्यते । न जाने, तेन कथं भारतीयसंस्कृति-** * प्राणभूताः राम-कृष्ण-महावीर-बुद्ध-शङ्कर-रामानुजादयोऽत्र विस्मृताः ? ग्रन्थस्य मुद्रणं रम्यं त्रुटिविरहितं च वर्तते । संस्कृतसंस्कृतिप्रणयिभिः कृतिरियं सङ्ग्राह्या पठनीया चाऽस्ति । जयतु संस्कृतं संस्कृतिश्च । 'वेदादिशास्त्रनिचयस्य गुणान् किरन्ती अध्यात्मज्योतिरिह सन्ततमातनोति । विश्वात्मना सकल सा संस्कृतेश्च जननी, जननीव वन्द्या ।।' (तत्रैव, पृ. १०८) उपकारिषु यः साधुः साधुत्वे तस्य को गुण: ? अपकारिषु यः साधुः स साधुः सद्विरिष्यते ।। जैनपसतन्त्रम् ।। ११९ Page #131 -------------------------------------------------------------------------- ________________ मानव्या CON ग्रन्थसमीक्षा VIL (समीक्षकः डा. रूपनारायण पाण्डेयः, एस् - II/330, राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः, उ.प्र.) EPALIF सम्पादिका व्याख्याकी - डा. शैलजा पाण्डेया, गङ्गानाथझा-केन्द्रीयसंस्कृतविद्यापीठम्, इलाहाबादः । NEE प्रकाशकः आर.के.पब्लिकेशन, कच्ची सड़क, दारागञ्जाः, इलाहाबादः । पृ.सं. १८६ + ४, मूल्यम् - अनिर्दिष्टम् । प्र.व. २००४ ख्रिष्टाब्दः । विद्यते वास्तुविद्याया बीजमथर्ववेदे । (द्र०- ‘ईहैव ध्रुवां नि मिनोमि शालां क्षेमे र KAR तिष्ठाति घृतमुक्षमाणा' । 'उपमितां प्रतिमितामथा'. अथर्व० ३।१२, ४३) ऋग्वेदे प्रयुक्ताः | 'वास्तु' - 'वास्तोः पतिः' - इत्यादयः शब्दा वास्तुविद्यायाः प्राचीनतरत्वं लोकजीविते ' च गृहस्य महत्त्वं च वदन्ति । (द्र० - ऋ० १/१५४/६, ५/४१/८, ७/५४/१-३, ७/५५/ १, ८/१७/१४, १०/६१/७, ८/२५/५) मत्स्यादिपुराणेषु भृगुरत्रिर्वसिष्ठो विश्वकर्मा मयोनारदो २ नग्नजिद् विशालाक्षः पुरन्दरो ब्रह्मा कुमारो नन्दीशः शौनको गर्गो वासुदेवोऽनिरुद्धः शुको ETAH व बृहस्पतिश्चेत्यष्टादशवास्तुशास्त्रोपदेष्टार उच्यन्ते । वास्तुशास्त्रं द्विविधं वर्तते-नागरं द्राविडं न च । नागरपरम्परागतग्रन्थेषु विश्वकर्म-वास्तुशास्त्र-विश्वकर्मप्रकाश-दीपार्णव-क्षीरार्णव वास्तुप्रदीपादयो विलसन्ति, द्राविडपरम्परागतग्रन्थेषु च मानसार-तन्त्रसमुच्चय-शिल्परत्न. प्रभृतयः । डा. शैलजापाण्डेयासम्पादिता 'मनुष्यालयचन्द्रिका' द्राविडपरम्परामनुसरति । 5 ane विद्वद्वरो नीलकण्ठोऽस्य प्रणेतास्ति । स विश्वविश्रुत-महाभारतटीकाकार-नीलकण्ठचतुर्धराद्र भिन्नोऽस्ति । ग्रन्थेऽस्मिन् सप्ताध्यायाः सन्ति । प्रथमेऽध्याये भूपरीक्षणसम्बद्धा विषया वर्ण्यन्ते, द्वितीयेऽध्याये दिग्भूभागवीथीवास्तुदेवतादयोनिर्णीयन्ते, तृतीयेऽध्याये मानभेद-योन्यायEL व्ययादयो निर्धार्यन्ते, चतुर्थेऽध्याये गृहाणाम् इष्टदीर्घपरिणाह-दीर्घविस्तारशालाभेदादयो । A विवेच्यन्ते, पञ्चमेऽध्याये गृहाधिष्ठानस्याऽङ्गभूता उपपीठ-प्राङ्गण-प्रणाल-स्तम्भादयः । AM १२० Page #132 -------------------------------------------------------------------------- ________________ THAN " प्रतिपाद्यन्ते, षष्ठेऽध्याये शिखरविधयो निश्चीयन्ते, सप्तमे चाऽध्याये बाह्यगेहकूपतडागादयो र व्यवस्थीयन्ते ! समग्रग्रन्थस्य हिन्दीरूपान्तरं सम्पादिकया व्यधायि । हिन्दीरूपान्तरानन्तरं प्रत्यध्यायं केषाञ्चित् श्लोकानामुपरि विशिष्टा टिप्पणी हिन्दीभाषया लिखिता शोभते । ग्रन्थान्ते पारिभाषिकशब्दावली, चित्रावली, पृष्ठसंख्याविहीना श्लोकानुक्रमणिका च राजन्ते। से ग्रन्थादौ हिन्दीभाषया लिखिता 'प्ररोचना' (पृ. १-२३) वास्तुविद्यायाः, ग्रन्थस्य, ग्रन्थकारस्य च परिचयं प्रस्तौति । 'मनुष्यालयचन्द्रिका' वास्तुशास्त्रस्य विविधान् ग्रन्थान् वीक्ष्य व्यरच्यत वास्तुशास्त्रविदा नीलकण्ठेन मन्दमतीनां हिताय संक्षेपेण । ग्रन्थकृत् स्वयं वक्ति 'मयमतयुगलं प्रयोगमञ्जर्यपि च निबन्धनभास्करीययुग्मम् । मनुमतगुरुदेवपद्धतिश्रीहरियजनादिमहागमा जयन्ति । मार्कण्डेययुगं पराशरमुरारिप्रोक्तरत्नावलीसारान् काश्यपविश्वकर्ममतयुग्माद्यं कुमारागमम् । सव्याख्यां हरिसंहितां विवरणाद्यं वास्तुविद्यादिकान् दृष्ट्वा तन्त्रसमुच्चयोक्तमनुसृत्यैवाऽत्र संक्षिप्यते ॥ (म. १/७-८, पृ. २६) । वास्तुशास्त्रविदां कृतेऽस्य ग्रन्थस्य नितरामुपयोगिता वर्तते । अनेके लोकगम्या । विषया अप्यत्र सन्ति । यथा - गृहं परितः के वृक्षाः शुभमशुभं वा विदधति ? गृहे कुत्र Mar किं कुर्यात् ? 'पूर्वस्यां बकुलो वटश्च शुभदोऽवाच्यां तथोदुम्बरश्चिञ्चा चाम्बुपतौ तु पिप्पलतरु: सप्तच्छदोऽपि स्मृतः । कौबेर्यां दिशि नागसंज्ञिततरुः प्लक्षश्च संशोभनाः प्राच्यादौ तु विशेषतः पनसपूगौ केरचूतौ क्रमात् ॥' (म. १/२२)* ★ 'प्राचीनेऽग्निसमर्चनादिकमुदीचीने कुटुम्बादिकं व्यत्यस्य प्रकरोतु वा द्वयमिदं याम्येऽतिथिप्रीणनम् । पाश्चात्ये धनसन्निधानममदो द्वन्द्वं विपर्यस्य वा । शेषार्धे तु तयोस्तथा शयमविद्याभ्यासनाद्यं चरेत् ॥" (म० ७/३०) 'पर्जन्ये पचनालयं शिखिनि वा मेषे वृषे वाऽनिले तत्रैवाऽपि च भुक्तिसद्म मकरे चाऽपांपतौ चेष्यते । कुम्भे सौख्यगृहं तथैव मकरे वायौ तदावश्यके कर्तव्यं वृषमेषयोरिदमथो वायौ तथोलूखलम् ॥" (म. ७/३५) १२१ Page #133 -------------------------------------------------------------------------- ________________ ग्रन्थस्य रूपान्तरं भव्यतया ग्रन्थस्य भावमाविष्करोति । टिप्पण्यां ग्रन्थान्तरेभ्य उद्धृत्य केचिद् विषया विशदीकृताः सन्ति, किन्तु टिप्पण्य इमाः सर्वत्र न सन्ति । 2 षष्ठेऽध्याये सप्तदशं श्लोकं विहाय कोऽपि श्लोको न व्याख्यातः । हिन्दीरूपान्तरेण टिप्पण्या च साकं यदि प्रतिश्लोकं मूलस्य क्लिष्टपदानि संस्कृतेन हिन्द्या वा व्याख्यातानि की स्युः, तर्हि सामान्याः पाठका अपि ग्रन्थस्य तात्पर्यावगमे शक्ता भवेयुः । यद्यपि साम्प्रतं वास्तुशास्त्रमाधुनिकदृष्ट्याऽतितरां प्रगतं विद्यते, तथापि भारतीयवास्तुशास्त्रतत्त्वाधिगमे मनुष्यालयचन्द्रिकेति ग्रन्थस्याऽतीवोपयोगिताऽस्ति । मुद्रणदृष्ट्या प्रायशो त्रुटिरहितो भूरिपरिश्रमेण सम्पादिकया सम्पादितोऽनूदितश्च टिप्पण्यादिभिरलङ्कृतोऽयं ग्रन्थो न केवलं वास्तुशास्त्रविद्भिराराध्यः, अपितु संस्कृतज्ञैरपि संग्राह्योऽस्ति । जयतु X संस्कृतं संस्कृतिश्च । ArtF प्राध्यापकः भवती प्रत्यहं मां विस्मरणशीलतया निन्दति, किन्तु पश्य, अद्य तु भवत्येव छत्रं विस्मृत्याऽऽगता । अतोऽहं भवत्या मम चेति छत्रद्वयमपि गृहीत्वा ऽऽगतवान्। पत्नी परन्तु अद्याऽऽवां छत्रमगृहीत्वैव गत वन्तावास्ताम् !! १२२ Page #134 -------------------------------------------------------------------------- ________________ FACCOM . R कविराजमार्गः ग्रन्थसमीक्षा 08 श्रीयल्लापुरकृष्णशर्मा - कविराजमार्गाख्यः काव्यमीमांसाग्रन्थः कश्चन विद्योतते कन्नडभाषायाम् । पुराकाले कर्णाटकेषु कन्नडवाङ्मयाभिवृद्धौ जैनविद्वत्कवीनां योगदानं महदासीत् । प्राचीन- NE कन्नडवाङ्मये जैनविद्वत्कविभिविरचितानि शास्त्रीयानि काव्यानि च बहूनि प्रथन्ते । । केशिराजस्य शब्दमणिदर्पणम्, भट्टाकळंकस्य शब्दानुशासनमिति च द्वौ कन्नडव्याकरणविषयको ग्रन्थौ स्तः । उपलब्धेषु कन्नडभाषानिबद्धग्रन्थेषु कविराजमार्ग एव प्रथम इति प्रथते । ग्रन्थस्याऽस्य रचयिता जैनविद्वान् श्रीविजयः इति अभिप्रयन्ति विमर्शकाः । राष्ट्रकूटवंशीयस्य नृपतुङ्गनाम्नो नृपतेः (क्रि० ८१५-८८०) आस्थाने आसीदयं श्रीविजय इति प्रतीयते । कविराजमार्गे सन्ति त्रयः परिच्छेदाः । (१) दोषादोषानुवर्णननिर्णयः । (२) शब्दालङ्कारवर्णननिर्णयः । (३) अर्थालङ्कारप्रकरणमिति । दण्डिनः काव्यादर्श एव कविराजमार्गस्याऽस्याऽऽदर्शः । क्वचिद् भामहस्य काव्यालङ्कारोऽपि । परन्त्वत्र श्रीविजयस्य स्वोपज्ञा अपि केचिद् विचाराः समुल्लसन्ति । कविराजमार्गे चतुस्त्रिंशदर्थालङ्कारा निरूपिताः । सन्ति । जातिमारभ्य (जातिः स्वभावोक्तिः) आशी:पर्यन्तं चतुस्त्रिंशदालङ्कारान् न्यरूपयदत्र श्रीविजयः । भाविकमधिकृत्य 'केवलमलङ्कृति' इति वदन् ग्रन्थकारस्तं काव्यशोभाकरधर्म मन्यते इति भाति । भाविकोल्लेखानन्तरं ग्रन्थसमाप्तिवचनोपन्यासात्पूर्वं ग्रन्थकारो ध्वनिमधिकृत्य किमपि प्रस्तौति संक्षेपेण । कविराजमार्गस्थोऽयं ध्वनिप्रस्तावो भारतीयकाव्यमीमांसेतिहासे - उल्लेखमर्हति । यतो हि आनन्दवर्धनस्य समकालीनोऽयं श्रीविजयः। कविराजमार्गस्य रचनाकालो माकिं क्रि० ८६०-८८० अवधिक इति विदुषां विश्वासः । ध्वन्यालोकस्य रचनाकालोऽपि प्रायः स एव स्यादिति (क्रि. ८५०-९००) तर्कयन्ति इतिहासज्ञाः । परन्तु क्व काश्मीराः क्व वा कर्णाटाः ? । ध्वन्यालोकग्रन्थप्रसारात्पूर्वमेव श्रीविजय आनन्दवर्धनोपज्ञं १२३ Page #135 -------------------------------------------------------------------------- ________________ - ध्वन्याख्यमभिनवं काव्यतत्त्वं कथं वाऽशृणोदिति विस्मयो विदुषाम् । इयमस्ति कविराजमार्गे ध्वनिमधिकृत्य श्रीविजयोक्तिः ध्वनियेंबुदळंकारं ध्वनियिसुगुं शब्ददिंदमर्थदे दूष्यं नेनेवुदिदनितु कमलदो ळनिमिषयुगमोव्यितोऍदितिदु चोद्यं । संस्कृत छाया ध्वनिरिति यत् तदलङ्कारो ध्वन्यते शब्देनाऽर्थेन दूष्यम् । स्मरत्विदमित्थं कमले ऽनिमिषयुगं चारु शोभते इतीदं चोद्यम् ॥ अत्र पद्ये श्रीविजयो ध्वनिनाम्ना कञ्चनाऽपूर्वं स्वोपज्ञमर्थालङ्कारं निरूपयतीत्याधुनिक-कन्नडकाव्यमीमांसकानामभिमानः । ध्वनि म नाऽपूर्वं किमपि काव्यतत्त्वमपि57 तूक्तेष्वेवाऽतिशयोक्त्यादिष्वालङ्कारेष्वन्तर्भवति, इति श्रीविजयस्याऽऽशय इति मदीय आशयलेशः । इति ओम् । हरे: पदाहतिः श्लाघ्या न श्लाघ्यं खररोहणम् । स्पर्धाऽपि विदुषा युक्ता न युक्ता मूर्खमित्रता ॥ १२४ Page #136 -------------------------------------------------------------------------- ________________ हास्यमेव जयते सरल-निर्दोष-हास्यस्रोतः ग्रन्थसमीक्षा अनिलः र. द्विवेदी अध्यापकः, संस्कृतविभागः, भवन्स श्री ए.के.दोशी महिला कोलेज, जामनगरम कीर्तित्रयी-सङ्कलितां 'हास्यमेव जयते' इतीमां पुस्तिकां पठन् विशुद्धहास्यमनुभूतवान् । नन्दनवनकल्पतरुप्रकाशनमिदम् । परमप्रभाववद्भिः श्रीशीलचन्द्रसूरिभिरस्याः सुन्दरा प्रस्तावना लिखिता । अस्यां पुस्तिकायां हास्यसमृद्धाः हास्यकणिकाः वर्तन्ते। __मानवजीवनं ब्रह्मसृष्टिस्थितानां षड्रसैः पूर्णं तु वर्तते, किन्तु एषा पूर्णता प्रायः र 4 शरीरोपयोगिनी भवति । मनसः कृते तु कविसृष्टिस्थिताः नवरसाः रुचिकराः । यद्यपि सत्यमिदं- 'तृषातुरैः काव्यरसो न पीयते' इति । परन्तु तृप्तानां कृते तु काव्यशास्त्रविनोदेन र कालयापनमेव अभिलषणीयम् । अनया दृष्ट्या नवरसाः आवश्यकाः । एषु हास्यस्य र महत्त्वमपि अनन्यमेव । सम्प्रति हास्यचिकित्सापद्धतिः (Laughing therapy) प्रसिद्धा, * प्रचलिता, स्वीकृता च । स्वस्थस्य स्वास्थ्यरक्षणमिति आयुर्वेदस्य अन्यतमं प्रयोजनम् । - एतत्प्रयोजनसिद्ध्यर्थं हास्यमपि योजितव्यं मनुष्यजीवनेन इति निर्विवादं सत्यम् । संस्कृतसाहित्ये नवरसेषु हास्यस्य समावेशो भवति । गीर्वाणवाणी हास्यरसयुक्ता अस्ति । तथापि सा शृङ्गारबहुला । यद्यपि शृङ्गारस्य हास्यस्य च सम्बन्धः निकटतमः । अतः अनेकस्थलेषु शृङ्गारेण सह हास्यरसः दृश्यते । परन्तु हास्यरसोऽयं परम्परागतो भवति । तथाऽपि न एषः निन्द्यः, तद्युगवन्द्यः एव । काव्येषु सुभाषितेषु च । र हास्यरसोऽवलोक्यते, किन्तु अधिकतरः ध्यानाकर्षक: हास्यरसः नाटकेषु दृश्यते । परन्तु र - नाटकस्थोऽपि हास्यरस: बहुलतया विदूषकद्वारा अभिव्यक्ति प्राप्नोति । अतः तत्रापि AM AS VIE ENTEra १२५ Page #137 -------------------------------------------------------------------------- ________________ परम्परा अनुभूयते । ईदृश्यां स्थित्यां साम्प्रतकाले नवीनमार्गेण, अन्यप्रकारेण हास्यनिरूपणं का प्रस्तुतम् आवश्यकं च भवति । अस्या: आवश्यकतायाः परिपूर्ति करोति 'हास्यमेव जयते' - FE इत्येषा पुस्तिका । अत्र कीर्तित्रयी (मुनिरत्नकीर्तिः, मुनिधर्मकीर्तिः, मुनिकल्याणकीर्तिश्च) हास्यकणिकानां सङ्कलनं कृतवती । अस्याः पुस्तिकायाः बहूनि वैशिष्ट्यानि सन्ति । यथा। (१) सचित्राः हास्यकणिकाः अत्र मुद्रिताः सन्ति । एतानि चित्राणि क्वचित् स्पष्टीकरणं कर कुर्वन्ति, क्वचिच्च पुष्टिम् अपि कुर्वते । यथा-आङ्ग्लविद्यालयस्य माहात्म्यम् ! (पृ. ९७) । चित्राङ्कनार्थं श्रीनैनेशः सरैयाः प्रशंसामर्हति । (२) भाषा सरला वर्तते । अतः शीघ्रमेव रहस्यं ज्ञातुं शक्यते । सारल्येन सह सहजभाषा प्रयोगोऽप्यत्र दृश्यते । यथाउपाहारगृहस्वामी - गूर्जरराज्ये तु सुरापानं निषिद्धमस्ति । अतो न वयं तुभ्यं सुरां दातुं शक्नुमः । तदर्थं च क्षन्तव्या वयम् । ग्राहकः - किन्तु, अत्र कपाटे तु सुरा विद्यते एव ? उपाहारगृहस्वामी - एषा तु तेषां कृते एव, ये सर्पवृश्चिकादिभिर्दष्टाः स्युः । ग्राहकः - एवं ? तर्हि सर्पा वृश्चिकाश्च कुत्र वर्तन्ते, तत् कथयतु । (३) सक्षेपः हास्यकणिकायाः कृते आवश्यकः । सः अत्र अतीव योग्यतया आगतः । सक्षेपेण यत्र हास्यं स्फुटीभवति, तत्र तत् नितरां प्रभावकम् भवति । यथा - अस्मिन् विस्तारे किं कोऽपि महान् पुरुषो जातः ? - न । अत्र तु सर्वे बालका एव जायन्ते !! कविः - इतः पूर्वं भवतैव मम केशकर्तनं कृतं खलु ? नापितः - न । अहं त्वत्र वर्षद्वयपूर्वमेवाऽऽगतोऽस्मि । पा (४) विविधाः हास्यप्रयुक्तयः अत्र विद्यन्ते । विभिन्नक्षेत्रेभ्यः हास्यमागतम् । इह नापितः, १२६ Page #138 -------------------------------------------------------------------------- ________________ वैद्यः, पतिः, पत्नी, आपणिकः, शिक्षकः, दैवज्ञः, वैज्ञानिकः, कथाकारः - पात्राणि सन्ति । अत: वैविध्यमनुभूयते । (५) पात्रनामानि अपि विवेकबुद्ध्या निश्चितानि । यथा- आशुगः मन्दगः, स्वज्ञः - सुज्ञः । (६) क्वचित् शब्दस्य अर्थग्रहणार्थम् आङ्गलभाषानुवादः कृतः । अनुवादोऽयं नितरामुपयोगी । सः शब्दस्य अर्थं प्रकटीकरोति । यथा - प्रतीक्षक : ( waiter), मुख्याधिकारी (manager), घण्टिका (Horn) इत्यादिशब्दाः । इत्यादिभिरनेकवैशिष्ट्यैः इयं पुस्तिका नूतना इव प्रतिभाति । वाराणसीतः प्रकाशिते 'गाण्डीवम्' इति नाम संस्कृतपत्रे 'छिद्रान्वेषी' कविः एकेन द्वाभ्यां वा श्लोकेन श्लोकाभ्यां वा हास्यं परिवेषितवान् । हास्यनिरूपणमिदं पद्यात्मकम् । एतच्छ्लोकानां सङ्कलनमपि सञ्जातम् । अनेन सह स्थापयितुं योग्योऽयं गद्यात्मकः हास्यकणिकासङ्ग्रहः “हास्यमेव जयते" नाम । अस्य सङ्कलनं कृतम् एतदर्थं कीर्तित्रयी धन्यवादानर्हति । प्रकाशकोऽपि साधुवादार्हः । जयतु संस्कृतम् । विजयतां हास्यम् । भिक्षुकः (रेल्स्थानके) श्रेष्ठिन् ! एकं रूप्यकं ददातु । भगवान् भवते स्वर्गे स्थानं दास्यति । श्रेष्ठी इत्यादीनि अरे ! अलं स्वर्गेण, केवलं रेल्यानेऽपि उपवेष्टुं स्थानं प्राप्येत तदाऽपि वरम् !! १२७ Page #139 -------------------------------------------------------------------------- ________________ कथा उपायनम् मुनिरत्नकीर्तिविजयः कुशलेनैकेन शिल्पिना हस्तिनो दन्तशूलात् सुन्दरं कलायुतमेकं व्यजनं निर्मितम् । उत्तममिदं वस्तु-इतिकृत्वा राजास्थानं गत्वा राज्ञे तेन तदुपायनीकृतम् । राजाऽपि तद दृष्ट्वा प्रसन्नोऽभूत् । क्षणं च स तत् सर्वतो निरीक्षितवान् । पश्चात्-- __'गृहाणेदम्' - तद् वीजनं राजविदूषकाय ददन् राजा प्रोक्तवान्- 'सावधानतयेदं त्वया रक्षणीयम्'- इति । शिरोऽवनमय्य विदूषकः सविनयं तद् गृहीतवान् । किञ्च' पुनश्चराजाऽवोचत् - 'त्वत्तोऽप्यधिको मूर्यो यः कोऽपि भवेत् तस्मै एतदुपायनीकर्तव्यं त्वया' इति । राज्ञ एतादृशं सोपहासं वचनं श्रुत्वा सराजविदूषकाः सर्वोऽपि सभासदो हसितवन्तः । शनैः शनैः समयो व्यतीतः । एष घटनाऽपि विस्मृतप्राया जाता । एकदा राजा रुग्णोऽभवत् । शनैः शनैश्च व्याधिर्वृद्धिं गतः । ततश्च राजसभायां तस्याऽऽगमनमपि स्थगितमभूत् । उत्थानेऽप्यशक्तः स सर्वथा शय्यावशो जातः । बहवो जनास्तत्स्वास्थ्यं द्रष्टुं प्रष्टुं तमाश्वासयितुं चाऽऽगच्छन्ति । क्रमेण च विदूषकोऽप्येकस्मिन् दिने तत्स्वास्थ्यवार्ता प्रष्टुमागतवान् । राजाऽत्यन्तं पीडित आसीत् । राज्ञः पार्वे स क्षणं मौनेनोपविष्टः । पश्चात्'राजन् ! कथमस्ति भवान् ? स्वस्थः खलु ?' - इति मन्दस्वरैः स पृष्टवान् । 'हा !' निःश्वस्य दीनवदनो राजाऽवदत् - 'पश्य, सर्वथाऽसहायो जातोऽस्मि । अथ दीर्घयात्रार्थं सज्जा करणीयेति प्रतीयते ।' 'दीर्घयात्रा ?' इति प्रश्नेन सह विदूषकस्याऽऽस्ये हास्यमागतम् । तदवरुध्य . ॐ सोऽपृच्छत् 'स्वामिन् ! शय्यात उत्थानेऽपि भवानसमर्थोऽस्ति । कथं नाम दीर्घयात्रां र करिष्यति ?' इति । C) १२८ Page #140 -------------------------------------------------------------------------- ________________ - ___ 'अरे मूर्ख !' सकोपं राजाऽवदत् - 'त्वमेतावदपि न जानासि ? दीर्घयात्राशब्देना जो तु परलोकयात्रा- इति मे आशयः । ज्ञातं खलु ? तत्र तु सर्वैरपि गन्तव्यमेव खलु ? अस्त्यत्र कोऽप्यपवादः ?' विदूषको गम्भीरां मुखमुद्रां कृत्वा प्रोवाच-'सत्यं राजन् ! सत्यं भवतश्चिन्तनम् । परमस्मिन्नवसरे भवान् तु सर्वरीत्या सज्ज एव खलु ?' विदूषकस्य प्रश्नं श्रुत्वा राज्ञोऽक्षिणी बाष्पार्दे जाते । व्यथितः स उवाच - 'एष, एव खेदो मम । कदाचित् सर्वैरपि लोकमेनं त्यक्त्वाऽन्यत्र गन्तव्यमेव भवति - इति जानताऽपि मया तादृशं किमपि नाऽऽचरितं येन तृप्ति सार्थकतां वाऽनुभवेयम् । हा ! एवमेव गतं वयः ।' खिन्नं राजानं विदूषकोऽसान्त्वयत् प्रणनाम च । शनैश्च हस्तिदन्तशूलेन निर्मितं तव्यजनं तत्रैव शय्यायां राज्ञः समीपे मुक्त्वा निःशब्दमेव ततो निःसृतः । ('नवनीतसमर्पण'सामयिकत: अनूदिता । मू.ले.राजु दवे ॥) यस्य नाऽस्ति विवेकस्त केवलं भो ! बहुश्रुतः । न स जानाति शास्त्रार्थान् दीं पाकरसानिव ।। Garle १२९ Page #141 -------------------------------------------------------------------------- ________________ Haap कथा | (दुःखव्यसनम् ) मुनिकल्याणकीर्तिविजयः र ग्रीस्-देशेषु सोलननामा महान् तत्त्वज्ञो निवसति स्म । स्वीयज्ञानमनुभवं चोपयुज्य र स जनेभ्यो जीवनतत्त्वं समाधिमुपशमादींश्च बोधयति स्म । र अन्यदा तत्पार्वे एको दुःखी जनः समागतः । वारं वारं सम्प्राप्तै १ःखाघातैक रत्यन्तमुद्विग्नः शोकाकुलश्च स जीवनेऽपि निराशो निरुत्साहश्च सञ्जातो लक्ष्यते स्म । र, र तस्यौदास्यं खेदं चाऽपनेतुं सोलनो बहु प्रयतितवान्, किन्तु दुःखसागरे गाढं निमग्नं तमुन्मज्जयितुं साफल्यं नैव प्रापत् । अतः स तमेकस्य पर्वतस्य शिखरोपरि नीतवान् । तस्मात् शिखरात् ग्रामस्थितानां - सर्वोषामपि गृहाणां छदिषो दृश्यन्ते स्म । ताः सन्दर्य सोलनस्तमकथयत्- ‘पश्य, इतो यावन्ति गृहाणि दृश्यन्ते तानि सर्वाण्यपि दुःखभरेण संपूरितानि सन्ति; एतेषु रोगा विलसन्ति, । दारिद्यं नरीनृत्यते, मृत्युविजृम्भते, दौर्भाग्यं दैन्यं च रासकान् गृह्णतः । यद्येतेषां सर्वेषां र शोकोद्वेगखेदादय एकत्रा क्रियन्ते तदा तु दुःखदवाग्निरेव प्रज्वलितो भवेत् । एतेषां दुःखानां ये तुलायां तव दुःखं त्वग्निकणादपि नाऽतिरिच्येत । यदि त्वं परमाणुकल्पेन नैजदुःखेन पर रोदिषि तदा सर्वेषामप्येतेषां दुःखेनाऽपि किमिति न शोचसि ? तेषां दुःखात् तव दुःखं । र भिन्नं तु नास्त्येव । तथा यदि तेषां दुःखानां शोचनं तव व्यर्थं प्रतिभाति तदा स्वदुःखोद्वेगोऽपि । ते निरर्थक एव ।' एतच्छ्रुत्वा व्यसनव्यसनिनस्तस्य चित्ते बोधः प्रस्फुटितः । औदास्यं संत्यज्य सर प्रफुल्लितः प्रत्यग्रश्च सञ्जातः ।। प्रसङ्गोऽयं बोधयति यद् निजदुःखकणं पर्वतयित्वा शोकव्यसनित्वं भजद्भिरस्माभिरिदं हर [ चित्ते ध्यातव्यं यद् दुःखं तु सूक्ष्मधूलिरजःसदृशमस्ति । यथा रजः सर्वेषां पादयोः - श्लिष्यत्येव, ततः कोऽप्यस्पृष्टः स्थातुमसमर्थ एव । एतद्-दुःखविषयेऽपि समानम् ।। (मुनिश्रीभुवनचन्द्रजीकृत-गूर्जरभाषामयदृष्टान्तदर्पणात् संकलितम् ।) *arde Kaha १३० Page #142 -------------------------------------------------------------------------- ________________ C.L.CCCC कथा 'बाधति' बाधते श्रीअरविन्दभाई कापडिया बी-१२, पंचतीर्थ एपार्टमेन्ट, पांच रस्ता, पालडी, अहमदाबाद-३८०००७ , कुमुदचन्द्रनामैको महाविद्वान् ब्राह्मणपण्डित आसीत् । 'यः कोऽपि मां धर्मचर्चायां पराजयेत्तस्याऽहं शिष्यो भविष्यामी'ति तस्य दृढप्रतिज्ञाऽऽसीत् । एकदा जैनाचार्यश्रीवृद्धवादिसूरिणा सह तस्य वादः सञ्जातः । स वादे जैनाचार्येण पराजितः । तस्मात् स वृद्धवादिसूरिणः शिष्यत्वमङ्गीकृतवान् तस्य च नाम सिद्धसेन इति स्थापितम् । ततोऽल्पेनैव कालेन स जैनागमपारङ्गतोऽभवत् । प्राकृतभाषायां रचितान्यागमसूत्राणि संस्कृतभाषामयानि कर्तुं तस्य मनोरथो जातः । "नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" इति तेन शुभारम्भः कृतः । गुरुणा यदा तज्ज्ञातं तदैवं न कर्तुं स आदिष्टः । तथाकरणं जिनानामवज्ञास्वरूपोऽपराधोऽस्ति । एतस्य चाऽपराधस्य प्रायश्चित्तार्थं स द्वादशवर्षपर्यन्तमज्ञातवासे स्थित्वा कमपि राजानं प्रतिबोधयितुं गुरुणाऽऽदिष्टः । गुरोराज्ञां स्वीकृत्य स प्रस्थितः । कालान्तरेण उज्जयिनीं प्राप्य विक्रमादित्यनामराजानं प्रबोधितवान् । तेन च तुष्टो राजा तं राजगुरुपदवी प्रदाय शिबिकादी: सर्वा अपि सामग्रीः प्रदत्तवान् । अथ सोऽपि राजमन्दिरं गन्तुं नृपतिना प्रेषितां शिबिकामारुह्य नित्यं राजसभां गच्छति स्म । गुरुणा यदा सिद्धसेनस्यैष शिथिलाचारो ज्ञातः तदा सोऽतीव दुःखितो जातः । तं " प्रमादान्निवारयितुं वेशान्तरं कृत्वा शिबिकावाहको भूत्वाऽन्यैः शिबिकावाहकैः सह शिबिकां वोढुं प्रावर्तत । मार्गे यदा स सुष्ठ न चलति स्म तदा सिद्धसेनः तं प्रत्यवदत् - "भो ! CCCCCC CCCCC Page #143 -------------------------------------------------------------------------- ________________ 3233 .......... 3 वृद्ध ! किं तव स्कन्धो बाधति, येन सुष्ठ न चलसि ?" तत्कालमेव वृद्धेन कथितं, "तथा । न बाधते मे स्कन्धो यथा तव 'बाधति' बाधते ।" एतेन चातुर्ययुक्तेनोत्तरेण सिद्धसेन आश्चर्यचकितोऽभवत् । क एष पण्डितो यो मम भाषादोषं दर्शयति ?। स सहसा शिबिकाया अवतीर्य स्वगुरुमुपलक्ष्य विनयेनाऽश्रुभिर्गुरोः पादप्रक्षालनं कृतवान् । दोषं क्षमयितुं वारं वारं प्रार्थयामास सः । गुरुणा प्रतिबोधितः स. पुनः स्वाचारे स्थिरोऽभवत् । शासनसमुन्नतेश्च कार्याणि कृतवान् । अहो ! गुरोः करुणा शिष्यस्य विनयश्च । के زززرز न्यायाधीशःश्रूयन्ताऽऽऽऽम्...श्रूयन्ताऽऽऽम् !! अतः परं यः कश्चित् कोलाहलं करिष्यति तं न्यायालयाद् बहि निष्कासयिष्यामि । अपराधी हिप् हिप् हुर् र् रे !! CCCCCC ALLLL yyyyyy १३२ Page #144 -------------------------------------------------------------------------- ________________ रङमञ्चः ULNN - सहसा विदधीत न क्रियाम्।। HORA रचयिता आचार्य डॉ. रामकिशोर मिश्रः २-६५/१४, पट्टीरामपुरम्, खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेशः चक्रवर्ती कवी राजा भारविस्तत्र राजते । राजेवाऽवति यो लोकान् कवीनाममरं यशः ।। (नान्द्यन्ते) सूत्रधारः - अयि मम प्रियनाटककलादर्शकाः ! अद्याऽहं भवतां मनांसि नानानाटकरचयित्रा विद्यावाचस्पतिना श्रीमदाचार्यरामकिशोरमिश्रेण प्रणीतमेकावं 'सहसा विदधीत न क्रियाम्' नाम नाटकमभिनीयाऽनुरञ्जयामि । पश्यत, पश्यत, पट उत्सृतवान् । मञ्चमागतोऽयं पित्रा सह भारविः । (निष्क्रान्तः) 5 . १३३ १३३ Page #145 -------------------------------------------------------------------------- ________________ भारविः क्षम्यतामयं स्वपुत्रः पितः ! पिता किं भूतं पुत्र ! त्वया किं दुराचरितम् ? यस्य क्षमायाचना क्रियते ? भारविः किं कथयानि पितः । दुष्टोऽहमस्मि यः स्वपितुर्वधं कर्तुं निश्चितवान् । पिता अहं तव प्रशंसां न करोमि, तस्मात्त्वमसन्तुष्टोऽभूः । कथय, किमिदमेव सत्यं पुत्र ! भारविः आं पितः ! सत्यं भवदीयं वचः । दण्डनीयोऽयम् । पिता प्रथमदृश्यम् पिता भारविः भारविः मूर्खोऽहमस्मि पितस्तव पुत्रः अतः क्षम्यतामयम् । पिता पुत्र ! कथय, मत्तस्त्वया कदा किमप्रियं श्रुतम् ? भारविः पितर्नैकवारम् अपि त्वनेकवारं भवता मम माता कथिता यत्तव पुत्रः शास्त्रार्थे निपुणो नास्ति, परं शास्त्रार्थे मत्तोऽनेके विद्वांसः पराजिताः सन्ति पित: ! पुनस्तव विचारः कथं परिवर्तित: ? यदद्य मे वधं न कृत्वा क्षमां प्रार्थयसि । ह्यः पितस्त्वं मे मातरमकथयो यत् 'ते पुत्रमहं महापण्डितं द्रष्टुमीहे । प्रिये ! अतस्तत्समक्षमहं त्वां तत्प्रशंसावचनं न वदामि । येन स महाविद्वान् भवितुं प्रेरितो भवेत् । अतो मया तव हत्याया विचारस्त्यक्तः । पिता कथय, केन शस्त्रेण मे वधं कर्तुं त्वया निश्चयः कृतः ? भारविः कुठारेण पित: ! पिता स कुठारः क्व ? भारविः तस्मिन् कोणे स्थापितः सः । पिता भारविः भारवे ! मया त्वदीयं नाम भारविः कृतं यस्याऽर्थो भवति - भा= प्रकाशस्तस्या रवि: = सूर्य इति भारविः । अर्थात्स्वकार्यप्रकाशे यो रवितुल्यः, स भारविः । परमत्र त्वया स्वनामार्थो व्यर्थः कृतः । तमत्राऽऽनय पुत्र ! ( गत्वा प्रविश्य च ) अयमस्ति पितः ! १३४ Page #146 -------------------------------------------------------------------------- ________________ इमस्मिन् कोणे स्थापय । पिता भारविः अत्र स्थापितोऽयम् । का पुनराज्ञा पित: ? पिता गच्छ पुत्र ! सपत्नीकस्त्वं स्वश्वशुरालयम् । तत्रैव षण्मासान् वस प्रायश्चित्ताय । भारविः अस्तु पित: ! गच्छामि तत्र स्वपत्न्या सह । क्षम्यतामयं पुत्रः स्वामिन् ! स भवद्वधात्पूर्वमेव स्वकीयमपराधं स्वीकृतवान् । प्रिये ! अयं तव पुत्रो ममाऽप्यस्ति । परमयं स्वदूषितविचारेण दण्डनीय एवाऽस्ति । श्वशुरालयं गत्वा यदानीमयं निवत्स्यति, तदानीं तत्र विविधमानापमानानुभवेनाऽस्याऽन्तरात्मा दोषमुक्तो भविष्यति । माता पिता कियत्कालपर्यन्तमस्य प्रवास: प्राणनाथ !? चिन्तां मा कार्षीः प्रिये ! षण्मासानन्तरमयं पुनः स्वगृहमायास्यति । तदाऽयं कविर्महापण्डितश्च भविष्यति । (पुत्रं प्रति) गच्छ पुत्र ! पत्न्या सह श्वशुरालयम् । तत्रैव षण्मासपर्यन्तं वस । अयमेव ते पितृवधविचारदण्डः । भारविः गच्छामि पितः ! पत्न्या सह तत्र प्रायश्चितं कर्तुम् । (गच्छति । (पटीक्षेप: ) माता पिता द्वितीयदृश्यम् (ततः प्रविशति क्रेता विक्रेता च।) क्रेता देवदत्तः अस्ति किमिदं भद्र ! विक्रेता भारविः पुस्तकमिदम् । देवदत्तः किमेकपत्रीयं पुस्तकम् ? भारविः एकश्लोकीयं पुस्तकं श्रीमन् ! देवदत्तः दर्शय तं श्लोकम्, यमुद्दिश्य पुस्तकं ग्रथितम् । भारविः क्रयेण विना भवांस्तं द्रष्टुं नाऽर्हति । देवदत्तः तद् भद्र ! किं मूल्यमस्य ? १३५ Page #147 -------------------------------------------------------------------------- ________________ A भारविः रूप्यकाणां सहस्रमेकम् । देवदत्तः अस्मात्किञ्चिदल्पं भवितुं शक्नोति किम् ? भारविः नैव श्रीमन् ! KA देवदत्तः तद् गृहाण सहस्रमेव । भारविः प्रदेहि श्रीमन् ! देवदत्तः गणय, सहस्रमेतत् । पुस्तकं देहि । K भारविः गृहाण पुस्तकं श्रीमन् ! (विक्रेता तत्पुस्तकं क्रेत्रे प्रदाय हट्टादगच्छत् । क्रेता तं ग्रथितं श्लोकं पठित्वा पुस्तकं ह स्वशयनकक्षे नागदन्ते लम्बितवान् ।) (ततः प्रविशतो भारविस्तस्य पत्नी च ।) भारविः प्रिये ! गृहाण सहस्रं रूप्यकाणि तस्य श्लोकस्य मूल्यम् । पत्नी अनेन रूप्यकसहस्रेण कतिपयदिनानां भोजनादिव्ययो भविता । प्रियतम ! भवान् श्लोकविरचनं सततमेव कुर्यात्, येनाऽऽवयोर्धनलाभोऽपि भवेत् । का भारविः सम्प्रत्यहं काव्यन्तु करोम्येव, यस्याऽयमेकः श्लोको भवत्या विक्रयाय प्रेषितः र सुभगे ! A पत्नी किं काव्यं करोषि प्रियवर ! अहमपि शृणुयां भवदीयकाव्यस्य किं नाम ? र भारविः मम काव्यं, यदहमिदानी लिखन्नस्मि, तत्किरातार्जुनीयं भविता प्रियतमे ! पत्नी भाग्यस्य विडम्बना कीदृशीयम्, यया प्रेरितेन पित्रा कविरपि स्वपुत्रो गृहा- त निष्कासितः । भारविः प्रिये ! षण्मासार्थमेव निष्कासितोऽस्मि । तावत्कालाय रूप्यकाणां सहस्रमेकं भोजनादिव्ययाय पर्याप्तमस्ति सुभगे ! पत्नी यद्येतत्सहस्रमपर्याप्तमपि स्यात्तदपरं श्लोकं विक्रयाय प्रेषयिष्यामि प्रियतम ! भारविः काव्यं यशसे धनाय चाऽपि भवति भद्रे ! (इत्थं वार्तामालपन्तौ तौ दम्पती सुप्तौ ।) (पटीक्षेपः) Page #148 -------------------------------------------------------------------------- ________________ - भू तृतीयदृश्यम् । NAME दावा Oloparda LOVE and-OSIDES IVATE जल (ततः प्रविशति पुस्तकक्रेता व्यापारी देवदत्तः ।) देवदत्तः आर्ये ! कुरु द्वारमनावृतकपाटम् । 1 श्रीमती कस्त्वम् ? - देवदत्तः अहमागतोऽस्मि प्रवासादायें ! देवदत्तोऽस्मि । निद्रां त्यक्त्वा द्वारमुद्घाटय । (रात्रौ द्वारे शब्दमकरोत् ।) 1 श्रीमती आर्यपुत्र ! एषाऽहमायामि । (द्वारमुद्धाट्य पतिं च विलोक्य प्रसीदति ।) अथ भवान् सार्धपञ्चदशवर्षेभ्यः पश्चादागतवान् प्राणेश्वर ! देवदत्तः आमेवं प्रिये ! व्यापारकर्मणि बहुकालो गतः । इदानीमहं निद्रया वशीभूतोऽस्मि। आगच्छ मया सह शयनकक्षम् । (यदानीं शयनकक्षं प्रविशति, तदानीं तत्र पर्यङ्के शयानमेकं युवानं पश्यति । तं युवानं पत्न्या जारं मत्वा क्रुद्धः कृपाणमाकृष्य यदा हन्तुमुद्यतस्तदा समक्षमेव भित्तौ नागदन्तेऽवलम्बितमेकपत्रलिखितं श्लोकं पठित्वा, तद्वधविचारं च विहाय पत्नी पृच्छति ।) प्रिये ! अयं कः ? यः पर्यङ्के ATE शेते । नीनाNAM Pos श्रीमती अयमस्ति भवदीयः पुत्र आर्यपुत्र ! देवदत्तः मदीयः पुत्रः ? । का श्रीमती आम्, आर्यपुत्र ! अयं भवदीयः पुत्रोऽस्ति । किं भवता विस्मृतम् ? यदा भवान् व्यापाराय प्रातिष्ठत, तदाऽयमासीन्मम गर्थे । साम्प्रतमयं षोडशवर्षीयोऽभवत् । भवान् सार्धपञ्चादशवर्षानन्तरमधुना गृहमायातः प्रियतम ! तत्र गत्वा तु मां भाविनं स्वपुत्रं गृहं च सर्वं कथं विस्मृतवान् ? (रोदिति ।) देवदत्तः यदि त्वामहं तत्र व्यस्मरिष्यं तदत्र कथमागमिष्यं प्रिये ? श्रीमती किं तत्र विदेशेऽपि काऽपि नारी पत्नी कृता भवता? येनैतावान् विलम्बो जातः । प्रियवर ! देवदत्तः न काऽपि पत्नी कृता प्रिये ! भारतीयो जन एकस्यां पत्न्यां जीवितायां द्वितीयं । TATE opardaodlodbad -O ALMIU Doli १३७ Page #149 -------------------------------------------------------------------------- ________________ विवाहं न करोति भद्रे ! पुनस्त्वयैषा शङ्का कथं कृता प्रिये ? र श्रीमती तत्किं कस्याश्चिन्नार्याः प्रेमजाले पतित आसी: ? येनेयन्ति वर्षाणि व्यतीतानि । म मम स्मृत्या भवान् कदापि गृहं निवर्तितुं न प्रेरितः ? कथमेतत्प्रियतम ? ' व्यापारकर्मणि तु कोऽपि व्यापारी नैतावन्तं कालं गमयति । कथय प्रियवर ! देवदत्तः तादृशमपि नाऽभवत्सुभगे ! व्यापारे सततहानिवशादियन्ति वर्षाणि व्यतीतानि प्रियतमे श्रीमति ! श्रीमती अधुना कियांल्लाभोऽभवद् व्यापारे ? मह्यं कानि कानि वस्तूनि सहाऽऽनीतानि ? मी देवदत्तः तुभ्यं हारादिनानाविधानि सुवर्णभूषणानि शाट्यादि परिधानानि लक्षाणि च । रूप्यकाणि सहाऽऽनीतानि मया प्रिये ! श्रीमती पुत्राय किमानीतम् ? देवदत्तः पुत्राय वधूमानेष्यामि शुभ्रे ! श्रीमती भवत्करे करवालोऽयं नग्नः किमर्थमधुनाऽपि ? देवदत्तः मम पुत्रज्ञानं नाऽऽसीत् । अयं पर्यङ्के शयानः कोऽपि तव जार इति मत्वाऽस्य वधाय मया स्वहस्ते नग्नखड्गोऽयं गृहीतः । परं वधात्पूर्वमेवाऽयं श्लोको मे दृष्टिपथमायातः, येन तव सुपुत्ररक्षा कृता । अन्यथाऽद्य वंशनाशो निश्चित आसीत्सुभगे ! (खड्गं मेखलायां निक्षिप्य पृथक् स्थापयति ।) श्रीमती अनेन श्लोकेन तवाऽसिप्रयोगो निरोधितः । अतोऽस्य क्रयोऽद्य सफलोऽभवत् प्रियतम ! कविरस्य भारविः पुनरपि पुरस्कार्यः । देवदत्तः प्रिये ! श्वोऽहं ब्राह्मणान् भोजयिष्यामि । पुत्रजीवनाय देवानचिष्यामि । स र कविर्महानेव, यस्य श्लोकेन तव सुतस्य सुरक्षा कृता । प्रिये ! पठ श्लोकमेनम्सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धां स्वयमेव सम्पदः । (पटीक्षेपः । निष्क्रान्ताः सर्वे ।) इति रामकिशोरमिश्रकृतं 'सहसा विदधीत न क्रियाम्' इत्येकाक्षं समाप्तम् । FELMI १३८ Page #150 -------------------------------------------------------------------------- ________________ भर्भ - नर्भ कीर्तित्रयी रमणः - नर्भ अस्मिन् अपवरके विद्यमानः सर्वोऽपि उपस्करः (Furniture) "फेनकेन (Soap) ना सह निःशुल्कम्" इति योजनायां निःशुल्कतया प्राप्तोऽस्ति ।। प्राघूर्णकः अन्ये अपवरकाः किमर्थं पिहिता दृश्यन्ते? KOS रमणः तेषु फेनका भृताः सन्ति । I (मूर्खः पत्रं लिखति ।) मित्रम् भोः ! कमुद्दिश्य पत्रं लिखति - भवान् ? मूर्खः मामेव !! मित्रम् तत्र किं लिखितमस्ति ? मूर्खः कथं जानामि तत् ? अधुनाऽपि तन्मया नैव प्राप्तम् !! क ROS (देहान्तदण्डं प्राप्तोऽपराधी विद्युदासन्दे उपवेशित आसीत्।) Kा अधिकारी वद, का तवाऽन्तिमेच्छा ? KO अपराधी कृपया मम हस्तं गृह्यताम् । मम बहु भयं भवति । १३९ Page #151 -------------------------------------------------------------------------- ________________ (१) याबवाडी कथा मुनिकल्याणकीर्तिविजयः एगया कोई सिट्ठी तित्थजत्तं काउमणो निययं सव्वं पि धणाहरणाइयं एगाए मंजूसाए संगोविऊण, तं च मंजूसं विस्संभजुत्तं पडिवेसियं दाऊण पट्ठिओ । सुवण्णं दठूण मुणओ वि लुब्भंति ता एसो उ सामण्णो गिहत्थो आसी तहान दालिद्दपीडिओ वि । अओ लोहाविद्वेण तेण कज्जाकज्जविवेगं मोत्तूण तीए मंजूसाए एगो । सुवण्णहारो निक्कासिओ । अण्णया सो वि सेट्ठी तित्थजत्ताओ नियत्तो एयस्सगासाओ नियपेटियं घेत्तूण गिहं । गओ । पडिवेसियविस्सासेण तेणेसा मंजूसा उग्घाडिऊणं पि न दिट्ठा । एगया अन्नकज्जवसा तेण सा मंजूसा उग्घाडिया ताव तत्थ हारमदठूण सगिहे सव्वत्थ अन्नेसियं । तत्थ हारमपावेतो सो पज्जते पडिवेसियं पुच्छित्था । सो उ एयं निसुणंतो चेव कोववसफुरंतओट्ठउडो आलप्पालं जंपिउमारद्धो । अओ सेट्ठिस्स चित्तं संकाउलं जायं जं 'अणेण चेव ।। सो हारो चोरिओ' त्ति । तो सो 'हारं देहि' त्ति कहेइ । परमेसो उ कलह चेव करेंतोपन 'हारगोयरमहं किं पि न मुणेमि' त्ति च्चिय कहेइ । सेट्ठिणा गामवुड्डाण कहिअं । तेहिं बोहिओ वि सो न मन्नेइ । पज्जंते सेट्ठिणा रायगिहे अभिओगो कओ। किंतु तत्थ वि लेह-सक्खिमाईणमभावे निण्णओ न जाओ। एएण पडिवेसिआ अईव हिट्ठो किंतु सेट्ठिस्स चिंता वुढेि गया । तत्थ नयरे एगस्स जक्खस्स चेइयं पयडप्पभावं आसी । अओ सेट्ठिणा सो तस्समक्खं चेव सवहं गहेउं समाहूओ । धुत्तेण तेण उ जक्खं पि मोहेउं एगो उवाओ गवेसिओ । जलभरियं एगं घडं निच्चं पि नियहत्थे रक्खिऊणं वारं वारं सो तत्तो जलं PA पाउमारद्धो । सवहगहणदियहे वि एवं चेव जलं पियंतो सो तत्थ समागओ । पढमं तु १४० Page #152 -------------------------------------------------------------------------- ________________ हारसामिणा जक्खसम्मुहं सवियं जं- 'जइ पडिवेसिणा मज्झ हारो पडिदिन्नो तो मम मत्थयं सत्तखंडं होऊण फुटेज्ज ।' तस्स किं पि न जायं ।। तओ पडिवेसिणा वि सहत्थत्थं घडं सेट्ठिस्स हत्थंमि दाऊण सवियं जं - 'जक्खराय ! जइ मए वि सुवण्णहारो सेट्ठिस्स हत्थंमि चेव न दिनो ता मम मत्थयं न सत्तखंडं किं तु सयखंडं पि होऊण फुटेज्ज ।' तस्स वि किं पि न संजायं ।। एएण नयरजणा विम्हिआ, सेट्ठी दुम्मणो जाओ, धुत्तो पडिवेसी य अच्चंत । पहिलो। तेण सिट्ठिहत्थाओ घडो पडिगहिओ। किंतु जक्खप्पहावेण हरिसाइरेगेण वा घडो । तस्स हत्थाओ चुक्को अहे पडिऊण फुट्टो य । ताव तत्थ कवालखंडाण मज्झे झलज्झलंतो - हारो सव्वेहिं दिट्ठो । धुत्तस्स पडिवेसियस्स कवडं सव्वेहिं पि नायं । तओ रायपुरिसेहिं न * हारं सेट्ठिस्स दाऊण एसो गहिओ दंडिओ य । एत्थ अवणओ एसो जं पावघडो अवस्सं फुट्टइ चेव । असच्चं कवडं च सुबहुं । पि पिहियं पयडीहवइ । किंतु लोहाविट्ठो जणो एयं चिंतेउं न सक्केइ ।। अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मी तृणाय मन्यन्ते तद्रेण नमन्त्यपि ।। MIO १४१ Page #153 -------------------------------------------------------------------------- ________________ (२) लोहे लाही नातिय __ मुनिकल्याणकीर्तिविजयः एगया दुवे मित्ता किंचि कज्जं साहेउं अवरगामं पट्ठिआ । भोयणवेलाए ते तडागस्स पालीए ठियस्स रुक्खस्स हेट्ठा भोयणं काउं उवविट्ठा । एगस्स संबले पंच मी अवूवा अण्णस्स य पासे तिण्णि अवूवा आसी । हत्थाईणि खालेउं जाव ते खाइउं आरद्धा ताव तत्थ अण्णो वि पहिओ समागओ । परिस्संतं बुभुक्खियं च तं दठूण दोहिं पि सो भोयणत्थं निमंतिओ । सो वि एएसिं णिद्धभावं दठूण उवविट्ठो । तेहिं सव्वे अवूवा सम्मेलिया । तओ अट्ठअवूवेहिंतो पढमं सव्वेहिं पि दो दो भुत्ता । तत्तो अवसिट्ठाण दोण्ह वि अवूवाणं तिण्णि तिण्णि खंडाइं काऊण तीहिं पि पत्तेयं दोण्णि खंडाई भुत्ताई । तओ तित्ता सव्वे पि आयमणाई काऊण पट्ठिया । ताव तेण पहिएण ताण दोण्हं पि सोजन्नं दळूण हिद्वेण कहियं 'मज्झ अण्णायस्स वि तुम्हेहिं जा पडिवत्ती कया तीए पडियारं काउं अहं असमत्थो चेव, तह वि मज्झ समीवे अट्ठ दमगाइं संति । ताई तुब्भे गहिऊण मह कयण्णुयं दंसावेउं अवसरं कप्पेह ।' PAK एएहिं बहुं निवारिओ वि सो ताई तेसिं दाऊण चेव नियपहे पट्ठिओ ।। तओ 'एयाइं अट्ठ दमयाइं अम्हेहिं विभइयव्वाई' ति तेहिं निण्णीयं । ता जस्स पंच अवूवा आसी सो कहेइ- 'अहं पंच गिहामि तुमं तिण्णि गहेसु, जओ तुज्झ तिण्णि • अवूवा आसी।' बिईओ कहेइ 'मा एवं वएज्ज, अम्हे दुवे वि चत्तारि चत्तारि गहेमो ।' पढमो तं न मन्नेइ, बिईओ य तिण्णि गहेउं न सिद्धो । अओ दो वि नायकरणत्थं समीवगामे ठक्कुरपासे गया । तेण सव्वं सुणिऊण दुइयस्स कहियं - 'भो ! तं तिण्णि दमयाइं चेव गहेसु । एएण तुज्झ लाहो चेव भविस्सइ, अलाहो नत्थि ।' सो कहेइ- 'न न, अम्हेहिं सरिसा भागा चेव पावेयव्वा । तुम्हे नायं । PR करेज्ज ।' ठुक्कुरो कहेइ - 'जइ तं नायं चेव इच्छसि ता सुण, तुज्झ एगो चेव दमगो AVAN १४२ Page #154 -------------------------------------------------------------------------- ________________ | र अणेण दायव्वो, अवसिटुं धणं तस्स चेव लब्भिज्ज ।' एय सुणेउं कोवाविट्ठो सो कहेइ – 'कहं मज्झ एगो चेव दमगो ? तुम्ह नाओ न सुंदरो !!' ठक्कुरो कहेइ - 'भो ! सुण, तुज्झ तीहिंतो अवूवेहितो दुवे अवूवा तइयस्स य दो भागा तए चेव भक्खिया । अतिहिस्स उ तए एगोचेव अवूवखंडो दिण्णो । सिटुं A सव्वं तु तेण पंचअवूवसामिस्स भक्खियं आसी। अओ तुमं एगस्स चेव दमगस्स जोग्गो। A सेसं सव्वं धणं पढमस्स भविस्सइ ।' ___ एयं सुणेउं सो लज्जाए अहोमुहो जाओ। अहियस्स लोहेण तेण दुवे दमगा वि न पाविया । । (द्वयोरपि कथयोर्मूलं - गूर्जरभाषायां मुनिश्रीभुवनचन्द्रजीमहाराजकृतं दृष्टान्तदर्पणम् ।) सज्जनस्य हृदयं नवनीतं __ यद् वदन्ति कवयस्तदलीकम् । अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ।। १४३ Page #155 -------------------------------------------------------------------------- ________________ Page #156 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः माजविm etition नन्दनवनकल्पतरुः१ नन्दनवनकल्पतरुः३ नन्दनवनकल्पतरुः४ (eleone) कीर्तित्रयी तृतीया शाखा (उत्तरायमान) वि.स.२०५६ नन्दनवनकल्पतरूः 5 नन्दनवनकल्पतरुः६ नवनकल्पतरु: ताजन२६ मायाकयविकार नन्दनवनकल्पतरुः CN बन्दबावनकल्प.१० नन्दननिकाला कोराची जान्दावन कल्पतर:- 13 भब्दनवन कल्पतरू www.jainelibrary.or