SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ गच्छन्त्याश्रयन्ति देवास्तामिति 'घुगमिभ्यां डोः' ॥८६७॥ इति 'उणादिश्रीसि०'* सूत्रेण 'गम्लँ-गतौ' धातोः डिति ओप्रत्यये गौः-स्वर्गः स्त्री-पु०लिङ्गः । "स्वर्गस्त्रिविष्टपं SP द्योदिवौ भुविस्तविषताविषौ नाकः, गौस्त्रिदिवमूर्ध्वलोकः सुरालयः" इति हैम: । “फलोदयो मेरुपृष्ठं वासवावाससैरिकः । दिदिविः दीदिविः धुश्च दिवं च स्वर्गवाचकाः" इति हैमशेष:२। * स्वश्चाऽव्ययेषु । गच्छत्यस्मात्तम इति वा "गौः-किरणः पुंस्त्री०" । "रोचिरस्ररुचिशोचिरंशुगो को ज्योतिर्चिरुपधृत्यभीशवः, प्रग्रहः शुचि-मरीचि-दीप्तयो धाम-केतु-घृणि-रश्मिप्रश्नयः, पाद-दीधिति-कर-द्युति-द्युतो रुग्विरोक-किरण-त्विषः; भाः प्रभा-वसु-गभस्ति-भानवो भा-मयूख-महसी छविविभा" इति हैम: । गच्छतीति वा गौः-वाणी । “वाग् ब्राह्मी । भारती, गौर्गीर्वाणी भाषा सरस्वती; श्रुतदेवी" इति हैमः । गच्छन्त्यस्यामिति वा गौः * पृथ्वी, गोरूपधरत्वाद्वा गौः । “भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुन्धरा, धात्री धरित्री र धरणी विश्वा विश्वम्भरा धरा; क्षितिः क्षोणी क्षमाऽनन्ता ज्या कुर्वसुमती मही, गौर्गोत्रा भूतधात्री क्षमा गन्धमाताऽचलाऽवनिः; सर्वसहा रत्नगर्भा जगती मेदिनी रसा, काश्यपी पर्वताधारा स्थिरेला रत्न-बीज-सूः विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः" इति हैम:५। और "अथ पृथिवी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका गोत्रकीला घनश्रेणी मध्यलोका जगद्वहान * देहिनी केलिनी मौलिमहास्थाली अम्बरस्थली" इति हैमशेषः । गच्छतीति वा गौः- वृषभः । “अथ ऋषभो वृषभो वृषः; वाडवेयः सौरभेयो भद्रः शक्कर-शाक्वरौ, उक्षाऽनड्वान् । ककुद्मान् गौर्बलीवर्दश्च शाङ्करः" इति हैम: । गच्छतीति वा गौः-सुरभिः । “गौः सौरभेयी - माहेयी माहा सुरभिरर्जुनी, उस्राऽघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुाषा; तम्पा निलिम्पिका को तंवा" इति हैमः । * सा सुरभिर्वर्णैरनेकधा शबला धवला इत्यादिः । “सा तु वर्णैरनेकधा" इति । हैम: १। गर्भवती सा प्रष्ठौही-२ । "प्रष्ठौही गर्भिणी" इति हैम:१० । वन्ध्या सा वशा३। "वन्ध्या वशा" इति हैम:१९ । वृषोपगा सा वेहद् गर्भोपघातिनी-४ । “वेहद् वृषोपगा" १. अभि० चि० द्वि० ८७ । २. अभि० चि० हैमरोषे -३ । ३. अभि० चि० द्वि० ९९-१०० । ४. अभि० चि० द्वि० २४१ । ५. अभि० चि० च० ९३५-३६-३७-३८ । ६. अभि० चि० हैमशेषे १५७-५८ । ७. अभि० चि० च० १२५६-५७ ८. अभि० चि० च० १२६५-६६ । ९. अभि० चि० च० १२६६ । १०. अभि० चि० च० १२६६ । ११. अभि० चि० च० १२६६ । NOA SNAKSNA. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy