________________
"धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम्, द्रुणाऽऽसौ" इति हैम: । धनुरुकारान्तोऽपि
भवति, तत्राऽपि 'धन्-धान्ये' इति सौत्राद्धातोः 'भृ-मृ-तृ-त्सरि-तनि-धन्यनि-मनि-मस्जिका शी-वटि-कटि-पटि-गडि-चञ्च्यसि-वसि-त्रपि-श-स्व-स्निहि-क्लिदि-कन्दीन्दि-विन्द्य
न्धि-बन्ध्यणि-लोष्टि-कुन्थिभ्य उ:' ॥७१६।। इति 'उणादिश्रीसि०'सूत्रेण उप्रत्यये "धनुः । अस्त्रं, दानमानं च" । अत्र तूस्प्रत्ययान्तः । धनुर्धरतीति यौगिकत्वात् धनुर्धरः-धनुर्भृत् । । 'पा०'मते धन्धातोः उस्प्रत्यये धनुस् पुं० ।“प्रियालवृक्षे; धनुर्धरे त्रिलिङ्गः; चापे, मेषादितो पनि नवमे राशौ च नपुं०" । धरतीति धृधातोरच्प्रत्यये धरः । धनुषो धरः धनुर्धरः । संज्ञायां का धनुर्धारयतीति ‘धारेर्धर्च' (५।१।११३||) इति 'श्रीसि०' सूत्रेण खप्रत्यये धारेर्धरादेशे च । धनुर्धरः । 'पा०'मते च संज्ञायां धनुर्धारयतीति 'संज्ञायां भृ-तृ-वृ-जि-धारि-सहि-तपि दमः' [३।२।४६।।] इति सूत्रेण णिजन्तधृधातोः खचि 'खचि हुस्वः' [६।४।९४॥] इति सूत्रेण च हुस्वे धनुर्धरः धानुष्के (तीरंदाज-निशान ताकी तीर फेंकनार) । "तूणी धनुर्भूद अन्य
धानुष्क: स्यात्" इति हैम: । धनुर्धरः-कोदण्डधारी धनुष्मानिति यावत् । “धन्वी * धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः" इत्यमरः ।।
स दिलीपो राजा । पाट्यतीति ण्यन्तात् 'पट-गतौ' धातोः 'मृदि-कन्दि-कुण्डिमण्डि-मङ्गि-पटि-पाटि-शकि-केवृ-देव-कमि-यमि-शलि-कलि-पलि-गुध्वञ्चि-चञ्चि - - चपि-वहि-दहि-कुहि-तृ-सृ-पिशि-तुसि-कुस्यानि-द्रमेरलः' ॥४६५।। इति 'उणादि
श्रीसि०'सूत्रेणाऽलप्रत्यये पाटलः वर्णः "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" * [इत्यमरः] इति तद्वत्याम् आपि पाटला । पाटलो वृक्षविशेषोऽपि । “पाटलिः पाटला" या MA: इति हैम:५। 'ताम्रपुष्पत्वाद्वा' इति तद्वृत्तिः । 'पा०'मते तु पाटयतीति णिजन्तपटधातोः और
कलच्प्रत्यये पाटल: पुं० । "श्वेतरक्तवर्णे, तद्वति त्रिलिङ्गः, पारुल इति ख्याते वृक्षे स्त्री०; . तत्पुष्पे आशुधान्ये च नपुं०" आंसु(आशु)नाम्ना मिथिलायां प्रसिद्ध धान्यं भाद्रपदे मासिक
जातमशुद्धमिति कृत्वा देवपितृक्रियायां न व्यापार्यते । हेमन्तौ जातं तच्छुद्धं व्यवह्रियते । तुषसहितं तत् शालिसदृशम् । तस्यां पाटलायां-ईषद्रक्तवर्णायाम् । "श्वेतरक्तस्तु पाटलः"
' इत्यमरः ।
१. अभि० चि० तृ. ७७५ २. अभि० चि० तृ० ७७१ । ३. अम० द्वि० क्षत्रियवर्गे -६९ । ४. अम० प्र० धीवर्ग-१८ । ५. अभि० चि० च० ११४४ । ६. अम० प्र० धीवर्ग-१६ ।
८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org