________________
"मित्रा तारा बला दीप्रा स्थिरा क्रान्ता प्रभा परेति भेदादष्टधा" । तत्स्वरूपं च योगदृष्टिसमुच्चये द्वात्रिंशद्वात्रिंशिकायां च । "दृष्टिज्ञानेऽक्षिण दर्शने" इत्यनेकार्थसङ्ग्रहः * तां दृष्टिम् ।
अश्नुतेऽनयेति 'अशो रश्चादिः' ॥६८८॥ इति 'उणादिश्रीसि० सूत्रेण 'अशौटि* व्याप्तौ' धातोः मिप्रत्यये धातोरादौ रेफागमे च रश्मिः प्रग्रहः मयूखश्च । “रश्मौ वल्गाऽवक्षेपणी
कुशा" इति हैम:२ । अश्नुते द्यामिति वा रश्मिः-किरणः । "रोचिरुस्ररुचिशोचिरंशुगो और ॐ ज्योतिरर्चिरुपधृत्यभीशवः, प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः, पाद
दीधितिकर-द्युति-द्युतो रुग्विरोक-किरण-त्विषि-त्विषः, भा-प्रभा-वसु-गभस्ति-भानवो भा-मयूख-महसी छविविभा" इति हैम: । "रश्मिघृणिप्रग्रहयोः" इत्यनेकार्थसङ्ग्रहः । 'पा०'मते अश्धातोः मिप्रत्यये धातोरशादेशे च, यद्वा 'रश्-स्वप्ने' धातोः मिप्रत्यये । का "रश्मिः पुं० किरणे, अश्वादिदामनि च; पद्मे नपुं० ।" "किरणप्रग्रहौ रश्मी" इत्यमरः । और र अत्र प्रग्रहार्थः । तेषु रश्मिषु । आदायेव गृहीत्वेव । निवर्तयामास-पर्वतावलोकनात् । परावर्तयामास ॥
__वाच्यपरिवर्तनं त्वेवम्-गुहानिबद्धप्रतिशब्ददीर्घेण तदीयेनाऽऽक्रन्दितेन आर्तसाधो
नृपस्य नगेन्द्रसक्ता दृष्टिः रश्मिष्वादायेव निवर्तयामास निवर्तयाञ्चक्रे । म यथा सारथिः धावन्तमश्वं रश्मिभिराकृष्य निवर्तयति, तथैव सिंहाक्रमणेन | गुहानिबद्धप्रतिशब्दत्वेनाऽतिदीर्घस्तस्याः क्रन्दनशब्दो राज्ञो दिलीपस्य पर्वतसक्तां दृष्टिं ततः | परावर्तयामास, इति सरलार्थः ॥२८॥
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥२९॥
[स इति ।] धन्यतेऽर्यते धमति शब्दायते ज्याघातेन वेति 'रुद्यतिजनि-तनिकि धनि-मनि-ग्रन्थि-पृ-तपि-त्रपि-वपि-यजि-प्रादि-वेपिभ्य उस्' ॥९९७॥ इति 'उणादि
श्रीसि० सूत्रेण 'धन्-धान्ये' इति सौत्राद्धातोः धम्धातोर्वा उस्प्रत्यये धनु:-चापम् । १. अनेकार्थसङ्ग्रहे-द्वि० ९० ।।
२. अभि० चि० च० १२५२ । ३. अभि० चि० द्वि० ९९-१०० ।
५. अनेकार्थसङ्ग्रहे-द्वि० ३२६ । * ५. अम० तृ० नानार्थवर्गे -१४५ ।
ART
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org