SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Pav - कुष्ठ-वालकनन्दनाः, कैराटको हैमवतो मर्कट: करवीरकः, सर्षपो मूलको गौराद्रकः । स, सक्तुक-कर्दमौ, अकोल्लसारः कालिङ्गः, शृङ्गिको मधुसिक्थकः, इन्द्रो लालिको विस्फुलिङ्ग* पिङ्गलगौतमाः, मुस्तको दालवश्चेति स्थावरा विषजातयः" इति हैम: । 'एते सर्वेऽपि । र स्थावरवनस्पतिभवत्वात् स्थावरा विषस्य जातयो भेदाः' इति । एते सर्वेऽपि पुंक्लीबलिङ्गाः' * इति वाचस्पतिः, इति तट्टीकायाम् । इन्दनादिन्द्रः स्वामी । "अधिपस्त्वीशो नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः प्रभु र्तेश्वरो विभुः, ईशितेनो नायकश्च" इति हैम: । और , "इन्द्रः शकेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिज्जके" इत्यनेकार्थसङ्गहः । 4 'पाणि'मते तु इदिधातोः अप्रत्यये इन्द्रः पुं०, “देवाधिपे, परमेश्वरे, परमैश्वर्ययुक्ते का (परमशोभायुक्ते इत्यर्थः), इन्द्रदैवतज्येष्ठानक्षत्रे । द्वादशार्काश्चतुर्दश चन्द्राः इति तु जैनेतरमते . जैनमते तु असङ्ख्या अर्काः इन्द्राश्च चतुष्षष्टिः इति । विष्कुम्भादितः षड्विशे योगे, * कुटकवृक्षे च" । अत्र तु स्वाम्यर्थः-परमशोभायुक्तो वेत्यर्थः । नगानां नगेषु वेन्द्रः नगेन्द्रः-पर्वताधिपः, पर्वतेषु शोभमानो वा हिमालयः । सज्यते स्मेति सज्धातोः कर्मणि । क्ते सक्ता "आसक्ते, अविरते च त्रिलिङ्गः" । "तत्परे प्रसितासक्तौ” इत्यमरः । नगेन्द्रे र सक्ता नगेन्द्रसक्ता, तां नगेन्द्रसक्ताम्-पर्वतरामणीयकावलोकनप्रसिताम् । दृश्यतेऽनयेति दृश्धातोः करणे क्तिप्रत्यये, 'पा०'मते च क्तिन्प्रत्यये दृष्टिःचक्षुः। "चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैमः५ । | "अक्ष्णि रूपग्रहो दी(दे)वदीपः" इति हैमशेषः । दर्शनमिति भावे क्तिप्रत्यये दृष्टिः मतिः । "मतिर्मनीषा बुद्धि/र्धिषणाज्ञप्तिचेतनाः, प्रतिभा प्रतिपत् प्रज्ञाप्रेक्षाचिदुपलब्धयः, संवित्तिः शेमुषी दृष्टिः" इति हैमः । दृश्धातोः "भावे क्ति(क्तौ) निदर्शने, बुद्धौ च, करणे क्तिनि । नेत्रे, द्वित्त्वसङ्ख्यायाम्, "चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभासिका दृष्टिरित्युच्यते" इत्युक्तायां का मनोवृत्तौ च" । अत्र तु नेत्रार्थः । जैनमते च "ओघ-योगभेदेन द्विविधा, सम्यग्दृष्ट्यादिभेदेन र त्रिविधा च । तत्र योगदृष्टि:१. अभि० चि० च० ११९५-९६-९७-९८-९९ । २. अभि० चि० तृ० ३५८-५९ । ३. अनेकार्थसङ्ग्रहे द्वि० ३८५ । ४. अम० तृ० विशेष्यनिघ्नवर्गे - ७ ।। ५. अभि० चि० तृ० ५७५ । ६. अभि० चि० हैमशेषे - १२१ । ७. अभि० चि० द्वि० ३०८-९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy