________________
VAASE
ARTS
मनोहरे, उचिते च, स्त्रियां ङीप् मुनौ, जिने च;
न प्रहष्यति सन्माने नाऽपमाने च कुप्यति ।
न क्रुद्धः परुषं ब्रूयादेतद्धि साधुलक्षणम् ॥
इत्याद्युक्तधर्मवति जने, वार्द्धषिके च पुं०" । इह तूचितार्थः । आर्तेषु साधुः और हितकारी आर्तसाधुः, तस्याऽऽर्तसाधोः-दीनरक्षणपरिचितस्य ।
नन् पातीति नृपः, तस्य नृपस्य, राज्ञो दिलीपस्य । स्थावरत्वात् न गच्छतीति 'नगोऽप्राणिनि वा' (३।२।१२७॥) इति 'श्री०सि०'सूत्रेण 'नगः' इति निपातो वा नञोऽदभावः । नगः पर्वतोऽगोऽपि । नगाः वृक्षाः । 'पा०'मते तु न-पूर्वात् गम्धातोः डप्रत्यये "नगः पर्वते, वृक्षे च पुं०" । अत्र तु पर्वतार्थः । इन्दतीति 'भी-वृधि-रुधिवज्यगि-रमि-वमि-वपि-जपि-शकि-स्फायि-वन्दीन्दि-पदि-मदि-मन्दि-चन्दि-दसिघसि-नसि-हस्यसि-वासि-दहि-सहिभ्यो रः' ।।२८७।। इति 'उणादिश्रीसि०'सूत्रेण 'इदुपरमेश्वर्ये' इति धातोः रप्रत्यये इन्द्रः-शक्रः पूर्वदिक्पतिश्च । “इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री बीडौजा मघवान् पुरन्दरः, प्राचीनबर्हिः पुरुहूतवासवौ सङ्कन्दनाखण्डलमेघवाहनाः, सुत्राम-वास्तोष्पति-दल्मि-शका वृषा शुनासीर-सहस्रनेत्रौ, पर्जन्य-हर्यश्व-ऋभुक्षि-बाहुदन्तेयवृद्धश्रवसस्तुराषाट्, सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः, कौशिकः पूर्वदिग्-देवाप्सरःस्वर्ग-शची-पतिः, पृतनाषाडुग्रधन्वा मरुत्वान् मघवा" इति हैम:' । इन्द्रे तु "खदिरो नेरी त्रायस्त्रिंशपतिः जयो गौरवास्कन्दी वन्दीको वराणो देवदुन्दुभिः किलाणातो हरिवान के यामनेमिरसन्महाः शयीचिर्माहिरो (शपीविः मिहिरो) वज्रदक्षिणो वि(व)युनोऽपि च" इति हैमशेषः२ । इन्द्रः पूर्वदिक्पतिः ।
तिर्यग्दिशां तु पतय इन्द्राग्नियमनैऋताः ।
वरुणो वायुकुबेरावीशानश्च यथाक्रमम् ॥ [इति हैम:२]
इन्द्रादयोऽष्टौ दिक्पालाः । इन्द्रः विषभेदः । “अथ हलाहलः, वत्सनाभः कालकूटो म ब्रह्मपुत्रः प्रदीपनः, सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च; अहिच्छत्रो मेषशृङ्गः १. अभि० चि० द्वि० १७१-७२-७३-७४ । २. अभि० चि० हैमशेषे -३३ । ३. अभि० चि० द्वि० १६९ ।
*
*
८४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org