SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ | * A SN हैम: । यद्वा आक्रन्द्यते इति आकन्दितम् । 'पा०'मते आपूर्वात् क्रन्द्धातोः क्तप्रत्यये । आक्रन्दितम् । आफूर्वात् 'ऋ-गतौ' भ्वादिर्जुहोत्यादिश्च प० सु० (स.) अनिट् , 'ऋहिंसायां च' क्रयादिः पर० सक० अनिट् । तत्र गत्यर्थाद्धातोः क्तप्रत्यये ऋच्छति स्म इयर्ति स्मेति वाऽऽर्तः पीडिते, दुःखिते, सुस्थे च । उत्तमक्षमादिभिर्गुणविशेषैर्भावितात्मा साध्नोतीति । साधुः, साधयति वा सम्यग्दर्शनादिभिः परमं पदमिति 'कृ-चा-पा-जि-स्वदि-साध्यशौ-- दृ-स्ना-सनि-जा-निरहीण्भ्य उण्' ॥१॥ इति 'उणादिश्रीसि०'सूत्रेण 'साधंट्-संसिद्धौ' इति धातोः उत्तमक्षमादिभिस्तपोविशेषैर्भावितात्मा सानोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः-संयतः । उभयलोकफलं वा साधयतीति साधुः-धर्मशीलः । । "अथ मुमुक्षुः श्रमणो यतिः, वाचंयमो यती साधुरनगार ऋषिमुनिः, निग्रन्थो भिक्षुः" इति । हैम:२ । साधयति कार्याणीति वा साधुः-सज्जनः । “साधौ सभ्यार्यसज्जनाः" इति हैम: । साधु-रमणीयम् । “चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे, वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च, साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे, काम्यं कर्मे कमनीयं का सौम्यं च मधुरं प्रियम्" इति हैमः ।। “साधुजैनमुनौ वार्द्धषिके सज्जनरम्ययोः" इत्यनेकार्थसङ्ग्रहः । सानोति परकार्यमिति वा साधुः, स चैवंभूतो यदाह पण्डितराजः परार्थव्यासङ्गादुपजहदपि स्वार्थपरतामभेदैकत्वं यो वहति गुरुभूतेषु सततम् । स्वभावाद्यस्याऽन्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥१॥ सत्पु(पू)रुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारै रिन्दुर्विकासयति कैरविणीकुलानि ॥१॥ 'पाणि 'मते साध्धातोरुणप्रत्यये साधुः त्रिलिङ्गः । "उत्तमकुलजाते, सुन्दरे, और १. अभि० चि० ष० १४०२ । २. अभि० चि० प्र० ७५-७६ । ३. अभि० चि० तृ० ३७९ । ४. अभि० चि० ष० १४४४-४५ । ५. अनेकार्थसङ्ग्रहे द्वि० २५० । र Jain Education International ८३ . For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy