________________
श्रीसि०'सूत्रेण 'शपी-आक्रोशे' धातोः दप्रत्यये शब्द:-श्रोत्रग्राह्योऽथः । यद्वा शब्द्यते इति शब्दः । "शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः, निर्झदो निनदो हादो निःस्वानो निःस्वनः स्वनः, रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः, क्वणनं । निक्वणः क्वाणो निक्वाणश्च क्वणो रणः" इति हैम: । 'शब्द-शब्दकरणे' अदादिः चुरादिः । उभ० सक० सेट्धातोः घत्रि शप्धातोर्दन्प्रत्यये वा "शब्दः पुं० ध्वन्यात्मके, वर्णात्मके
च श्रोत्रेन्द्रियग्राह्ये, नैयायिकादिमते आकाशादिस्थे गुणभेदे च" ! 'आकाशगुणः शब्दः' पर , इति नैयायिकाः । तदसाम्प्रतम् । शब्दप्रतिघातादेरनुग्रहोपघातदर्शनात् फोनोग्राफादिषु म गृह्यमाणत्वाच्च भाषात्वपरिणतभाषावर्गणापुद्गलस्कन्धरूपोऽयम् । प्रथधातोर्डतिप्रत्यये प्रति का -अव्ययं, "व्याप्ती, लक्षणे, कञ्चित्प्रकारमापन्नस्य कथने, भागे, प्रतिदाने, प्रतिनिधीकरणे, स्तोके, क्षेपे, निश्चये, व्यावृत्तौ, आभिमुख्ये, स्वभावे च" । अत्र व्याप्त्यर्थः । प्रतिरूप:(गतः) शब्दः प्रतिशब्दः-प्रतिध्वनिः । दृणाति हुस्वभावमिति 'मघा घवाघदीर्घादयः' ॥११०॥ श्री
इति 'उणादिश्रीसि०'सूत्रेण दृणातेर्दीरि घप्रत्ययान्ते निपातने दीर्घः अन्य(आय)तः उच्चश्च । * "दीर्घायते समे" इति हैमः२ । "दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्" इत्यमरः । र
'पा०'मते तु दृधातोर्घा घस्य नेत्वम् दीर्घः पुं० । "शाललतावृक्षे, उष्ट्र, द्विमात्रे स्वरवर्णे च; आयते त्रिलिङ्गः" । अत्र त्वायतार्थः । गुहायां निबद्धः गुहानिबद्धः, गुहानिबद्धश्चाऽसौ व
प्रतिशब्दश्च गुहानिबद्धप्रतिशब्दः, गुहानिबद्धप्रतिशब्देन दीर्घम् गुहानिबद्धप्रतिशब्ददीर्घम्। कन्दरप्रतिबद्धप्रतिध्वानायतम् ।
तस्याः इदम् तदीयम् । आफ्धातोः क्विपि पृषोदरादित्वात् पलोपे आ-अव्ययं, "वाक्ये (वाक्यस्याऽन्यथात्वद्योतने), "पूर्वमेवं मंस्था इदानीमेवम्" इति प्रतिपादनपरे । 0 स्मृतौ (आ एवं मन्यसे इति स्मृतस्याऽन्यथापादने), अनुकम्पायां, समुच्चये, अङ्गीकारे, * ईषदर्थे, क्रियायोगे, सीमायां, व्याप्तौ च" । वाक्यस्मृतिभिन्नेऽस्य ङित्वमिच्छन्ति, यदाह
ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ।। इति ।
इह व्याप्त्यर्थः । आक्रन्दनं रुदितम् आक्रन्दितम् । "रुदितं क्रन्दितं कुष्टम्" इति । १. अभि० चि० ष० १३९९-१४०० । २. अभि० चि० ष० १४२८ । ३. अम० तृ• विशेष्यनिघ्नवर्ग
८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org