________________
| |
"धर्मप्रजासम्पन्ने दारे, नाऽन्यं कुर्वीत" इति । 'न्यायावाया(ध्यायोद्यावसंहारावहाराधारदारजारम्) (५।३।१३४।।) इति 'श्रीसि०' सूत्रेण घटादिदृधातोः णिचि घनिपातने दाराः । “अथ सर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहा दाराः क्षेत्रं वधूर्भार्या जनी र जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैम: । "भार्या जायाऽथ पुंभूम्नि दाराः"
इत्यमरः । 'पाणिनीय'मते तु दारयन्ति भातृस्नेहम् इति दृधातोः णिचि अचि च "दाराः । पुं० बहुवचनं पत्न्याम्" । सा हि पत्युर्धातृस्नेहं भिनत्तीति लोकप्रसिद्धम् । दारैः सह वर्तमानः सदारः, तस्य सदारस्य-सभार्यस्य ।।
_ 'गृणाति धर्म'मिति गुरुः । 'कृ-गृ ऋत उर् च' ॥७३४।। 'उणादिश्रीसि०'सूत्रेण 'गृश्-शब्दे' इति धातोः किदुप्रत्यग्ने ऋकारस्य चाऽरि गुरुः । गुरुः आचार्यः लघुप्रतिपक्षः । पूज्यश्च जनः । "गुरुर्धर्मोपदेशकः" इति हैम: । 'निषेकादिकरो गुरुः' इत्यन्ये । 'गिरती'ति गुरुः इति तु महदर्थे । 'गृणाति उपदिशती'ति गुरुः । "बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः वाचस्पतिद्वादशाचिधिषणः फल्गुनीभवः गीबृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः" इति हैम: । 'पाणिनीय'मते तु गिरत्यज्ञानमिति गृणात्युपदिशति वा धर्ममिति गृधातोः कुप्रत्यये उचि च गुरुः ।
निषेकादीनि कर्माणि यः करोति यथाविधि ।
सम्भावयति चाऽन्येन स विप्रो गुरुरुच्यते ॥१॥ (२-१४२) इति मनूक्ते निषेकादिकर्तरि, पित्रादौ । ।
"स गुरुर्यः क्रियां कृत्वा, वेदमस्मै प्रयच्छति" इत्युक्ते आचार्ये, शास्त्रोपदेष्टरि, सम्प्रदायप्रवर्तके, उपाध्याये, तान्त्रिकमन्त्रोपदेष्टरि, का बृहस्पतौ, तदधिदैवे, पुष्ये, द्विमात्रे, दीर्घे, स्वरवर्णे, बिन्दुविसर्गयुक्ते एकमात्रे, संयुक्त - वर्णात्पूर्वस्थिते एकमात्रेऽपि वर्णे, द्रोणाचार्ये कपिकच्छायाञ्च, बलवति, महति, पूज्ये।। १. अभि० चि० तृ० ५१२-१३ । २. अम० द्वि० मनुष्यवर्गे - ६ । ३. अभि० चि० प्र० ७७ । ४. अभि० चि० द्वि० ११८-१९ ।
Om
SHIKARAN
M
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org