________________
गुरुरग्निद्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राऽभ्यागतो गुरुः ॥ इति पुराणम् । दुर्ज रे, गुरुत्ववति च त्रिलिङ्गे । अत्र तु पूज्यादिर्यथायथम् ।
जैनदर्शने तु गुरवोऽनेके प्रतिपादितास्तथाऽपि उपदेशकमुनिरूपगुरुस्तु महाव्रतधर-बार त्वादिगुणगणोपेत एव । यदाह
महाव्रतधरा धीरा भैक्षमार्गोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥१॥ धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः ।
सत्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ।।२।।
'स्वयं परिहारः' इति श्रीहरिभद्रसूरिवचनात्(?)यः सर्वारम्भादित्यागवान् सी PG एवोपदेशदानाधिकारज्ञः, नेतर इति ज्ञेयम् ।
योगपूर्वसेवाधिकारे तु एवंविधोऽपि गुरुवर्गः प्रतिपादितस्तथा चाऽऽह
पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिताः ॥१॥ माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥२॥ पूजनं चाऽस्य नमनं त्रिसन्ध्यं पर्युपासनम् । अवर्णाश्रवणं नाम श्लाघोत्थानासनार्पणे ॥३॥ सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता ।
स्वपुमर्था(थ)मनाबाध्य साराणां च निवेदनम् ॥४॥ (द्वात्रिंशद्वात्रिंशिका) | 'अत्र स्वपुमर्थमनाबाध्येत्यनेन यदि तदनिष्टेभ्यो निवृत्तौ इष्टेषु च प्रवृत्तौ धर्मादयः । पुरुषार्था बाध्यन्ते तदा न तदनुवृत्तिपरेण भाव्यम्' इति तट्टीकायाम् ।
तद्वित्तयोजनं तीर्थे तन्मृत्यानुमतेर्भयात् । तदासनाद्यभोगश्च तद्विम्बस्थापनार्चने ॥५।।
WA
Jain Education International
६१ For Private & Personal Use Only
www.jainelibrary.org