SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ __ वाच्यपरिवर्तनं त्वेवम्-तया वत्सोत्सुकयाऽपि स्तिमितया (सत्या) सपर्या प्रत्यग्राहियो इति ताभ्यां ननन्दे । हि भक्त्योपपन्नेषु तद्विधानां प्रसादचिह्नः पुरःफलैः भूयते ॥ धेनुः यद्यपि सायंकाले निजवत्सालोकनार्थमत्यन्तं विह्वला आसीत् । तथाऽपि सा 4 - राज्ञा विहितां पूजां निश्चलभावेन स्वीचकार । तत्तस्यां प्रसन्नताचिह्न विलोक्य सुदक्षिणादिलीपौर | निर्भरमानन्दतुः । यतो भक्तजनान् प्रति महात्मनां प्रसादः अचिरेणैव भक्तानामिष्टसिद्धि र Vil कथयति, इति सरलार्थः ॥२२॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधिं दिलीपः । दोहावसाने पुनरेव द्रोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥२३॥ गुरोरिति । भुज्येते आभ्यामिति भुजौ । 'भुजन्युजं पाणिरोगे (४।१।१२०॥) इति । 'श्री सि०' सूत्रेण घञ् निपात्यते पुंस्त्रीलिङ्गः । “भुजो बाहुः प्रवेष्टो दोर्बाहा" इति हैम: । का "भुजबाहू प्रवेष्टो दोः' इत्यमरः२ । 'पाणि० मते भुज्धातोर्घबर्थे करणे कः नि० कत्वाभावः । । "बाहौ, करे, त्रिकोणचतुष्कोणादिक्षेत्रस्य रेखाविशेषे-लीलावत्यादिप्रसिद्धे-"तथायते । तद्भुजकोटिघातः" । उच्छिद्यन्ते स्म इति उच्छिन्नाः । इयर्तीति रिपुः । 'कस्यनिस्यामिपुक्' * ॥७९८॥ इति 'उणादिश्रीसि०' सूत्रेण पुकि रिपुः - शत्रौ । “प्रतिपक्षः परो रिपुः शात्रवः । - प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः दुर्हत् परेः पन्थकपन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभिमात्यराती" इति हैम: । 'पाणिनीय' मते तु रप्धातोः कुप्रत्यये पृषोदरादित्वात् "रिपुः शत्रौ चोरनामगन्धद्रव्ये, ज्योतिषोक्ते । लग्नापेक्षया षष्ठस्थाने, कामक्रोधादिषु च" । अत्र तु शञ्चर्थः । भुजाभ्यां उच्छिन्नाः रिपवो * येन स भुजोच्छिन्नरिपुः बाहुविध्वंसितारिः । दिलीपः । दारयन्ति दीर्यन्ते वा एभिरिति वा दाराः । 'पुंलिङ्गो' दारप्राणा सुवल्वजा इति और 2. लिङ्गानुशासनवचनात्; बहुवचनान्तश्च' । 'एकवचनान्तोऽपि दृश्यते यल्लक्ष्यं (यथालक्ष्यं ?) १. अभि० चि० तृ० ५८९ । २. अम० द्वि० मनुष्यवर्गे - ८१ । - ३. अभि० चि० तृ० ७२८-२९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy