SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ "उपपन्नं ननु शिव"मिति रघुः [सर्ग-१ श्लो०६०]। विधीयते इति 'उपसर्गादातः' (५।३।११०।।) इति 'श्रीसि०'सूत्रेण विपूर्वात् धाधातोः अङि विधा । "कर्म क्रिया विधा" को इति हैम:' । 'पाणिनीय'मते तु 'विध्-विदाने छिद्रकरणे छेदने च' तुदादिः पर० सक० को सेट् । विधतीति विधा । विध्धातोः कः अच्चेति "विधः पुंस्त्रीलिङ्गः । “विधाने, गजभक्ष्यान्ने, प्रकारे, वेधे, वृद्धौ, वेतने, वेधने कर्मणि च" स्त्री० । अत्र तु प्रकारार्थः । * 7 तस्या विधा इव विधा-प्रकारो येषां ते तद्विधाः, तेषां तद्विधानाम्-महतामित्यर्थः । प्रसदनमिति प्रपूर्वात् सद्धातो वे घबि प्रसादः । “नैर्मल्ये, अनुग्रहे, काव्यगुणभेदे, स्वास्थ्ये, प्रसक्ते, देवनैवेद्ये, गुरुजनभुक्तावशिष्टे च" । अत्र त्वनुग्रहः । चाहयतीति चिह्नानि । 'दिन नग्न-फेन-चिह्न-अध्न-धेन-स्तेन-च्यौक्नादयः' ॥२६८॥ इति 'उणादिश्रीसि०'सूत्रेण । * चहेर्धातो-रिदुपान्त्यो नान्तो निपातः । “चिह्न, लक्षणं लक्ष्म लाञ्छनम्; अङ्कः । कलङ्कोऽभिज्ञानम्" इति हैम: । 'पाणि 'मते 'चिह्न-लक्षणे' अदादिश्चुरादिश्च उभ० सक० सेट्धातोरचि, यद्वा चधातोर्नप्रत्यये उपधाया विकल्पेन इत्वे चिह्नयन्तीति चाहयन्तीति वा । - चिह्नानि । “चिह्न न० लाञ्छने लक्षणे च" । प्रसादस्य चिह्नानि-लिङ्गानि-पूजास्वीकारादीनि र प्रसादचिह्नानि। फलन्तीति फलम् । “लाभोऽधिकं फलम्" इति हैम: । फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्रासे व्युष्टिलाभयोः ॥ इति अनेकार्थसङ्ग्रहः । | 'पाणि'मते तु 'फल-निष्पत्तौ' भ्वादिः पर० अ० सेट्, 'फल्-भेदने गतौ च' और र भ्वादिः पर० स० सेट् । अत्र तु निष्पत्त्यर्थः । फलतीति फल्धातोरचि फलम् । “फलं कि वृक्षादीनां सस्ये, लाभे, कार्ये, उद्देश्ये, प्रयोजने, जातीफले, त्रिफलायां, कक्कोले, बाणाग्रे, र OF फाले, दाने, मुष्के च; कुटजवृक्षे" पुंलिङ्गाः । स्वार्थादौ कनि फलकः (ढाल इति ख्याते) "चर्ममयेऽस्त्रप्रतिघातनिवारके पदार्थे, अस्थिखण्डे, नागकेशरे, काष्ठादिपट्टके च पुंलिङ्गाः" । पुरःफलानि पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि पुरःफलानि । अविलम्बित- फलसूचकलिङ्गदर्शनादानन्दो युज्यत इत्यर्थः । १. अभि० चि० ष० १४९७ । ३. अभि० चि० तृ० ८६९ । २. अभि० चि० द्वि० १०६ । ४. अनेकार्थसङ्ग्रहे तृ० ४८७ । ५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy