________________
वाच्यपरिवर्तनं त्वेवम्-धनुर्धरण तेन (राज्ञा) पाटलायां गवि तस्थिवान् केसरी धातुमय्याम् अधित्यंकायां सानुमतः प्रफुल्लः लोध्रद्रुम इव ददृशे ।।
धनुर्धरः स दिलीपः रक्तवर्णायां गवि स्थितं सिंहं गैरिकादिधातुरक्तवर्णायां पर्वतोपरितनभूमौ विकसितं लोध्राख्यं वृक्षमिव अवलोकयामास इत्यर्थः, इति सरलार्थः । * ॥२९॥
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥३०॥
तत इति । तस्मादिति तच्छब्दात्पञ्चम्यर्थे 'किमद्वयादिसर्वाद्यवैपुल्यबहोः पित * तस्' (७।२।८९॥) इति 'श्रीसि० 'सूत्रेण तस्प्रत्यये ‘पञ्चम्यास्तसिल्' [५।३।७॥] इति ।
'पा० 'सूत्रेण च तसिल्प्रत्यये ततः । ततः -सिंहदर्शनानन्तरम् । मृग्यन्ते व्याधैरिति 'मृग्, अन्वेषणे याचने च' अदादिः चुरादिः आ० सक० सेट् अस्ति, 'मृग्-अन्वेषणे' दिवादिः * पर० सक० सेट् अस्ति च । ततः कप्रत्यये मृगाः-हरिणाः । "मृगः कुरङ्गः सारङ्गो का | वातायुर्हरिणावपि" इति हैम: । 'मृगे तु अजिनयोनिः स्यात्' इति हैमशेषः । मृगो
गजजातिभेदः । “भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः" इति हैम: । 'मृगो मृग इव
हीनसत्त्वत्वा'दिति टीका । मृगो नक्षत्रभेदे । “मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः" इति । स, हैम: । षोडशजिनपतेः श्रीशान्तिनाथस्य भगवतो लाञ्छनं मृगः । "मृगः पशुमात्रे, * हरिणे, गजभेदे, अश्विन्यवधिके पञ्चमे नक्षत्रे, मृग् अदादिचुरादिः भावे अच्, अन्वेषणे कर 2. याचने यज्ञभेदे च अच्, मृगमदे मकरराशौ च पुं०" । अत्र हरिणः पशुमात्रत्वात् ।।
मृगाणामिन्द्रः मृगः इन्द्र इव वा मृगेन्द्रः । गमिष्यतीति गामी । मृगेन्द्रं गामी मृगेन्द्रगामी। यद्वा मृगेन्द्र इव गच्छतीति 'कर्तुणिन्' (५।१।१५३।।) इति 'श्रीसि०'सूत्रेण, 'पा०' [मते] और 'कर्तर्युपमाने' [३।२।७९।।] इति 'पा०'सूत्रेण च णिनि, मृगेन्द्रे गामी सिंहगामी।
शरणे साधुरिति 'तत्र साधौ' (७।१।१५।।) इति 'श्रीसि० 'सूत्रेण 'तत्र साधुः' व । [४।४।९८||] इति 'पा० 'सूत्रेण च यत्प्रत्यये शरण्यः । शीर्यते शीताद्यनेनेति शृधातो: ल्युटि १. अभि० चि० च० १२९३ ।
२. अभि० चि० हैमशेषे -१८६ । HT ३. अभि० चि० च० १२१८ ।
४. अभि० चि० द्वि० १०९ ।
९४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org