SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ - शरणम्-गृहम् । “गेहं तु गृहं वेश्म निकेतनम्; मन्दिरं सदनं सम निकाय्यो भवनं कुटः, आलयो निलयः शाला सभोदवसितं कुलम्; धिष्ण्यमावसथः स्थानं परस्त्यं संस्त्याय - आश्रयः, ओको निवास आवासो वसतिः शरणं क्षयः, धामाऽगारं निशान्तं च" इति और पर हैम: । "शरणं गृहरक्षित्रोः" इत्यमरः । "शरणं रक्षणे गृहे" इति यादवः । शरणं न० । * "गृहे, रक्षके, रक्षणे, वधे, घातके च; प्रसारण्यां स्त्री०; आप्-टाप् वा" । अत्र तु रक्षणम् । शरणे साधुरिति 'तत्र साधौ' इति 'श्रीसि० 'सूत्रेण शरणशब्दात् यप्रत्यये 'तत्र साधुः' इति 'पा० 'सूत्रेण च यत्प्रत्यये शरण्यः । शृ-अन्यश्च (अनः यश्च?) । "शरणागतत्राणकरणयोग्ये; दुर्गायां स्त्री०" । प्रगता सभा अत्रेति प्रसभम्-हठः । “बलात्कारस्तु प्रसभं हठः" इति हैम: । सभया हि युक्तायुक्तविचारो लक्ष्यते । क्लीबलिङ्गोऽयमिति वृत्तिः । "प्रसभोऽस्त्री बलात्कारः" । इति वैजयन्ती पुंस्यप्याह । अन्ये तु "प्रसभं त्रिलिङ्गः" । प्रगता सभा सभाधिकारो यस्मात् । बलात्कारे । उद्धियन्ते स्मेति उत्पूर्वात् हधातोः धृधातोर्वा कर्मणि क्ते उद्धृताः उन्मीलिताः । । "उन्मूलितमाबर्हितं स्यादुत्पाटितमुद्धृतम्" इति हैम: । "उद्धृतः त्रि० उत्क्षिप्तो(से), भुक्तोझितो(ते), कृतोद्धारो(रे), पृथक्कृते, उच्छेदिते च" । अत्र तु उत्क्षिप्तार्थः । इयर्तीति । 'स्वरेभ्य हः' ॥ ६०६॥ इति 'उणादिश्रीसि०'सूत्रेण 'ऋक्-गतौ' धातोः इप्रत्यये, 'पा०'* मते इत्प्रत्यये च अरिः शत्रुः । "शत्रौ प्रतिपक्षः परो रिपुः, शात्रवः प्रत्यवस्थाता - प्रत्यनीकोऽभियात्यरी; दस्युः सपनोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः, दुर्हत ) परेः पन्थक-पन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभिमात्यराती" इति हैम: । अराः सन्त्यस्मिन्निति वाऽरि:-चक्रम् । “रथाङ्गं रथ(क्ष)पादोऽरि चक्रम्" इति हैम:६ | "अरिः पुं० शत्रौ, रथाङ्गे, और चक्रे, विट्खदिरे, षट्सु कामक्रोधादिषु, तत्सङ्ख्यासाम्यात् षट्सङ्ख्यायाम्, ज्योतिष्प्रसिद्ध लग्नावधिके, षष्ठस्थाने, ईश्वरे (शिवे) तन्त्रोक्तमन्त्रभेदे, राज्ञो विषयान्तरस्थिते नृपतौ, प्रेरके र त्रिलिङ्गः" । अत्र तु शत्रुः । प्रसभेन बलात्कारेण उद्धृता-उन्मूलिता अरयः शत्रवो येनसः प्रसभोद्धृतारिः। १. अभि० चि० च० ९८९-९०-९१-९२ । २. अम० त० नानार्थवर्गे -५९ । ३. अभि० चि० तृ० ८०४ ।। ४. अभि० चि० ष० १४८० । * ५. अभि० चि० तृ० ७२८-२९ । ६. अभि० चि० तृ० ७५५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy