SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नयतीति 'नियो डित्' ।।८५४।। इति 'उणादिश्रीसि०'सूत्रेण ‘णींग्-प्रापणे' धातोः डिति ऋप्रत्यये, 'पा० 'मते च डिति ऋन्प्रत्यये ना-पुरुषः पुं० । “मर्त्यः पञ्चजनो भूस्पृक * पुरुषः पूरुषो नरः, मनुष्यो मनुषो ना विद् मनुजो मानवः पुमान्" इति हैम: । "नृ पुं० कि मनुष्ये, पुरुषे च, जातौ ङीपि नारी" । पातीति ‘पातेर्वा' ॥६५९।। इति 'उणादिश्रीसि०'* सूत्रेण 'पांक्-रक्षणे' धातोः किदति प्रत्यये 'पा० 'मते च डति प्रत्यये "पति: भर्ता, रक्षिता, प्रभुश्च" । "अधिपस्त्वीशो नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरोको स, विभुः, ईशितेनो नायकश्च" इति हैम:२ । पतिः वरः । "प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता * पतिर्वरः, विवोढा रमणो भोक्ता रुच्यो वरयिता धवः" इति हैम: । "पतिः पुं०, भर्तरि, र मूले, अधिपतौ त्रिलिङ्गः, स्त्रियां वा ङीप्" नृणां पतिः नृपतिः "कुबेरे, राजनि च" | अत्र राजार्थः । नृपतिः-राजा, दिलीपः । जायते स्मेति जातः । 'जन्-प्रादुर्भावे' धातोः क्तप्रत्यये "जातं-समूहः न० जातम्, त्रिलिङ्गः उत्पन्नम्" । “सङ्घाते प्रकरौघ-वार-निकर-व्यूहाः समूहश्चयः सन्दोहः समुदायराशि-विसर-वाताः कलापो व्रजः कूटं मण्डल-चक्रवाल-पटल-स्तोमा गणः पेटकं वृन्दं चक्र-कदम्बके समुदयः पुञ्जोत्करौ संहतिः, समवायो निकुरम्बं जालं निवह-सञ्चयौ जातम्" इति हैम: । "जातं जात्योघजनिषु" इत्यनेकार्थसङ्ग्रहः५ । जाति:-सामान्यं यथा 'रत्नं न . सुजातं कनकावदातम्' । ओघे यथा 'नि:शेषविश्राणितकोशजातम्' । जनिर्जन्म । संपन्नेऽपि न द्वयोर्यथा 'जाते पुत्रस्य जाते समजनि वनिता वल्लभा भूमिभर्तुः' । पुत्रेऽपीति मङ्खः। यथा 'जातलक्ष्मणपवित्रितं त्वया' इति तद्वृत्तिः । “जातं नपुं० समूहे, व्यक्ते, जन्मनि च; उत्पन्ने । प्रशस्ते च त्रिलिङ्गः" । अत्र तूत्पन्नार्थः । अभिपूर्वात् सञ्धातोर्घबि अभिसञ्जनम् । र "अभिषङ्गः पुं० पराभवे, आक्रोशे, शपथे, व्यसने च" । "अभिषङ्गं जडं विजज्ञिवान्" * इत्यग्रे रघुः । जातः अभिषङ्गः पराभवो यस्य स जाताभिषङ्गः-जातपराभवः सः । यी "अभिषङ्गः पराभवे" इत्यमरः । * १. अभि० चि० तृ० ३३७ । ३. अभि० चि० तृ० ५१६-१७ । ५. अनेकार्थसाहे द्वि० १६६ । २. अभि० चि० तृ० ३५८-५९ । ४. अभि० चि० ष० १४११-१२ । ६. अम० तृ० नानार्थवर्गे -२९ । ९६ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy