________________
वधमर्हतीति 'दण्डादेर्यः' ।६।४।१७८॥ इति श्रीसि०' सूत्रेण 'दण्डादिभ्य(भ्यो) 1 यत्' ५।१।६६।।] इति 'पा० 'सूत्रेण च वधशब्दात् यप्रत्यये वध्यः, तस्य वध्यस्य । वधार्हस्यमृगाणामिन्द्रः मृगेन्द्रः, तस्य मृगेन्द्रस्य-सिंहस्य । हननमिति ‘हनो वा वध् च'
(५।३।४६।।) इति 'श्रीसि० 'सूत्रेण हन्धातोः अल्प्रत्यये वधादेशे च वधः-व्यापादनम् । का * "व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम्, निस्तहणं विशसनं या
क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रतिघातनं वधः; प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिके निशुम्भहिंसाः, निर्वापणालम्भनिषूदनानि निर्यातनोन्मन्यसमापनानि; अपासनं वर्जनमारपिञ्जा लामा
निष्कारणक्राथ विशारणानि" इति हैम: । "वधो हिंसकहिंसयोः" इत्यनेकार्थसङ्ग्रहः । । तस्मै वधाय-हिंसायै ।।
जैनमते "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" । मुनीनां सा सर्वतो मनोवाक्कायैः । * करणकारणानुमतिभिः सर्वथा त्रसस्थावराणां सर्वेषामपि त्याज्या, अत एव तेषां विंशति
विंशोपकरूपाऽहिंसा । गृहस्थानां तु देशतः सा, अत एव तेषां सपादविंशोपकलक्षणाऽहिंसा । यथा हिंसाहिंसास्वरूपं जैनमते तथा न बौद्धमते वेदान्त्यादिमते च । यथा च ते आहुः
प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा ।
प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ।। इति बौद्धाः । मनुरप्याह
यज्ञार्थं पशवः सृष्टा स्वयमेव स्वयम्भुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥१॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥२॥ एष्वर्थेषु पशून् हिंसन्वेदतत्त्वार्थविद् द्विजः । आत्मानं च पशुंश्चैव गमयत्युत्तमां गतिम् ॥३॥
29
१. अभि० चि० तृ० ३७०-७१-७२ ।
२. अनेकार्थसंग्रहे द्वि० २४३ ।
९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org