________________
सर्वमेतदसमञ्जसम्, 'मा हिंस्यात् सर्वभूतानि' इत्यस्यैव सर्वैरप्युद्घाषितत्वात् । मांसस्याऽपि हिंसामन्तरेण नोपपत्तिः, अतो मांसभक्षकोऽपि हिंसक एव । यत उक्तम्अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥१॥
तथा च
नियुक्तस्तु यथान्यायं यो मांसं नाऽत्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥१॥
Jain Education International
या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥२॥ इति ।
मांसभक्षणस्वारसिकत्वेन यत्तैरुक्तम्
न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ १ ॥
अस्य श्लोकस्य व्याख्यानं केचिदेवं कुर्वन्ति यज्ञे मांसभक्षणकरणेन, सौत्रामणियज्ञे - मद्यपानकरणेन, ऋतुसमये धर्मपत्नीसमागमनेन दोषो नाऽस्ति, प्राणिनां प्रवृत्तिरेवैषेति कृत्वा, तथाऽपि निवृत्तेर्महाफलवत्त्वम् । अयं भावः - यज्ञ - सौत्रामणियज्ञ - ऋतुसमयातिरिक्ते सर्वत्राऽपि स्थले दोषः ।
केचित्त्वेवं व्याख्यान्ति यज्ञे उच्छिष्टमांसभक्षणेन, सौत्रामणियागे मद्यपानेन, ऋतुं - विनाऽपि स्वस्त्रियं प्रति गमनेन दोषो नाऽस्ति, तथाऽपि तन्निवृत्तेः महत्पुण्यम् । यज्ञेऽपि मांसभक्षणाकरणेन सौत्रामणियागेऽपि सुरापानाकरणेन ऋतुं विना स्वस्त्रियं प्रत्यप्यगमनेन • महत्फलमिति तात्पर्यम् । एवं बहुविधानि तद्व्याख्यानान्युपलभ्यन्ते, न तानि समीचीनानि । सम्यग्दृष्टिस्तु मिथ्यावाक्यमपि तत् सम्यक् परिणमय्यैवं व्याख्याति - भूतानामनादिमिथ्या- वासनाग्रस्तप्रवृत्तिमत्त्वाद्यद्यपि प्रवृत्तिर्भवति, तथाऽपि अकारप्रश्लेषात् मांसभक्षणेऽदोषो न, किन्तु द्वौ नञौ प्रकृतमर्थं दृढयतः इति दोष एव । एवं मद्येऽदोषो न, किन्तु दोष एव । निवृत्तेर्महाफलवत्वेन वर्णितत्वात्प्रवृत्तेर्दोषवत्त्वं सुज्ञानमेवेति अकारप्रश्लेषेण व्याख्यानं युक्तम् ।
९८
For Private & Personal Use Only
www.jainelibrary.org