SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ स इति । न्यस्यन्ते स्मेति न्यस्तानि परिहतानि चिह्नानि छत्रचामरादीनि यस्याः सा न्यस्तचिह्ना, तां तथाभूतामपि । विशेष्यते इति विशेषः । तेजसो विशेषः तेजोविशेषः । । अनुमीयते स्मेति अनुमिता । तेजोविशेषेण-प्रभावातिशयेन अनुमिता तेजोविशेषानुमिता, तां म तेजोविशेषानुमिताम्-प्रतापातिशयतर्किताम् । सर्वथा राजा इवाऽयं भवेदित्यूहिताम् । * राज्ञः लक्ष्मीः राजलक्ष्मीः, तां राजलक्ष्मीम् । धत्तेऽसौ दधानः । स राजा । आविष्क्रियते । - स्मेति आविष्कृता, न आविष्कृता अनाविष्कृता । दानस्य राजिः दानराजिः । अनाविष्कृता दानराजिर्येन स अनाविष्कृतदानराजिः-बहिरप्रकटितमदरेखः । “गण्डः कटो मदो दानम्" । इत्यमरः । मदस्य अवस्था मदावस्था । अन्तर्गता मदावस्था यस्य स अन्तर्मदावस्थः । । तथाभूतोऽभ्यन्तरदानदशः । द्वाभ्यां शुण्डतुण्डाभ्यां पिबन्तीति द्विपाः । इन्दतीति इन्द्रः ।। * द्विपानामिन्द्रः द्विपेन्द्रः । इव यथा । समदभद्रजातीयो गजपतिरिवेत्यर्थः । “द्विरदोऽनेकपो - द्विपः, मतङ्गजो गजो नागः" इत्यमरः । वाच्यपरिवर्तनं त्वेवम्-तेन (राजा) न्यस्तचिह्नामपि तेजोविशेषानुमितां राजलक्ष्मी * दधानेन (सता) अनाविष्कृतदानराजिना अन्तर्मदावस्थेन द्विपेन्द्रेणेवाऽभूयत । समदभद्रजातीयो गजपतिर्यद्यपि मदवारिभिरन्तर्गतां निजां मदावस्थां न प्रकटीकरोति, और के तथाऽपि तस्य तेजःशालिना मूतिवि(तिवि)शेषेण यथा मनुष्यस्तां मदावस्थां निश्चेतुं समर्थो * भवति; तथा स दिलीपो व्रतबन्धाद्यद्यपि छत्रचामरालङ्कारादिभिः निजां राजलक्ष्मी नाऽधत्त, तथाऽपि तस्य प्रभावशालिना मूर्तिविशेषेणैव जनस्तस्य राज्यश्रियमनुमातुं शशाक, इति । सरलार्थः ॥७॥ लताप्रतानोद्ग्रथितैः स केऔरधिज्यधन्वा विचचार दावम् । रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥८॥ लतेति । अत्र प्रतानशब्दस्य भावघअन्तत्वाभावान्न पुंस्त्वमेव । 'वेदाः प्रमाण'मितिवत्सामान्यविवक्षायां प्रतन्यते एभिरिति करणे नपुंसकत्वमपि । अथवा 'विशेष्य- लिङ्गानुसारित्वा'दत्र पुंस्त्वमपि । प्रतन्यते इति प्रतान इति व्युत्पत्तौ पुंस्त्वमपि । १. अम० द्वि० क्षत्रियवर्गे - ३७ । २. अम० द्वि क्षत्रियवर्गे - ३४ । * - २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy