________________
- व्युत्पत्तिः समीचीना । इयमेव व्युत्पत्तिर्वाचस्पतिमिश्रः पातञ्जलयोगदर्शनवृत्तौ कृता । बन्धनं बन्धः । आसनस्य बन्धः आसनबन्धः । धिया राजते, धियं राति ददाति गृह्णाति वा ईरयति ईरति वा प्रेरयति गमयति वा धीरः । न च 'रांक्-दाने' इत्येव सर्वत्र धातुपाठे दर्शनात्कथं ग्रहणरूपोऽर्थः इति वाच्यम् । 'रातुं वारणमागतः' इति प्रयोगदर्शनेन कस्यचिन्मते आदानरूपार्थस्याऽपि सत्त्वात् । तथोक्तं हेमचन्द्रसूरिकृते धातुपारायणे क्रियारत्नसमुच्चये - च आदाने इति कश्चित् इति ।
'ईरण्- क्षेपे', क्षेपः प्रेरणम् 'गत्यादावपीति केचित्' इत्यस्य चुरादेरयं प्रयोगः । न तु 'ईरं (रिक्) - गतिकम्पनयो' रित्यस्याऽदादे: इ (ई) रयति इ (ई) रति इति प्रयोगकरणात् । - अदादेस्तु ईर्ते इति प्रयोगः ।
आसनबन्धे धीरः आसनबन्धधीरः । पद्मासनादिबन्धेऽथवा योगपट्टकसदृशे विनीतः बलयुतः पण्डितश्चेति भावः । आसनबन्धे - उपवेशने धीरः -स्थित- उपविष्टः सन्नित्यर्थः इति' - केचित् ।
सद् जलमादत्तेऽसावाददाना, तां जलं पिबन्तीं सतीम् । हेमचन्द्रसूरिमते दीक्षितमते चाऽभिलषतीत्येवं शीलः अभिलाषी । जलस्याऽभिलाषी जलाभिलाषी । वृत्तिकार. हरदत्तमाधवादिमते तु जलस्याऽभिलाषो जलाभिलाषः, सोऽस्याऽस्तीति जलाभिलाषी, सन् । छाया इव-प्रतिबिम्बमिव । "छाया सूर्यप्रिया कान्तिः, प्रतिबिम्बमनातपः " इर्त्यमरः । अन्वगच्छत् अनुसृतवान् ।
वाच्यपरिवर्तने तु - भूपतिना स्थिता स्थितेन प्रयातोच्चलितेन निषेदुषी आसन-. बन्धधीरेण जलमाददाना जलाभिलाषिणा सता छाययेव साऽन्वगम्यत ॥
नन्दिनी यदा चलनाद्विरराम तदा नृपोऽपि विरराम, यदा चलितुमारेभे तदा नृपोऽपि _ तथा । यदा निषसाद तदा नृपोऽपि तथा, यदा जलं पपौ तदा नृपोऽपि जलमपिबत् । किं बहुना ? स भूपतिः सदा छायेव तामनुजगाम, इति सरलार्थः ॥६॥
स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥७॥
१. अम० तृ० नानार्थवर्गे १६५ ।
Jain Education International
-
२२
For Private & Personal Use Only
www.jainelibrary.org