________________
SAN
स्वैराणि। स्वैराणि च तानि गतानि च स्वैरगतानि, तैः स्वैरगतैः-स्वच्छन्दगमनैश्च । तस्याः धेन्वाः । सम्यग् आराधनं समाराधनम् । तदेव परं-प्रधानं यस्य स तत्परः । समाराधने तत्परः समाराधन-तत्परः । शुश्रूषासक्तोऽभूत् । समाराधनतत्परस्य विधेय-और
विशेषणत्वात् विशेष्यात्परप्रयोगः । 'उद्देश्यवचनं पूर्वं विधेयवचनं पर' मिति न्यायात् । HE "तत्परे प्रसितासक्तौ" इत्यमरः ।
____ वाच्यपरिवर्तनं त्वेवम्-तेन सम्राजा आस्वादवद्भिस्तृणानां कवलैः कण्डूयनैशनि-और से वारणैरव्याहतैः स्वैरगतैश्च तस्याः (नन्दिन्याः) समाराधनतत्परेणाऽऽभावि । * तस्याः ओ(भो)जनार्थं सुघासमुष्टिं प्रयच्छन् गात्रखर्जनमपनयन् दुःखकरान्
दंशमशकादीन् निवारयन् स्वेच्छाविहारं चाऽनुवर्तमानः सन् सः (दिलीपः) सर्वप्रकारेणी नन्दिनीं सिषेवे, इति सरलार्थः ॥५॥
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥६॥
स्थित इति । पातीति पतिः । भुवः पतिः भूपतिः । तां-गां, स्थिताम् । * गत्यर्थादकर्मकाच्च धातोः कर्तरि क्तप्रत्ययविधानात् अस्थादिति स्थिता, तां-सतीम् ।
स्थितः-सन् । स्थितिरूवा॑वस्थानम् । प्रायासीदिति प्रयाता, ताम् [प्रयाताम्] । प्रस्थितां सतीमुदचालीदिति उच्चलितः । प्रस्थितः सन् निषसादेति निषेदुषी । सिद्धहेममते निउपसर्गपूर्वात् सद्धातोः 'तत्र वसुकानौ तद्वत् (५।२।२।।) इति सूत्रेण 'क्वसु'-प्रत्यये तस्य को
च नामसंज्ञायां 'अधातूदृदितः' (२।४।२।।) इत्यनेन स्त्रियां 'ङीप्'-प्रत्यये 'क्वसुष्मतौ च' * (२।१।१०५।।) इति क्वस उषादेशे निषेदुषी । पाणिनीयमते तु 'भाषायां सद-वस-श्रुवः' -
(३।२।१०८) इति क्वसुप्रत्यये 'उगितश्च' (४।२।६।।) इति ङि(ङी)पि निषेदुषी । तां
निषेदुषी निषण्णां-उपविष्टामित्यर्थः । सतीम् । आस्यतेऽस्मिन्नित्यासनमिति प्रायः सर्वत्र म * व्युत्पत्तिर्दृश्यते । तथा चाऽऽसनस्य भूम्यादिरों लभ्यते । तथा सति योगसत्काष्टाङ्गान्तर्गत- भारत
तृतीयाङ्गरूपासनपदवाच्यचतुरशीत्यासनमध्यवर्तिनः कस्याऽप्यासनस्य ग्रहणं न स्यात् ।। * अत्र धीरशब्दबलात्तदेव योगाङ्गरूपमासनमिति गम्यते । तथा सति आस्तेऽनेनेत्यासनमिति
१. अम० त० विशेष्यनिघ्नवर्गे -७ ।
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org