________________
लतानां-वल्लीनां प्रतान: (ना:) प्रतानानि वा लताप्रताना: लताप्रतानानि वा । उद्ग्रथ्यन्ते, स्मेति उद्ग्रथिताः । लताप्रतानैः लतासम्बन्धिकुटिलतन्तुभिः उद्ग्रथिता - उन्नमय्य ग्रथिता लताप्रतानोद्ग्रथिताः, तैः लताप्रतानोद्ग्रथितैः । केशैः कचैः । सिद्धहेममते 'हेतुकर्तृक_रणेत्थम्भूतलक्षणे' (२।२।४४|| ) इति तृतीया । "चिकुरः कुन्तलो वालः कचः केश:. शिरोरुहः" इत्यमरः । पाणिनीयमते तु ' इत्थम्भूतलक्षणे' (२|३|२१|| ) इति तृतीया । "वल्ली तु व्रततिर्लता" इत्यमरः । उपलक्षितस्स राजा । ज्यामधिरूढं अधिज्यंआरोपितमौर्वीकं, अधिज्यं धनुर्यस्य स अधिज्यधन्वा सन् । सिद्धहेममते 'धनुषो धन्वन्' (७३|१५८॥ इति बहुव्रीहौ 'धन्वन्' आदेशः । पाणिनीयमते तु 'धनुषश्च' (५|४|१३२ || ) इति 'अनङ्’आदेश: । होमाय धेनुः होमधेनुः । ' सिद्धहेम 'मते हितादेराकृतिगणत्वात्. 'हितादिभिः' ३|१|७१ || अनेन तादर्थ्यचतुर्थ्यन्तस्याऽपि समासः । एवं अश्वघासादावपि `ज्ञेयम् । यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास इति । 'पाणिनीय' मते: तु होमस्य धेनुः होमधेनुः । अत्राऽश्वघासादिवत्तादर्थ्ये षष्ठीसमासः । मुने: होमधेनुः मुनिहोमधेनुः, तस्याः मुनिहोमधेनोः ।
रक्षणं रक्षा । अपदिश्यतेऽपदिशनं वा इत्यपदेशः । रक्षायाः अपदेश: रक्षापदेशः, तस्मात् रक्षापदेशात्- रक्षणव्याजात् । वने भवा वन्याः, तान् वन्यान्-काननोत्पन्नान् । 'अटव्यरण्यं विपिनं गहनं काननं वनम्" इत्यमरः । दुष्टाश्च ते सत्त्वाश्च दुष्टसत्त्वास्तान्. दुष्टजन्तून् हिंस्रजन्तून् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । सतो भावः, सत्त्वं 'साङ्ख्यसिद्धे, प्रकाशादिसाधने, प्रकृत्यवयवे, पदार्थे ' । तत्र
44
'सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्' ॥ इति गीता । "सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥"
इति च साङ्ख्यकारिका [ ||१३|| ] अयं द्वितकारः पृषोदरादित्वादेकतकारः । 'स्वभावे, द्रव्ये, बले, पिशाचादौ,
१. अम० द्वि० मनुष्यवर्गे ३. अम० द्वि० वनौषधिवर्गे
Jain Education International
-
९६ ।
१ ।
-
२. अम० द्वि० वनौषधिवर्गे
९ ।
४. अम० तृs नानार्थवर्गे २२१ ।
२४
For Private & Personal Use Only
-
www.jainelibrary.org