________________
आत्मीयबन्धो ! चेतन !
TRI
पत्रम्
Jain Education International
नमो नमः श्रीगुरुनेमिसूरये ॥
धर्मलाभोऽस्तु ।
HIV PARSHWANTIITS
तव कुशलं कामये ।
मया ह्य एवैकः प्रसङ्गो दृष्टः । तत्र स्वास्याऽपराधे सत्यपि प्रसिद्धजनानां स्वरक्षणार्थं कृतं लज्जास्पदं सधाष्ट्र्र्यं निष्ठुरं च वर्तनं वीक्ष्यैका लोकोक्तिः स्मृतिपथमागता ।
"ख्यातस्याऽऽचरणं लीला ।
तदेवाऽन्यस्य विटचेष्टा" ॥
मुनिधर्मकीर्तिविजयः
केनचिदपि वास्तवदर्शिना एषा पङ्क्तिलिखिता । एषा पङ्क्तिरात्यन्तिकी मार्मिकी गभीराऽपि सत्याऽस्ति । अस्यां च वर्तमानकालीनस्थितेः साङ्गोपाङ्गं वास्तविकचित्रं दृग्गोचरीभवति । हृदये दुष्टवृत्त्यां सत्यामपि जगति सज्जनत्वेन प्रतिष्ठितानां जनप्रियाणां प्रसिद्धानां च जनानां पैशाचिकीं मनोवृत्तिं धृष्टतां च निरूपयति; तथा वस्तुतः सज्जना निर्मलचित्ताः सरलाश्च सन्तोऽपि ये समाजे न जनप्रियाः प्रसिद्धाश्च तेषामल्पापराधोऽपि महान् अपराधः कथ्यते इति ।
अद्यतनकालीन्या राजकीय-सामाजिकीय- धार्मिकीय-कौटुम्बिकस्थितेर्वैचित्र्यं कण्टकवन्मे मनः पीडयति । साम्प्रतं गड्डरिकायूथप्रवाह इव सर्वेऽपि जनाः प्रवर्तन्ते । न कुत्रचिदपि स्वकीया विचारधारा, बुद्धेः कौशल्यं चातुर्यं च स्वमनीषाया विनियोगश्च दृश्यन्ते, प्रत्युताऽज्ञानोपहतचित्ता मोहतमसाऽऽवृताश्च सर्वेऽपि परधिषणाधीना मूर्खप्रायाश्चैव दृश्यते । स्वमतिः परस्मै प्रदत्तैव, इति प्रतिभाति खलु । अत्यौदार्यभृतहृदयानां तेषां जनानां स्वबुद्धेरेतादृशमनुपमं समर्पणमवलोक्य मच्चित्ते कुतूकमपि संजायते । अद्य सर्वत्रैतादृश्येव स्थितिः प्रवर्तते यद्, यदि नाम लोके पञ्चदशभिर्जनैरेष सज्जनो ज्ञानी
१०७
For Private & Personal Use Only
www.jainelibrary.org