SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ * सच्चारित्री प्रवक्ता तपस्वी प्रशान्तः त्यागी चेति वर्येत तदाऽन्यधिया प्रवर्तमानैः सर्वैर्जनैः तस्याऽऽभ्यन्तरवृत्तिं सहजं स्वरूपं चाऽनुपलक्ष्य तथा वास्तविकतामवगणय्यैवेष सज्जनो ज्ञानी त्यागी चेत्युच्यते । तथैव यदि केनचिदेकेनाऽप्येष दुष्टो दुराचारी क्रोधी मिथ्याभिमानी । चेति गद्येत तदा सर्वैर्जनैरपि तथैव तेन सह व्यवह्रियते । नाऽत्र स्वकीयस्य विचारस्य । * कोऽप्यवकाशोऽस्ति । एवं सर्वे जना गतानुगतिकतयैव प्रवर्तन्ते । तदैते बुद्धेब्रह्मचारिणः १ - (मूर्खा:) इति किं नाऽऽभाति ? । बन्धो ! एतादृस्थितेः प्रभावादिदानी देशे समाजे कुटुम्बे धर्मस्थाने चा वास्तविकदृष्ट्याऽतीव निकृष्टा दुःशीलाश्च जना लोके सज्जनरूपेण प्रतिष्ठिताः, देशस्य । समाजस्य चाऽग्रणीत्वेन स्थापिताः । कदाचित्तु कमलस्य 'क' कीदृशः ? इत्यपि न # R जानन्ति ये तेऽपि महाज्ञानित्वेन विख्याताः । येषां देहे प्रतिरोमं कामवासनाग्निः प्रज्वलति । तादृशा अपि चारित्रचूडामणि-अखण्डब्रह्मचर्यपालकत्वेन वर्णिताः । कदाचित् कैश्चित् । धनेन सत्तया वाक्चातुर्येण चैवं येन केन प्रकारेण समाजे लोके च सन्मान-पद-प्रतिष्ठादिकं in प्राप्तम् । एवं ये जना लोके प्रसिद्धा लोकप्रियाश्च स्युः ते 'वयं किमपि कर्तुमधिकारिण' इति मन्वते । पश्चात् यथा "प्रसिद्धेन यत् क्रियते सा लीला" प्ररूप्यते तथैव तादृशै १ःशीलैरज्ञानिमूर्धन्यैरपि लोकप्रसिद्धत्वादिबिरुदधारिभिः तैर्जनैर्यत् किमपि विधीयते तत् EN सर्वं लीलात्वेन स्वीक्रियेत । वस्तुत एतादृशैस्तुच्छजनैः स्वमनीषिकयैव शास्त्रनिरपेक्ष धर्महानिकर जनविरुद्धं कलङ्करूपं वा यत् किमपि कथ्यते आचर्यते च तत् सर्वं । - श्लाघनीयमाचरणीयं वन्दनीयं वाऽपि भवति । अत्राऽप्याश्चर्यं त्वेतद् यद्, जनप्रियैर्यदाचरितं - गदितं वा तदेव यदि नाम सामान्यजनैः क्रियेत तर्हि तन्निन्दनीयं स्यात् । अहो ! प्रसिद्धजनानां 1 लीला वर्णनीयैव खलु । बन्धो ! तेषां माहात्म्यं (?) कथं वर्णयानि ? तेषामसत्यवागपि सत्यरूपेण 0 प्रतिष्ठाप्यते, तथा ते सत्यवादिहरिश्चन्द्रस्याऽवतारा मन्यन्ते । कामवासनातिरेको दुराचारश्चाऽपि Eva वात्सल्यत्वेन निरूप्येते । अभिमानिन उद्धता वा सन्तोऽपि ते विनयिनो गण्यन्ते । प्रतिपदं व माया-प्रपञ्चादिकमनुसरन्तोऽपि सरलहृदयत्वेन प्रसिद्ध्यन्ते । कृपणधियोऽपि दानवीरत्वेनाऽ ५ भिनन्द्यन्ते । स्खलन्तो भाषमाणा अपि वाक्पटुत्वेन मन्यन्ते । आशुकोपना अपि प्रशान्ताः । | ( कथ्यन्ते । अहो ! खलु तेषां लीला ! । १०८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy