SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ NEWS किञ्च-वास्तविकदृष्ट्या ये जना अतीव सज्जनाः प्रशान्ता निर्मलचित्ता निरभिमानिनः । सदाचारिण एव सन्ति, तथाऽपि यदि ते समाजे न प्रसिद्धाः, न च जनप्रियाः स्युः तर्हि EN तैः कृतं प्रशंसनीयमादरणीयं चाऽपि कार्यं निन्दनीयं भवति । एवं चाऽन्ये जना तान् जनान तिरस्कुर्वन्ति, तेषामवर्णवादं कुर्वते, सदा तानुपेक्षन्तेऽपि । १ हन्त ! इदानीं राज्यस्थाने धर्मस्थाने चैवं सर्वत्र सर्वैर्जनैरेवमेव व्यवहियते । सर्वेष्वपि क्षेत्रेषु ये येऽग्रण्यः प्रमुखाधिकारिणश्च सन्ति, ते ते स्वाधिकारवशात् पदप्रतिष्ठाया । बलात् सत्ताया बलाच्च स्वेच्छापूर्त्यर्थं महत्त्वाकाङ्क्षायाः पोषणार्थं चाऽत्यन्तं निन्दनीयं । जुगुप्सनीयं च कार्यं कुर्वन्ति, कारयन्ति च, तथाऽपि ते वन्दनीया महान्तश्च कथ्यन्ते, यतः ६ ते प्रसिद्धा जनप्रियाश्च सन्ति । बन्धो ! पूर्वं ग्रामेषु बहुरूपिणोऽटन्ति स्म । ते चाऽऽजीविकार्थं विविधानि । रूपाणि विरचय्य जनानां मनोरञ्जनमकुर्वन् । कदाचित् ते रामस्य हनुमतः शङ्करस्य । ) रावणस्य चैवं विविधं रूपं भजन्ते स्म । किन्तु तत्तद्रूपस्य धारणमात्रत्वात् न ते तादृशा र भवन्ति । केवलं बाह्यवेषस्य बाह्यवर्तनस्य च परिवर्तनान्नाऽऽभ्यन्तरवृत्तिः परिवर्तते । अतो न कदाऽपि बाह्याचरणं निरीक्ष्यैवैष ज्ञानी सदाचारीत्येवं तत्तद्व्यक्तेर्मूल्याङ्कनं करणीयम् । तथैवैते प्रसिद्धजना अपि यथाकालं नानाविधं रूपं निर्मान्ति । नाऽत्र तच्चित्ते गुणलेशोऽपि विद्यते, न च गुणप्राप्त्यर्थं भावोऽप्यस्ति, किन्तु हृदये तु दुष्टवृत्तय एव प्रवर्तन्ते । तथाऽप्यहो ! ते जनप्रसिद्धाः सन्ति, अतः तेषां निन्दनीयमकृत्यं च कार्यमपि प्रशंसनीयमादरणीयं च । भवति । किन्तु हन्त ! एषा रीतिर्दयनीयाऽस्ति, यत एतन्नीतेर्वशात् देशे समाजे धर्मस्थाने । प्रतिगृहं च क्लेशोऽशान्तिः सङ्घर्षश्च प्रवर्तन्ते, तथा च जना अप्यन्ततो निस्तेजसो निर्माल्याश्च भवन्ति । भ्रातः ! सूक्ष्मदृष्ट्या निरीक्षणे कृते एवमाभाति यद्, अस्याः स्थितेर्मूलं महत्त्वाकाङ्क्षाऽस्ति । अद्य बालकादारभ्य वृद्धपर्यन्ताः सर्वेऽपि जना महत्त्वाकाङ्क्षिणो विद्यन्ते । र RO आस्तामज्ञानिनः संसारिणश्च, अपि तु ज्ञानिनः साधवोऽपि महत्त्वाकाङ्क्षया पीडिता दृश्यन्ते । जलार्थं रणेऽटन्तो हरिणा इवैते जना अपि महत्ताप्राप्त्यर्थमटन्ति । "अहं श्रेष्ठो महान् ज्ञानी चाऽस्मि, न कदाऽपि मे कार्य स्खलना न्यूनता च स्या"दिति सर्वेषां चित्ते मिथ्याभिमानं C) रंरम्यते । अत्र केषाञ्चिदपि न तादृशी महत्तां प्राप्तुं शक्तिरस्ति, न च कदाऽपि तत्प्राप्त्यर्थं । १०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy