________________
I
प्रयत्नः क्रियते तैः । तथाऽपि ते जनाः स्वान् पण्डितान् महतश्च मन्वते । ततोऽपि महदाश्चर्यं त्वेतद् यद्, नैतावान् तेषां महेच्छाया अवधिः, अपि त्वन्ये सर्वेऽपि जना अस्मान् “एते ज्ञानिनो महान्तः पण्डिताश्चेति कथयेयुः, सर्वेऽस्मदधीनाः स्यु" रिति महन्तीमभिलाषां सेवन्ते ते । किन्त्वायासमकृत्वैवैतादृशी महेच्छाऽऽसेवनीया, सा तु महामूर्खताऽस्ति । हन्त ! मूढोऽपि जनः पण्डितंमन्य इव चेष्टते । अतो द्वयोर्मध्ये किमन्तरम् ? । न कदाचिदपि कोऽपि जनो जन्मत इच्छातश्च महानस्ति, अपि तु पुरुषार्थेनैव महान् भवति । वस्तुतो यो महान् ज्ञानी चाऽस्ति स न हि स्वं महान्तं दर्शयितुं प्रयतते यश्च प्रयतते स कदाऽपि महान्न स्यात् । कृत्रिमताया आवरणमपाकृत्य वास्तविकताया उद्घाटने एव यथार्था महत्ता विद्वत्ता च स्तः । तथाऽप्यद्य सर्वेऽपि जनाः स्वशक्तिमज्ञात्वैव वास्तविकतां निरुध्य च केवलं महत्तामभिलषन्ते, न तु प्रयतन्ते ।
किञ्च - इदमपि ज्ञेयं यद्, यथा रसायनस्योचितोपयोगः शक्तिवर्धकः, एवं च । यथेच्छं तदुपयोगः शक्तिनाशको भवति । तथैव महत्त्वाकाङ्क्षाप्येकमुत्तमं जीवनरसायनं विद्यते । सा कांश्चन् जीवान् तारयति, कदाचित् सैव महत्त्वाकाङ्क्षा जीवान् मारयेदपि । अतो महत्त्वाकाङ्क्षाऽपि स्वशक्त्यनुरूपैवाऽऽ सेवनीया ।
किं पङ्गुर्मेरुगिरिमारोढुं शक्तो भवेत् ? किं भिक्षुको भूमीशो भवितुं शक्नुयात् ? नैतच्छक्यम् । तथैव न शक्तिशून्या जीवा महत्तां प्राप्तुमर्हाः सन्ति । एते पूर्वव्यावर्णिताः प्रसिद्धजनाः शक्तिशून्याः सन्ति, तथाऽपि ते महत्त्वाकाङ्क्षिणः सन्ति । अतो येन केन प्रकारेण महत्तामवाप्तुं प्रयतन्ते ते । तदा च तुच्छा वराकाश्च ते जीवा अत्यन्तं निकृष्टं जुगुप्सनीयं च मार्गं स्वीकुर्वन्ति । " एषाऽन्यस्य रेखां लघ्वीं कृत्वा स्वस्य रेखाया वृद्धे
च्छाऽस्ति यद् अन्यस्य सद्गुणा अपि दुर्गुणत्वेन कथनीयाः, तथाऽऽत्मनो दुर्गुणा अपि सगुणरूपेण वर्णनीया" इति । अत्राऽन्यस्य रेखां लघ्वीं कृत्वा स्वरेखाया वृद्धिकरणे न पौरुषम् । एतद्द्वारेण तु तादृशा जीवा आत्मनो दुर्बलतां नपुंसकत्वं चैव प्रमाणीकुर्वन्ति । हन्त ! एतादृशा जीवाः पुंस्त्वशून्याः सन्तोऽपि महत्त्वाकाङ्क्षाया बलादेतादृशीं म्लानरीतिमनुसरन्ति, अनुसृत्य तुच्छप्रसिद्ध्या स्वप्रशंसार्थं निरन्तरं प्रयतन्ते । यतो "यदि नामैकदैवंरीत्या समाजे ग्रामे देशे च प्रसिद्धा जनप्रियाश्च भवेम तर्हि का चिन्ता ? पश्चात्तु किमपि कर्तुं स्वतन्त्रा वयं भवामः । तथा च वयं स्वेच्छया कार्यं कर्तुं कारयितुं च शक्नुमः । वयं यत्
Jain Education International
११०
For Private & Personal Use Only
www.jainelibrary.org