________________
at किमपि कथयेम. आचरेम च तत सर्वं हि निराबाधतया शास्त्रं जनसम्मतमाप्तवचन
मागमप्रमाणितं च भवेत् । तदा तु सर्वेषां मुग्धजनानां वञ्चने का बाधा स्यात् ?" इति । SMS जानन्ति ते ।
कथितं च - स्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुद्रैः ।
नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥ सर्वत्रैषैव रीतिः प्रवर्तमानाऽस्ति । अत्र नाऽन्यत् किमपि प्रमाणमावश्यकम्, यतो छ वयं सर्वेऽपि प्रतिदिनमेतां रीतिमनुभवामः ।
बन्धो ! प्रवर्तमानयैतद्पद्धत्या द्वावलाभौ भवतः । एकतः सज्जना बुधजनाश्च देशसमाजयोः सत्कार्येभ्यः शनैः शनैर्दूरीभवन्ति । यत एते प्रसिद्धजनाः सदाऽस्माकं विना
कारणमवहेलनां निन्दां च विधास्यन्ति, तथा स्वप्रतिष्ठार्थमस्माकं प्रतिष्ठां म्लानीकरिष्यन्तीति BE जानन्ति ते प्राज्ञजनाः । एवं देशे समाजे च सज्जनानां गुणिजनानां च सङ्ख्याऽल्पीभविष्यति,
तथा च दुर्जनानामुद्धतजनानां च वृद्धिर्भविष्यति । प्रान्ते केवलं दुर्जनानां दुर्गुणानां चैवाऽस्तित्वं ह भविष्यति । अहो ! पश्यतु, अद्याऽपि मुख्यस्थानानां मुख्याधिकारिणः कीदृशाः सन्ति ! a अपरतोऽसदाचरणं दुर्नीतिविरुद्धरीतिश्चैव देशे समाजे कुटुम्बे धर्मस्थाने च परम्परा भविष्यति, यतोऽग्रण्यो यत् कुर्वन्ति तदेव तदाश्रिता जना अनुकुर्वन्ति । कथितं च - यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ (गीता - ३-२१) ६ ___ एवं यदाऽग्रगण्या मुख्याधिकारिणश्चैव स्वेच्छापूर्त्यर्थं सुखभोगार्थं चाऽसदाचरणं विपरीतवर्तनं च कुर्युः तदा तदाश्रयिणो मुग्धजनाः "एतदेवोचितं मान्यं च तथैषैवाऽस्माकं . कुलरीति"रिति मत्वाऽनुसरेयुः । समाजे जीवने चाऽधर्मस्याऽनीतेश्च प्रवेशः स्वकीयानामग्रणीनां
प्रमादवशादेव भवति । एवं सति गच्छति काले मूलपरम्परा विलुप्स्यते तथाऽशुद्धचेष्टेव ER रीतित्वेन स्थास्यति । ततो न कदाऽपि लोकविरुद्धमाचारविरुद्धं च करणीयमग्रणीभि
न्यजनैश्च, यत् एते मान्यजना अनेकेषां जीवानामाधारभूताः, केषाञ्चिज्जीवानां श्रद्धास्पदरूपाः सन्ति । अतो यदा ते एव प्रतिकूलमाचरेयुः तदा नैकेषां जीवानां श्रद्धाभङ्गो भवति, कदाचिदनेके जीवा धर्मविमुखा नीतिविमुखाश्चाऽपि भवन्ति । ततः प्रसिद्धजनैरत्यन्तं
१११ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org