SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सावधानैर्भाव्यम् । प्रमादतोऽपि स्वपरो भयोर्हानिर्यथा न स्यात्तथा वर्तितव्यम् । एकैकस्य व्यक्तेरनिष्टाचरणं तत्तद्व्यक्तेरेवाऽहितं करोति, किन्तु मान्यजनानामग्रणीजनानां च विपरीतवर्तनं तु बहुजनानां कृते हानिकारकं भवति, अनर्थपरम्पराया निदानमपि भवति । अतः तेषामाचरणमेवैतादृशं स्याद् येनाऽन्ये जीवा तन्निरीक्ष्य स्वयमेव गभीराः शान्ताः स्थिराश्च 19 भवेयुः । तथा समाधिमवाप्य स्वजीवनं कृतकृत्यं कुर्युः । ते प्रसिद्धजनास्तु मध्यस्थाः स्युः । कस्यचिद् लघुगुणोऽपि प्रशंसनीयः तथाऽऽत्मनो लघुदोषोऽपि निन्दनीयः । किं त्वं जानासि ? ज्ञातत्रिलोकान्तर्गतसमस्तवस्तुस्वरूपाः श्रीकेवलिभगवन्तोऽपि परम्परायाः पालनार्थं परीषहोपसर्गान् सहन्ते । "पंचेहिं ठाणेहिं केवली उदिने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं चणं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्म सहिस्संति, जाव अहियासिस्संति" इत्युक्तं श्रीआचाराङ्गसूत्रस्य टीकायाम् । एवं केवलिभगवन्तः सर्वशक्तिलब्धिसंपन्नाः सन्ति । तेषां समक्षं सर्वेऽपि जीवाः तुच्छा:- वराकाः सन्ति । तथाऽपि यदि ते केवलिनः परम्परारक्षणार्थं परीषहादीन् विषह्य स्वरीत्याः पालनं कुर्युः तर्ह्यस्माकं का वार्ता ? अतः स्वमनोरथपूर्त्यर्थं न कदाऽपि मनोनुकूलं करणीयं मान्यजनैः । अन्ते, "ख्यातस्याऽऽचरणं लीला, तदेवाऽन्यस्य विटचेष्टा" इति नीत्या जायमानानलाभानवेत्य स्वार्थ- महत्त्वाकाङ्क्षा-लोभ-तृष्णादिकं विहाय निःस्वार्थतयैव वर्तितव्यं प्रसिद्धजनैर्मान्यजनैश्च । तथा च तद्द्वारेण वयं सर्वे वस्तुतः प्रसिद्धरूपा भवेम, इत्याशासे । १. पञ्चभि: स्थानैः केवल्युदीर्णान् परीषहानुपसर्गान् यावदध्यासयेत्, यावन्मम च अध्यासयतो बहवः छद्मस्थाः श्रमणा निर्मन्था उदीर्णान् परीषहोपसर्गान् सम्यक् सहिष्यन्ते, यावदध्यासिष्यन्ते । Jain Education International ११२ For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy