SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ किमेकस्याऽपि रत्नस्य स्थानं ग्रहीतुमलम् ? गर्तसहस्राणि किं समुद्रो भवितुमर्हन्ति ? TAY बाह्यदृष्ट्या कदाचिदस्माभिः प्रभूतमुपलब्धं स्यात् किन्तु स्वत्वं त्वस्माकं नाशितमेव । अत A) एव चेयान् भौतिको विकासः साधितः सन्नप्यस्माकमास्ये हास्यं, तेजः, ओजः, उल्लासः, MAA तृप्तिर्वा न दृश्यते एव । निरन्तरमस्माकं सत्त्वं सुखं वा म्लानं मलिनं च भवति । यच्च HD मुखे दृश्यते तन्न तृप्तेस्तेजोऽपि तु मिथ्यादर्पस्योपलेप एवाऽस्ति । ___ उपर्युक्ता घटना ह्यस्माकमेव भूतकालोऽस्ति । ततो झरत् सत्यमस्माकमेव जीवनसत्यमस्ति । केवलं तिरोभूतमधुना तत् । यत्स्वरूपं वर्तमानकाले दृश्यतेऽस्माकं तन्न an वास्तविकम् । अस्यां घटनायामभिव्यज्यमानं स्वरूपमेवाऽस्माकं वास्तवं स्वरूपं स्वत्वं । N वाऽस्ति । सत्यमेतद् यद् वयं मूलस्थितितो दूरमागताः स्मः किन्तु प्रतिनिवर्तनं न शक्यमिति तु न । प्रजानां मूलभूतं सत्त्वं त्याग-समर्पण-भ्रातृत्व-सदाचारादिरूपेणाऽस्ति । य एष र विपर्यासो विपर्ययो वा दृश्यते स त्वारोपितः । प्रजानामज्ञानमुपयुज्य तच्चित्ते वैर। वैमनस्य-पारस्परिकाविश्वास-गुरुतादिभावानां बीजान्युप्तानि सन्ति । यद्यद्याऽपि वयं जागृता . - न भविष्यामस्तर्हि बहुविलम्बो भविष्यति । पश्चादास्तां ततः प्रतिनिवर्तनस्य वार्ता परं NAL तादृशो विचारोऽपि दुःशको भविष्यति । आत्मनिरीक्षणस्य समयोऽधुना परिपक्वो जातोऽस्ति । - र कुत्र स्खलिता वयम् ? कियत् किं किं च नाशितम् ? अवसरोऽयमस्ति जागरुकतायाः । Song यावच्चित्ते सत्त्वस्यैकोऽपि तेजःकणः प्रज्वलितोऽस्ति तावज्जागृतैर्भवितव्यमस्माभिः । Mad CM एवमेव वयमस्माकं विनष्टं म्लानं सत्त्वं पुनर्जागृतं तेजस्वि च कर्तुं शक्ष्यामः । - स्वस्थमात्मनिरीक्षणमेवाऽत्रोपायः । तदेवाऽस्माकमार्यत्वं पुनः प्रस्थापितं करिष्यति तेजोन्वितं . निशितं प्रभावि च निष्पादयिष्यति। गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ।। १०६ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy