SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 1 प्राप्यमाणा आसन् । एते संस्कारा एवाऽस्माकं सम्पदार्यत्वस्य च परिचय आसन् । 'आर्य' - इति शब्दो यत्र प्रयुज्यते तत्र सर्वेऽप्यन्ये हिन्दु-मुसल्मीनादयः परिचया गौणा एव जायन्ते । सो My अन्यसत्कानि सुखदुःखानि स्वकीयानीति कृत्वा य: संवेदयति स आर्यः । एतादृशं । तेजोमयमार्यत्वं यत्र विद्यते तत्र हीश्वरः स्वयमेवाऽऽवसति, तस्य सहायार्थं च सदोपस्थितो - स भवति । ईशश्रद्धाया अतोऽप्युत्तमोऽन्यः परिपाकः किं नाम भवितुमर्हेत् ? एतादृशा उदात्ता । 15 ईश्वरीया अंशा यदि नोद्धटेरन् तींशश्रद्धाऽपि केवलं विडम्बनरूपा भवति । आस्तिक्यं तु MY न केवलमीश्वरस्य स्वीकारे पर्यवसति किन्त्वन्तःस्थितानि सुषुप्तानीशतत्त्वानि शनैः शनैरुद्घाट्य स्वकीयमीश्वरत्वं प्रत्यग्रेसरीभवने तत् सार्थक्यं भजति । किञ्च, अत्र किमपि प्रतिफलं प्रत्युपकारं वाऽपेक्षितं न दृश्यते । अन्तःपरितोष एव । 1 फलं नाऽन्यद् बाह्यं किमपि । एतादृशस्य प्रसङ्गस्य पठनेनैका श्रद्धा दृढा भवति यन्मनुष्य स एवेश्वरो भवितुमर्हति । अत्र प्रसङ्गे यत् सत्तत्त्वं दृश्यते तदीश्वरस्यैवांऽशः खलु ? TH 1 एतादृशमेकमंशं दृष्ट्वा ज्ञात्वा चाऽपि यदि नेत्रे क्लिन्ने भवतः, शीर्षं नमति, हृदयं च । MAY पुलकितं भवति तर्हि तादृशा ईश्वरीया सर्वेऽप्यन्तःस्था अंशा यदोद्घटिता भवेयुस्तदा तु का Viar वार्ता ? एतादृशस्त्वीश्वर एव भवति । अपरं च सत्तत्त्वं दृष्ट्वा यन्नेत्रक्लेदादिरूपेणाऽहोभावो जायते तदपीश्वरं प्रति पक्षपात एव खलु । एषोदात्ता वृत्तिरीश्वरत्वाविर्भावस्य मार्गोऽस्ति, - अहोभावश्चेश्वरसामीप्यस्य मार्गोऽस्ति । अस्या घटनायाः स्रवन्त्युदारता परमात्मनि विद्यमानाया । अनन्तायाः करुणाया बीजमस्ति । किन्तु, कुत्र गतास्ते दिवसाः ? कुत्र लुप्ता साऽऽत्मौपम्यवृत्तिर्मानवता वा ? क्व विलीनः स गुणवैभवो योऽस्मान् प्रमाणीकुर्वन्नासीत् ? येन च वयमुन्नतमस्तका आसन् ? अस्माभिविस्मृतोऽयं वैभवः । अन्तःस्फूर्तादेतादृशाद् वैभवादपि बाह्यो वैभवो महत्त्वपूर्णः प्रतिभासते । आत्मीयतायाः स्थानं स्वार्थेन गृहीतमस्ति । आत्मसम्माननस्य आत्मगौरवस्य वा स्थाने मिथ्याभिमानो जागृतोऽस्ति । यत्राऽऽत्मतृप्तिरेव सुखस्य मानदण्ड आसीत्तत्र पराभिप्राय एवाऽधुना मानदण्डायते । प्रभूतो बाह्यो वैज्ञानिको वा विकासो जातोऽस्ति किन्तु तदर्थं तादृशानामुदात्तानां परिस्थितीनां वातावरणानां विचारसरणीनां यो हासः सम्पादितस्तस्य पूर्तिस्त्वेतादृग्भिर्विकाससहरैरपि न कर्तुं शक्या । काचसहस्राण्यपि १०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy