________________
चिन्तनधारा
(आस्वाद
मुनिरत्नकीर्तिविजयः
एक: सत्यप्रसङ्गः पठितः ।
"एकदा मन्नरकाडनामके ग्रामे एकस्य मुसल्मीनस्य गृहेऽग्निः प्रज्वलितः । NY Sh तत्समीपस्थे गृहे निवसता कृष्णनेनैतज्ज्ञातम् । झटित्युत्थाय स तत्र गतवान् । प्राणानपिन in पणीकृत्य दह्यमाने गृहे स उत्प्लुत्याऽन्तः प्रविष्टवान् । स्वकीयजीवनस्य, स्वपत्न्याः, द्वयोः sy
पुत्रयोः, वृद्धायाश्च मातुरपि विचारस्तदा तं न पीडितवान् । शनैः शनैरग्निर्भयावहं स्वरूपं
धृतवानासीत् । तथाऽप्यन्तर्गत्वा प्रतिवेशिनो द्वौ बालकौ यथाकथञ्चिदपि बहिः प्रापय्य ATM करालाभ्योऽग्निज्वालाभ्यो रक्षितवान् । किन्तु बहिरागच्छन् स स्वयमग्निज्वालाभिर्वेष्टितोऽभूत् । र क्षणेनैव च सर्वेषु पश्यस्त्वेव सोऽग्निसाज्जातः । सर्वत्र हाहारवः प्रसृतः । तस्य कुटुम्बं निराधारतां प्राप्तम् । एक एवाऽऽधारः स आसीत् तेषाम् । अथ किम् ?
तदा कालीकटनगरात् प्रकाश्यमाने 'मातृभूमि'नामके दैनिकवृत्तपत्रे एषा घटना प्रकाशिता । तत्र च 'निराधारं जातमिदं कुटुम्बकम्, अतस्तदर्थं किमपि करणीयमिति समाजस्य दायित्वम्' - एवंरूपेण याचिकाऽपि तत्र पत्रकारेण दत्ताऽऽसीत् । तत्प्रत्युत्तरूपेण स्वल्पेनैव कालेन रूप्यकाणां चतुर्विंशतिसहस्रं सञ्चितमभवत् । हिन्दुजना मुसल्मीनजनाश्च सम्मील्य तत्र साहाय्यं कृतवन्तः ।
अथ 'प्रथमं तावदेतद् धनं कुत्रोपयोज्य'मिति तत्रस्थैर्महाजनैः कृष्णनस्य पत्नी पृष्टा । तदा सा विधवा रुदती सती करुणस्वरेणैतदुक्तवती यद्- 'भवन्तो यथारुच्येतदुपयुञ्जन्तु, किन्तु ममैकैव मनीषाऽस्ति यत् प्रथमं तु निराधारतां प्राप्तवतां मम प्रतिवेशिनां कृतेऽस्माद र धनाद् गृहमेकं शीघ्रं निर्मापयन्तु' इति ।"
उदात्तमेनं प्रसङ्ग पठित्वा हृदयं गद्गदं जातम्, अक्षिणी आर्द्र संवृत्ते, आपादतलं च रोमोद्गमः सञ्जातः । एत आसन्नस्माकं संस्कारा औदार्यस्य भ्रातृभावस्य मैत्रीभावस्य वा, ये पारिवारिकात् सामाजिकाद् वा वातावरणात् सहजतयैव सिच्यमानाः पुष्टिं वृद्धिं च
१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org