________________
आङ्ग्लभूमिजानामपि बाइबलनामकधर्मपुस्तकस्य विंशतितमे प्रकरणे कथितं, यत्-‘Thou shalt not kill (Advice to Moses) | |
अयं भावः-त्वं न कमपि जीवं हन्याः ।
पुनरपि तस्यै [व] द्वाविंशे प्रकरणे प्रोक्तं यत्- 'And ye shall be holy-man untome neither shall ye eat any flesh that is torn of beasts in the fields.
अयं भावः-त्वं मां प्रति पवित्रतया वर्तेथाः । वन्यान् पशून् हत्वा तदीयं मांसं
नाऽद्याः ।
बाइबलात् पुरातने जेनीसीसपुस्तकेऽप्युक्तं यत्
'The Primitive injunction of God to man at the creation was Behold I have given you every herb bearing Beed, which is upon the face of all the earth. and every tree in which is the fruit of a tree yielding seed to you it shall be for meat (Gen. I-29)
अयं भावः - परमेश्वरेण मनुजोत्पत्तेरेवं खल्वादावेवाऽऽदिष्टं यत्, "अवहितव्यं' भवद्भिः, यदुत मया भवद्भ्यः पृथ्वीतलोपर्युद्गच्छन्तः सबीजा: वल्ल्यादय: सबीजफला वृक्षाश्चाऽर्पितास्तदेव भवद्भक्षणायाऽलम् भवद्भिरेतदेव भक्षणीयं नाऽन्यदिति" तदाशयः ।
तथैव हुसीयानामक पुस्तकस्याऽष्टमाध्याये पञ्चदशे आयातनामके प्रकरणे - And When ye spread forth your hands, I will hide my eyes from you. yes, when. ye make many prayers. I will not hear. your hands are full of blood.
अयं भावः - (ईश्वरो वक्ति) “यदा यूयं भवद्धस्तौ प्रार्थनायै लम्बयिष्यथ तदाऽहंनेत्रे भवतोऽन्यतो निवर्स्यामि भूरिप्रार्थनायामपि वाऽहमीक्षिष्ये । यतः प्राणिहिंसातो भवद्धत शोणितलिप्तौ वर्तेते । एभिः पूर्वोदितैस्तत्तद्धर्मपुस्तकपाठैः हिंसाया मांसभक्षणस्य च निषेधः स्पष्ट एव ॥
Jain Education International
१०३
For Private & Personal Use Only
www.jainelibrary.org