________________
*
V
पारसिकाः स्वकीयं पूज्यं (परवरदीगारं) 'पशुपालकः पशुप्रेमी'त्यादिसंज्ञयाऽद्याऽपि स्मरन्तः । श्रूयन्ते । फुट्स एण्ड फेरीनेशीयानामके पुस्तकेऽपि लिखितमस्ति यत्, 'पारसिकानां प्राचीना धर्मगुरुव: सदैव फलपुष्पादीन् भक्षयन्तौ(न्तो) बभूवुः' ।
प्लेनीनामकः प्रसिद्धस्तत्त्ववेत्ता स्वकीये एकादशे पुस्तके लिखति यत्, 'जरथोस्तः । अलबरुझपर्वतगुहायां (खुदाताला) परमेश्वरप्रार्थनायै मोनाजातये च विंशति वर्षाणि लीन र आसीत् । शरीरपोषणं स्वनिर्वाहं केवलं पनीरफलदुग्धभक्षणेनाऽकार्षीत्', इत्यादि । -
__ अपि च रावजीवोराजातीया ये प्रसिद्ध्या लोटीयावोरा उच्यन्ते । तेऽपि । मांसादनस्याऽतिनिन्दितत्वात् कदाऽपि मांसं नाऽदन्ति । अत एव तेषां 'नगोसीया (न मांसादाः) नमांसीया इति वा' इति प्रसिद्धिः । तदीयधर्मपुस्तकेष्वप्युक्तं तद्भाषया
"फला तज अलू बुतून कुम मकावरल हयवानात" ।।
अयमर्थः-पशुपक्षिकलेवराश्रयत्वं तवोदरं न कुर्याः । अयमाशयः-तान् हत्वा या नाऽत्स्यसीति ।
महम्मदीयानामपि कुरानेशरीफनामकधर्मपुस्तकस्थसूराअनआमविभागस्य । आयतनामके एकशतद्विचत्वारिंशे प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेण स्पष्टं निर्दिष्टं ना
"व मिनल अनआमे हम् लतं व फर्शा । कुलूमिम्मारजककुमुल्लहो" ।।
अयं भाव-अल्लानामेश्वरेण चतुष्पदेषु कतिचिद्भारोद्वहनाय सृष्टाः । भक्षणाय च मे M भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद्यूयमद्यात ।
अपि च तस्मिन्नेव सूरा-अन-आमप्रकरणे रुधिरमांसभक्षणनिषेध उक्तः । बकरी इद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः हुशनग्रन्थस्य सुराहज्ज-विभागस्य । षट्त्रिशे आयातनामके प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेणोक्तः । तेन स्वयं तत्र । प्रतिपादितं-मांसं शोणितं वा न मां मिलिष्यति, अपि तु निवृत्त्या प्रार्थनयैव वाऽहं तुष्टो । भविष्यामि । अपि चाऽद्याऽपि यदा कोऽपि महम्मदीयः शालेका कः) शरीरयतप्रदेशात् । टरपीटप्रदेशं प्रविशति तदा सोऽपि मांसादनस्य दूषितत्वात् मांसभक्षणात् त्वरितमेव निवर्तते ।
04
१०२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org