________________
___'येन बद्धो बली राजा दानवेन्द्रो महाबली' ॥ इति रक्षाबन्धनमन्त्रः । षष्ठः । प्रतिवासुदेवो वा बलिः । ते च नव । यदाह हैम: -
अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भ-बलि-प्रह्लाद-लङ्केश-मगधेश्वराः ।। लङ्केशो रावणः, मगधेश्वरो जरासन्धः, इति टीका ।
विष्णुवध्यत्रयोविंशतौ द्वाविंशे, यदाह हैम:२_"मधु-धेनुकचाणूर-पूतना-यमलार्जुनाः । - कालनेमिहयग्रीवशकटारिष्टकैटभाः कंसकेशिमुराः साल्वमैन्दद्विविदराहवः हिरण्यकशिपुर्बाणः ।
कालियो नरको बलिः शिशुपालश्चाऽस्य वध्याः" इति । 'एते त्रयोविंशतिरस्य विष्णोर्वध्या' या । इति तट्टीका" । "जरया श्लथचर्मणि, स्त्रीलि० वा ङीप् ।
_ 'गृहस्थस्तु यदा पश्येत् बलीपलितमात्मनः' । इति स्मृतिः ।
उदरावयवे-'बलित्रयं चारु बभार बाला' इति कुमारः [सर्ग-१ श्लो०३९] ।
गुह्यस्थे अङ्कराकारे मांसपिण्डे । गृहदारुभेदे च स्त्री०, स्वार्थे कन् । तत्राऽर्थे । - इति(इनि?,) बलायां च । दीप्यते इति दीपः, प्र स्वार्थे, मेरुः सुमेरुवत्, प्रदीपः ।
___'दीपः प्रदीपः कज्जलध्वजः स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः" इति हैम: । यद्वा प्रउपसर्गपूर्वात् दीप्धातोः कप्रत्यये प्रदीपः, पुंलि० प्रदीपे । बलयश्च प्रदीपाश्च - बलिप्रदीपाः । अन्तिके न्यस्ताः बलिप्रदीपा: यस्याः सा अन्तिकन्यस्तबलिप्रदीपा, ताम्
अन्तिकन्यस्तबलिप्रदीपाम्-समीपस्थापितपूजोपकरणदीपाम् । तां पूर्वोक्तां सुखासीनां का नन्दिनीम् ।
अन्वास्य-अनुउपसर्गपूर्वात् 'आस् उपवेशने' धातोर्त्यपि अन्वास्य-अनूपविश्य । सो क्रमणं-भावे घजि क्रमः । “पर्यायोऽनुक्रमः क्रमः परिपाट्यनुपूर्व्यावृत्" इति हैम: ।
क्रामन्त्यनेनेति क्रमः-पादः "चरणः क्रमणः पादः पदोंऽहिश्चलनः क्रमः" इति हैम:५ । यद्वा र
१. अभि० चि० तृ० ६९९ । ३. अभि० चि० तृ० ६८६-८७ | ५. अभि० चि० तृ० ६१६ ।
२. अभि० चि० द्वि० २१९-२०-२१ । ४. अभि० चि० ष० १५०३-४ ।
*
६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org